🪷 Mahābhārata · Strī-Parva · Chapter 16
The Book of the Women · Parva 11 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 59 Shlokas
MBh 11.16.1
वैशंपायन उवाच
एवमुक्त्वा तु गान्धारी कुरूणामाविकर्तनम्
अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा
MBh 11.16.2
पतिव्रता महाभागा समानव्रतचारिणी
उग्रेण तपसा युक्ता सततं सत्यवादिनी
MBh 11.16.3
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत्
MBh 11.16.4
ददर्श सा बुद्धिमती दूरादपि यथान्तिके
रणाजिरं नृवीराणामद्भुतं लोमहर्षणम्
MBh 11.16.5
अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम्
शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः
MBh 11.16.6
गजाश्वरथयोधानामावृतं रुधिराविलैः
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः
MBh 11.16.7
गजाश्वनरवीराणां निःसत्त्वैरभिसंवृतम्
सृगालबडकाकोलकङ्ककाकनिषेवितम्
MBh 11.16.8
रक्षसां पुरुषादानां मोदनं कुरराकुलम्
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम्
MBh 11.16.9
ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः
MBh 11.16.10
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम्
कुरुस्त्रियः समासाद्य जग्मुरायोधनं प्रति
MBh 11.16.11
समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन्
MBh 11.16.12
क्रव्यादैर्भक्ष्यमाणान्वै गोमायुबडवायसैः
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः
MBh 11.16.13
रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः
महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे
MBh 11.16.14
अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः
शरीरेष्वस्खलन्नन्या न्यपतंश्चापरा भुवि
MBh 11.16.15
श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत्
MBh 11.16.16
दुःखोपहतचित्ताभिः समन्तादनुनादितम्
दृष्ट्वायोधनमत्युग्रं धर्मज्ञा सुबलात्मजा
MBh 11.16.17
ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम्
कुरूणां वैशसं दृष्ट्वा दुःखाद्वचनमब्रवीत्
MBh 11.16.18
पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः
प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव
MBh 11.16.19
अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान्
पृथगेवाभ्यधावन्त पुत्रान्भ्रातॄन्पितॄन्पतीन्
MBh 11.16.20
वीरसूभिर्महाबाहो हतपुत्राभिरावृतम्
क्वचिच्च वीरपत्नीभिर्हतवीराभिराकुलम्
MBh 11.16.21
शोभितं पुरुषव्याघ्रैर्भीष्मकर्णाभिमन्युभिः
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः
MBh 11.16.22
काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महात्मनाम्
अङ्गदैर्हस्तकेयूरैः स्रग्भिश्च समलंकृतम्
MBh 11.16.23
वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि
खड्गैश्च विमलैस्तीक्ष्णैः सशरैश्च शरासनैः
MBh 11.16.24
क्रव्यादसंघैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित्
क्वचिदाक्रीडमानैश्च शयानैरपरैः क्वचित्
MBh 11.16.25
एतदेवंविधं वीर संपश्यायोधनं विभो
पश्यमाना च दह्यामि शोकेनाहं जनार्दन
MBh 11.16.26
पाञ्चालानां कुरूणां च विनाशं मधुसूदन
पञ्चानामिव भूतानां नाहं वधमचिन्तयम्
MBh 11.16.27
तान्सुपर्णाश्च गृध्राश्च निष्कर्षन्त्यसृगुक्षितान्
निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः
MBh 11.16.28
जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति
MBh 11.16.29
अवध्यकल्पान्निहतान्दृष्ट्वाहं मधुसूदन
गृध्रकङ्कबडश्येनश्वसृगालादनीकृतान्
MBh 11.16.30
अमर्षवशमापन्नान्दुर्योधनवशे स्थितान्
पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव
MBh 11.16.31
शयनान्युचिताः सर्वे मृदूनि विमलानि च
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते
MBh 11.16.32
बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः
MBh 11.16.33
ये पुरा शेरते वीराः शयनेषु यशस्विनः
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते
MBh 11.16.34
तेषामाभरणान्येते गृध्रगोमायुवायसाः
आक्षिपन्त्यशिवा घोरा विनदन्तः पुनः पुनः
MBh 11.16.35
चापानि विशिखान्पीतान्निस्त्रिंशान्विमला गदाः
युद्धाभिमानिनः प्रीता जीवन्त इव बिभ्रति
MBh 11.16.36
सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः
ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः
MBh 11.16.37
अपरे पुनरालिङ्ग्य गदाः परिघबाहवः
शेरतेऽभिमुखाः शूरा दयिता इव योषितः
MBh 11.16.38
बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन
MBh 11.16.39
क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम्
शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः
MBh 11.16.40
एते गोमायवो भीमा निहतानां यशस्विनाम्
कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः
MBh 11.16.41
सर्वेष्वपररात्रेषु याननन्दन्त बन्दिनः
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः
MBh 11.16.42
तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः
कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम्
MBh 11.16.43
रक्तोत्पलवनानीव विभान्ति रुचिराणि वै
मुखानि परमस्त्रीणां परिशुष्काणि केशव
MBh 11.16.44
रुदितोपरता ह्येता ध्यायन्त्यः संपरिप्लुताः
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः
MBh 11.16.45
एतान्यादित्यवर्णानि तपनीयनिभानि च
रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम्
MBh 11.16.46
आसामपरिपूर्णार्थं निशम्य परिदेवितम्
इतरेतरसंक्रन्दान्न विजानन्ति योषितः
MBh 11.16.47
एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च
विस्पन्दमाना दुःखेन वीरा जहति जीवितम्
MBh 11.16.48
बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः
MBh 11.16.49
शिरोभिः पतितैर्हस्तैः सर्वाङ्गैर्यूथशः कृतैः
इतरेतरसंपृक्तैराकीर्णा भाति मेदिनी
MBh 11.16.50
विशिरस्कानथो कायान्दृष्ट्वा घोराभिनन्दिनः
मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च
MBh 11.16.51
शिरः कायेन संधाय प्रेक्षमाणा विचेतसः
अपश्यन्त्यो परं तत्र नेदमस्येति दुःखिताः
MBh 11.16.52
बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक्
संदधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनः पुनः
MBh 11.16.53
उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः
दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः
MBh 11.16.54
पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन
प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः
MBh 11.16.55
बाहुभिश्च सखड्गैश्च शिरोभिश्च सकुण्डलैः
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा
MBh 11.16.56
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः
भ्रातृभिः पितृभिः पुत्रैरुपकीर्णां वसुंधराम्
MBh 11.16.57
यूथानीव किशोरीणां सुकेशीनां जनार्दन
स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः
MBh 11.16.58
अतो दुःखतरं किं नु केशव प्रतिभाति मे
यदिमाः कुर्वते सर्वा रूपमुच्चावचं स्त्रियः
MBh 11.16.59
नूनमाचरितं पापं मया पूर्वेषु जन्मसु
या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च केशव
एवमार्ता विलपती ददर्श निहतं सुतम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Strī-Parva chapter-index (27 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Strī-Parva Ch 15
- Next chapter · Strī-Parva Ch 17 →
Sources and Connected Readings
Continue from these 59 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 11.16local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷