🪷 Mahābhārata · Strī-Parva · Chapter 23
The Book of the Women · Parva 11 · 42 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 42 Shlokas
MBh 11.23.1
गान्धार्युवाच
एष शल्यो हतः शेते साक्षान्नकुलमातुलः
धर्मज्ञेन सता तात धर्मराजेन संयुगे
MBh 11.23.2
यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ
स एष निहतः शेते मद्रराजो महारथः
MBh 11.23.3
येन संगृह्णता तात रथमाधिरथेर्युधि
जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः
MBh 11.23.4
अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम्
मुखं पद्मपलाशाक्षं वडैरादष्टमव्रणम्
MBh 11.23.5
एषा चामीकराभस्य तप्तकाञ्चनसप्रभा
आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः
MBh 11.23.6
युधिष्ठिरेण निहतं शल्यं समितिशोभनम्
रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः
MBh 11.23.7
एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम्
क्रोशन्त्यभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम्
MBh 11.23.8
शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः
वाशिता गृष्टयः पङ्के परिमग्नमिवर्षभम्
MBh 11.23.9
शल्यं शरणदं शूरं पश्यैनं रथसत्तमम्
शयानं वीरशयने शरैर्विशकलीकृतम्
MBh 11.23.10
एष शैलालयो राजा भगदत्तः प्रतापवान्
गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः
MBh 11.23.11
यस्य रुक्ममयी माला शिरस्येषा विराजते
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान्
MBh 11.23.12
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम्
लोमहर्षणमत्युग्रं शक्रस्य बलिना यथा
MBh 11.23.13
योधयित्वा महाबाहुरेष पार्थं धनंजयम्
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः
MBh 11.23.14
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन
स एष निहतः शेते भीष्मो भीष्मकृदाहवे
MBh 11.23.15
पश्य शांतनवं कृष्ण शयानं सूर्यवर्चसम्
युगान्त इव कालेन पातितं सूर्यमम्बरात्
MBh 11.23.16
एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान्
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव
MBh 11.23.17
शरतल्पगतं वीरं धर्मे देवापिना समम्
शयानं वीरशयने पश्य शूरनिषेविते
MBh 11.23.18
कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम्
आविश्य शेते भगवान्स्कन्दः शरवणं यथा
MBh 11.23.19
अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम्
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना
MBh 11.23.20
पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः
एष शांतनवः शेते माधवाप्रतिमो युधि
MBh 11.23.21
धर्मात्मा तात धर्मज्ञः पारंपर्येण निर्णये
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत्
MBh 11.23.22
नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी
यत्र शांतनवो भीष्मः शेतेऽद्य निहतः परैः
MBh 11.23.23
स्वयमेतेन शूरेण पृच्छ्यमानेन पाण्डवैः
धर्मज्ञेनाहवे मृत्युराख्यातः सत्यवादिना
MBh 11.23.24
प्रनष्टः कुरुवंशश्च पुनर्येन समुद्धृतः
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम्
MBh 11.23.25
धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव
गते देवव्रते स्वर्गं देवकल्पे नरर्षभे
MBh 11.23.26
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा
तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम्
MBh 11.23.27
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव
MBh 11.23.28
यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम्
चकार स हतः शेते नैनमस्त्राण्यपालयन्
MBh 11.23.29
यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान्
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक्कृतः
MBh 11.23.30
यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत्
स भूमौ निहतः शेते शान्तार्चिरिव पावकः
MBh 11.23.31
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा
MBh 11.23.32
वेदा यस्माच्च चत्वारः सर्वास्त्राणि च केशव
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः
MBh 11.23.33
वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ
MBh 11.23.34
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन
कृपी कृपणमन्वास्ते दुःखोपहतचेतना
MBh 11.23.35
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम्
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम्
MBh 11.23.36
बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी
MBh 11.23.37
प्रेतकृत्ये च यतते कृपी कृपणमातुरा
हतस्य समरे भर्तुः सुकुमारी यशस्विनी
MBh 11.23.38
अग्नीनाहृत्य विधिवच्चितां प्रज्वाल्य सर्वशः
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः
MBh 11.23.39
किरन्ति च चितामेते जटिला ब्रह्मचारिणः
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव
MBh 11.23.40
शस्त्रैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम्
त एते द्रोणमाधाय शंसन्ति च रुदन्ति च
MBh 11.23.41
सामभिस्त्रिभिरन्तःस्थैरनुशंसन्ति चापरे
अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने
MBh 11.23.42
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Strī-Parva chapter-index (27 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Strī-Parva Ch 22
- Next chapter · Strī-Parva Ch 24 →
Sources and Connected Readings
Continue from these 42 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 11.23local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷