🪷 Mahābhārata · Śānti-Parva · Chapter 98

The Book of Peace · the great dharma-śāstra · Parva 12 · 31 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 12.98local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 31 Shlokas

MBh 12.98.1
कषत्रधर्मान न पापीयान धर्मॊ ऽसति भरतर्षभ अभियाने च युद्धे च राजा हन्ति महाजनम
MBh 12.98.2
अथ सम कर्मणा येन लॊकाञ जयति पार्थिवः विद्वञ जिज्ञासमानाय परब्रूहि भरतर्षभ
MBh 12.98.3
निग्रहेण च पापानां साधूनां परग्रहेण च यज्ञैर दानैश च राजानॊ भवन्ति शुचयॊ ऽमलाः
MBh 12.98.4
उपरुन्धन्ति राजानॊ भूतानि विजयार्थिनः त एव विजयं पराप्य वर्धयन्ति पुनः परजाः
MBh 12.98.5
अपविध्यन्ति पापानि दानयज्ञतपॊ बलैः अनुग्रहेण भूतानां पुण्यम एषां परवर्धते
MBh 12.98.6
यथैव कषेत्रनिर्दाता निर्दन वै कषेत्रम एकदा हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति
MBh 12.98.7
एवं शस्त्राणि मुञ्चन्तॊ घनन्ति वध्यान अथैक दा तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः
MBh 12.98.8
यॊ भूतानि धनज्यानाद वधात कलेशाच च रक्षति दस्युभ्यः पराणदानात सधनदः सुखदॊ विराट
MBh 12.98.9
स सर्वयज्ञैर ईजानॊ राजाथाभय दक्षिणैः अनुभूयेह भद्राणि पराप्नॊद इन्द्र स लॊकताम
MBh 12.98.10
बराह्मणार्थे समुत्पन्ने यॊ ऽभिनिःसृत्य युध्यते आत्मानं यूपम उच्छ्रित्य स यज्ञॊ ऽनन्त दक्षिणः
MBh 12.98.11
अभीतॊ विकिरञ शत्रून परतिगृह्णञ शरांस तथा न तस्मात तरिदशाः शरेयॊ भुवि पश्यन्ति किं चन
MBh 12.98.12
तस्य यावन्ति शस्त्राणि तवचं भिन्दन्ति संयुगे तावतः सॊ ऽशनुते लॊकान सर्वकामदुहॊ ऽकषयान
MBh 12.98.13
न तस्य रुधिरं गात्राद आवेधेभ्यः परवर्तते स ह तेनैव रक्तेन सर्वपापैः परमुच्यते
MBh 12.98.14
यानि दुःखानि सहते वरणानाम अभितापने न ततॊ ऽसति तपॊ भूय इति धर्मविदॊ विदुः
MBh 12.98.15
पृष्ठतॊ भीरवः संख्ये वर्तन्ते ऽधम पूरुषाः शूराच छरणम इच्छन्तः पर्जन्याद इव जीवनम
MBh 12.98.16
यदि शूरस तथा कषेमे परतिरक्षेत तथा भये परतिरूपं जनाः कुर्युर न च तद वर्तते तथा
MBh 12.98.17
यदि ते कृतम आज्ञाय नमः कुर्युः सदैव तम युक्तं नयाय्यं च कुर्युस ते न च तद वर्तते तथा
MBh 12.98.18
पुरुषाणां समानानां दृश्यते महद अन्तरम संग्रामे ऽनीक वेलायाम उत्क्रुष्टे ऽभिपतत्सु च
MBh 12.98.19
पतत्य अभिमुखः शूरः परान भीरुः पलायते आस्थायास्वर्ग्यम अध्वानं सहायान विषमे तयजन
MBh 12.98.20
मा सम तांस तादृशांस तात जनिष्ठाः पुरुषाधमान ये सहायान रणे हित्वा सवस्ति मन्तॊ गृहान ययुः
MBh 12.98.21
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरॊगमाः तयागेन यः सहायानां सवान पराणांस तरातुम इच्छति
MBh 12.98.22
तं हन्युः काष्ठलॊष्टैर वा दयेयुर वा कटाग्निना पशुवन मारयेयुर वा कषत्रिया ये सयुर ईदृशाः
MBh 12.98.23
अधर्मः कषत्रियस्यैष यच छय्या मरणं भवेत विसृजञ शरेष्म पित्तानि कृपणं परिदेवयन
MBh 12.98.24
अविक्षतेन देहेन परलयं यॊ ऽधिगच्छति कषत्रियॊ नास्य तत कर्म परशंसन्ति पुरा विदः
MBh 12.98.25
न गृहे मरणं तात कषत्रियाणां परशस्यते शौटीराणाम अशौटीरम अधर्म्यं कृपणं च तत
MBh 12.98.26
इदं दुःखम अहॊ कष्टं पापीय इति निष्टनन परतिध्वस्त मुखः पूतिर अमात्यान बहु शॊचयन
MBh 12.98.27
अरॊगाणां सपृहयते मुहुर मृत्युम अपीच्छति वीरॊ दृप्तॊ ऽभिमानी च नेदृशं मृत्युम अर्हति
MBh 12.98.28
रणेषु कदनं कृत्वा जञातिभिः परिवारितः तीक्ष्णैः शस्त्रैः सुविक्लिष्टः कषत्रियॊ मृत्युम अर्हति
MBh 12.98.29
शूरॊ हि सत्यमन्युभ्याम आविष्टॊ युध्यते भृशम कृत्यमानानि गात्राणि परैर नैवावबुध्यते
MBh 12.98.30
स संख्ये निधनं पराप्य परशस्तं लॊकपूजितम सवधर्मं विपुलं पराप्य शक्रस्यैति स लॊकताम
MBh 12.98.31
सर्वॊ यॊधः परं तयक्तुम आविष्टस तयक्तजीवितः पराप्नॊतीन्द्रस्य सालॊक्यं शूरः पृष्ठम अदर्शयन

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷