🪷 Mahābhārata · Strī-Parva · Chapter 14

The Book of the Women · Parva 11 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 22 Shlokas

MBh 11.14.1
वैशंपायन उवाच तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा
MBh 11.14.2
अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि
MBh 11.14.3
न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः शक्यः केनचिदुद्यन्तुमतो विषममाचरम्
MBh 11.14.4
सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान् मां हत्वा न हरेद्राज्यमिति चैतत्कृतं मया
MBh 11.14.5
राजपुत्रीं च पाञ्चालीमेकवस्त्रां रजस्वलाम् भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव
MBh 11.14.6
सुयोधनमसंगृह्य न शक्या भूः ससागरा केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया
MBh 11.14.7
तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत् द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत्
MBh 11.14.8
तत्रैव वध्यः सोऽस्माकं दुराचारोऽम्ब ते सुतः धर्मराजाज्ञया चैव स्थिताः स्म समये तदा
MBh 11.14.9
वैरमुद्धुक्षितं राज्ञि पुत्रेण तव तन्महत् क्लेशिताश्च वने नित्यं तत एतत्कृतं मया
MBh 11.14.10
वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः
MBh 11.14.11
गान्धार्युवाच न तस्यैष वधस्तात यत्प्रशंससि मे सुतम् कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि
MBh 11.14.12
हताश्वे नकुले यत्तद्वृषसेनेन भारत अपिबः शोणितं संख्ये दुःशासनशरीरजम्
MBh 11.14.13
सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् क्रूरं कर्माकरोः कस्मात्तदयुक्तं वृकोदर
MBh 11.14.14
भीमसेन उवाच अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम् यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन
MBh 11.14.15
रुधिरं न व्यतिक्रामद्दन्तोष्ठं मेऽम्ब मा शुचः वैवस्वतस्तु तद्वेद हस्तौ मे रुधिरोक्षितौ
MBh 11.14.16
हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे भ्रातॄणां संप्रहृष्टानां त्रासः संजनितो मया
MBh 11.14.17
केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते क्रोधाद्यदब्रुवं चाहं तच्च मे हृदि वर्तते
MBh 11.14.18
क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम्
MBh 11.14.19
न मामर्हसि गान्धारि दोषेण परिशङ्कितुम् अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु
MBh 11.14.20
गान्धार्युवाच वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः कस्मान्न शेषयः कंचिद्येनाल्पमपराधितम्
MBh 11.14.21
संतानमावयोस्तात वृद्धयोर्हृतराज्ययोः कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता
MBh 11.14.22
शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वयि न मे दुःखं भवेदेतद्यदि त्वं धर्ममाचरः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 22 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 11.14local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷