🪷 Mahābhārata · Strī-Parva · Chapter 3

The Book of the Women · Parva 11 · 17 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 17 Shlokas

MBh 11.3.1
धृतराष्ट्र उवाच सुभाषितैर्महाप्राज्ञ शोकोऽयं विगतो मम भुय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः
MBh 11.3.2
अनिष्टानां च संसर्गादिष्टानां च विवर्जनात् कथं हि मानसैर्दुःखैः प्रमुच्यन्तेऽत्र पण्डिताः
MBh 11.3.3
विदुर उवाच यतो यतो मनो दुःखात्सुखाद्वापि प्रमुच्यते ततस्ततः शमं लब्ध्वा सुगतिं विन्दते बुधः
MBh 11.3.4
अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ कदलीसंनिभो लोकः सारो ह्यस्य न विद्यते
MBh 11.3.5
गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः कालेन विनियुज्यन्ते सत्त्वमेकं तु शोभनम्
MBh 11.3.6
यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु वै नरः अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम्
MBh 11.3.7
वैचित्रवीर्य वासं हि दुःखं वा यदि वा सुखम् प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा
MBh 11.3.8
कर्मणा प्राप्यते स्वर्गं सुखं दुःखं च भारत ततो वहति तं भारमवशः स्ववशोऽपि वा
MBh 11.3.9
यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते किंचित्प्रक्रियमाणं वा कृतमात्रमथापि वा
MBh 11.3.10
छिन्नं वाप्यवरोप्यन्तमवतीर्णमथापि वा आर्द्रं वाप्यथ वा शुष्कं पच्यमानमथापि वा
MBh 11.3.11
अवतार्यमाणमापाकादुद्धृतं वापि भारत अथ वा परिभुज्यन्तमेवं देहाः शरीरिणाम्
MBh 11.3.12
गर्भस्थो वा प्रसूतो वाप्यथ वा दिवसान्तरः अर्धमासगतो वापि मासमात्रगतोऽपि वा
MBh 11.3.13
संवत्सरगतो वापि द्विसंवत्सर एव वा यौवनस्थोऽपि मध्यस्थो वृद्धो वापि विपद्यते
MBh 11.3.14
प्राक्कर्मभिस्तु भूतानि भवन्ति न भवन्ति च एवं सांसिद्धिके लोके किमर्थमनुतप्यसे
MBh 11.3.15
यथा च सलिले राजन्क्रीडार्थमनुसंचरन् उन्मज्जेच्च निमज्जेच्च किंचित्सत्त्वं नराधिप
MBh 11.3.16
एवं संसारगहनादुन्मज्जननिमज्जनात् कर्मभोगेन बध्यन्तः क्लिश्यन्ते येऽल्पबुद्धयः
MBh 11.3.17
ये तु प्राज्ञाः स्थिताः सत्ये संसारान्तगवेषिणः समागमज्ञा भूतानां ते यान्ति परमां गतिम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 17 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 11.3local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷