🪷 Mahābhārata · Śānti-Parva · Chapter 91

The Book of Peace · the great dharma-śāstra · Parva 12 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 38 Shlokas

MBh 12.91.1
भीष्म उवाच यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत
MBh 12.91.2
स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर
MBh 12.91.3
उतथ्य उवाच धर्माय राजा भवति न कामकरणाय तु मान्धातरेवं जानीहि राजा लोकस्य रक्षिता
MBh 12.91.4
राजा चरति वै धर्मं देवत्वायैव गच्छति न चेद्धर्मं स चरति नरकायैव गच्छति
MBh 12.91.5
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति तं राजा साधु यः शास्ति स राजा पृथिवीपतिः
MBh 12.91.6
राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते
MBh 12.91.7
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते तदेव मङ्गलं सर्वं लोकः समनुवर्तते
MBh 12.91.8
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् भयमाहुर्दिवारात्रं यदा पापो न वार्यते
MBh 12.91.9
न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते
MBh 12.91.10
वध्यानामिव सर्वेषां मनो भवति विह्वलम् मनुष्याणां महाराज यदा पापो न वार्यते
MBh 12.91.11
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् असृजन्सुमहद्भूतमयं धर्मो भविष्यति
MBh 12.91.12
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः
MBh 12.91.13
वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत्
MBh 12.91.14
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत्
MBh 12.91.15
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः
MBh 12.91.16
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात्
MBh 12.91.17
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः
MBh 12.91.18
कामक्रोधावनादृत्य धर्ममेवानुपालयेत् धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम
MBh 12.91.19
धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी
MBh 12.91.20
तेषां ह्यकामकरणाद्राज्ञः संजायते भयम् मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि
MBh 12.91.21
ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी
MBh 12.91.22
ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे
MBh 12.91.23
एतत्फलमसूयाया अभिमानस्य चाभिभो तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी
MBh 12.91.24
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः तेन देवासुरा राजन्नीताः सुबहुशो वशम्
MBh 12.91.25
राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव राजा भवति तं जित्वा दासस्तेन पराजितः
MBh 12.91.26
स यथा दर्पसहितमधर्मं नानुसेवसे तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि
MBh 12.91.27
मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः तदभ्यासादुपावर्तादहितानां च सेवनात्
MBh 12.91.28
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात्
MBh 12.91.29
एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत् अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत्
MBh 12.91.30
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः
MBh 12.91.31
कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात् अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः
MBh 12.91.32
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते
MBh 12.91.33
क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान् अधर्माः संप्रवर्तन्ते प्रजासंकरकारकाः
MBh 12.91.34
अशीते विद्यते शीतं शीते शीतं न विद्यते अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः
MBh 12.91.35
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः
MBh 12.91.36
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति
MBh 12.91.37
द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे कुमार्यः संप्रलुप्यन्ते तदाहुर्नृपदूषणम्
MBh 12.91.38
ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 38 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.91local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷