🪷 Mahābhārata · Strī-Parva · Chapter 15
The Book of the Women · Parva 11 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 20 Shlokas
MBh 11.15.1
वैशंपायन उवाच
एवमुक्त्वा तु गान्धारी युधिष्ठिरमपृच्छत
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता
MBh 11.15.2
तामभ्यगच्छद्राजेन्द्रो वेपमानः कृताञ्जलिः
युधिष्ठिर इदं चैनां मधुरं वाक्यमब्रवीत्
MBh 11.15.3
पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम्
MBh 11.15.4
न हि मे जीवितेनार्थो न राज्येन धनेन वा
तादृशान्सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः
MBh 11.15.5
तमेवंवादिनं भीतं संनिकर्षगतं तदा
नोवाच किंचिद्गान्धारी निःश्वासपरमा भृशम्
MBh 11.15.6
तस्यावनतदेहस्य पादयोर्निपतिष्यतः
युधिष्ठिरस्य नृपतेर्धर्मज्ञा धर्मदर्शिनी
अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा
MBh 11.15.7
ततः स कुनखीभूतो दर्शनीयनखो नृपः
तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः
MBh 11.15.8
एवं संचेष्टमानांस्तानितश्चेतश्च भारत
गान्धारी विगतक्रोधा सान्त्वयामास मातृवत्
MBh 11.15.9
तया ते समनुज्ञाता मातरं वीरमातरम्
अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः
MBh 11.15.10
चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता
बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम्
MBh 11.15.11
ततो बाष्पं समुत्सृज्य सह पुत्रैस्तथा पृथा
अपश्यदेताञ्शस्त्रौघैर्बहुधा परिविक्षतान्
MBh 11.15.12
सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनः पुनः
अन्वशोचन्त दुःखार्ता द्रौपदीं च हतात्मजाम्
रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि
MBh 11.15.13
द्रौपद्युवाच
आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः
न त्वां तेऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम्
किं नु राज्येन वै कार्यं विहीनायाः सुतैर्मम
MBh 11.15.14
वैशंपायन उवाच
तां समाश्वासयामास पृथा पृथुललोचना
उत्थाप्य याज्ञसेनीं तु रुदतीं शोककर्शिताम्
MBh 11.15.15
तयैव सहिता चापि पुत्रैरनुगता पृथा
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम्
MBh 11.15.16
तामुवाचाथ गान्धारी सह वध्वा यशस्विनीम्
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम्
MBh 11.15.17
मन्ये लोकविनाशोऽयं कालपर्यायचोदितः
अवश्यभावी संप्राप्तः स्वभावाल्लोमहर्षणः
MBh 11.15.18
इदं तत्समनुप्राप्तं विदुरस्य वचो महत्
असिद्धानुनये कृष्णे यदुवाच महामतिः
MBh 11.15.19
तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः
मा शुचो न हि शोच्यास्ते संग्रामे निधनं गताः
MBh 11.15.20
यथैव त्वं तथैवाहं को वा माश्वासयिष्यति
ममैव ह्यपराधेन कुलमग्र्यं विनाशितम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Strī-Parva chapter-index (27 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Strī-Parva Ch 14
- Next chapter · Strī-Parva Ch 16 →
Sources and Connected Readings
Continue from these 20 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 11.15local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷