🪷 Mahābhārata · Śānti-Parva · Chapter 97

The Book of Peace · the great dharma-śāstra · Parva 12 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 12.97.1
भीष्म उवाच नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः अधर्मविजयं लब्ध्वा कोऽनुमन्येत भूमिपः
MBh 12.97.2
अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च सादयत्येष राजानं महीं च भरतर्षभ
MBh 12.97.3
विशीर्णकवचं चैव तवास्मीति च वादिनम् कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत्
MBh 12.97.4
बलेनावजितो यश्च न तं युध्येत भूमिपः संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत्
MBh 12.97.5
नार्वाक्संवत्सरात्कन्या स्प्रष्टव्या विक्रमाहृता एवमेव धनं सर्वं यच्चान्यत्सहसाहृतम्
MBh 12.97.6
न तु वन्ध्यं धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः युञ्जीरन्वाप्यनडुहः क्षन्तव्यं वा तदा भवेत्
MBh 12.97.7
राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते नान्यो राजानमभ्यसेदराजन्यः कथंचन
MBh 12.97.8
अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत् मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत्
MBh 12.97.9
अथ चेल्लङ्घयेदेनां मर्यादां क्षत्रियब्रुवः अप्रशस्यस्तदूर्ध्वं स्यादनादेयश्च संसदि
MBh 12.97.10
या तु धर्मविलोपेन मर्यादाभेदनेन च तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः धर्मलब्धाद्धि विजयात्को लाभोऽभ्यधिको भवेत्
MBh 12.97.11
सहसा नाम्य भूतानि क्षिप्रमेव प्रसादयेत् सान्त्वेन भोगदानेन स राज्ञां परमो नयः
MBh 12.97.12
भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताः अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः
MBh 12.97.13
अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि संदुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः
MBh 12.97.14
नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथंचन जीवितं ह्यप्यतिच्छिन्नः संत्यजत्येकदा नरः
MBh 12.97.15
अल्पेनापि हि संयुक्तस्तुष्यत्येवापराधिकः शुद्धं जीवितमेवापि तादृशो बहु मन्यते
MBh 12.97.16
यस्य स्फीतो जनपदः संपन्नः प्रियराजकः संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः
MBh 12.97.17
ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताः पूजार्हाः पूजिता यस्य स वै लोकजिदुच्यते
MBh 12.97.18
एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः अन्वेव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः
MBh 12.97.19
भूमिवर्जं पुरं राजा जित्वा राजानमाहवे अमृताश्चौषधीः शश्वदाजहार प्रतर्दनः
MBh 12.97.20
अग्निहोत्राण्यग्निशेषं हविर्भाजनमेव च आजहार दिवोदासस्ततो विप्रकृतोऽभवत्
MBh 12.97.21
सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ अन्यत्र श्रोत्रियस्वाच्च तापसस्वाच्च भारत
MBh 12.97.22
उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते
MBh 12.97.23
सर्वविद्यातिरेकाद्वा जयमिच्छेन्महीपतिः न मायया न दम्भेन य इच्छेद्भूतिमात्मनः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.97local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷