🪷 Mahābhārata · Śānti-Parva · Chapter 92
The Book of Peace · the great dharma-śāstra · Parva 12 · 56 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 56 Shlokas
MBh 12.92.1
उतथ्य उवाच
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः
संपद्यदैषा भवति सा बिभर्ति सुखं प्रजाः
MBh 12.92.2
यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम्
रक्तानि वा शोधयितुं यथा नास्ति तथैव सः
MBh 12.92.3
एवमेव द्विजेन्द्राणां क्षत्रियाणां विशामपि
शूद्राश्चतुर्णां वर्णानां नानाकर्मस्ववस्थिताः
MBh 12.92.4
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु
MBh 12.92.5
तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम्
शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः
MBh 12.92.6
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ
राजवृत्तानि सर्वाणि राजैव युगमुच्यते
MBh 12.92.7
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च
सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति
MBh 12.92.8
राजैव कर्ता भूतानां राजैव च विनाशकः
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः
MBh 12.92.9
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति
MBh 12.92.10
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव
MBh 12.92.11
दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते
अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम्
MBh 12.92.12
यच्च भूतं स भजते भूता ये च तदन्वयाः
अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव
MBh 12.92.13
दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः
MBh 12.92.14
दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान्
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम्
MBh 12.92.15
न हि दुर्बलदग्धस्य कुले किंचित्प्ररोहति
आमूलं निर्दहत्येव मा स्म दुर्बलमासदः
MBh 12.92.16
अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम्
बलस्याबलदग्धस्य न किंचिदवशिष्यते
MBh 12.92.17
विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम्
MBh 12.92.18
मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम्
मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम्
MBh 12.92.19
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम्
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम्
MBh 12.92.20
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु
न हि पापं कृतं कर्म सद्यः फलति गौरिव
MBh 12.92.21
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति
महान्दैवकृतस्तत्र दण्डः पतति दारुणः
MBh 12.92.22
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव
अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः
MBh 12.92.23
राज्ञो यदा जनपदे बहवो राजपूरुषाः
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत्
MBh 12.92.24
यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा
कृपणं याचमानानां तद्राज्ञो वैशसं महत्
MBh 12.92.25
महावृक्षो जायते वर्धते च; तं चैव भूतानि समाश्रयन्ति
यदा वृक्षश्छिद्यते दह्यते वा; तदाश्रया अनिकेता भवन्ति
MBh 12.92.26
यदा राष्ट्रे धर्ममग्र्यं चरन्ति; संस्कारं वा राजगुणं ब्रुवाणाः
तैरेवाधर्मश्चरितो धर्ममोहा;त्तूर्णं जह्यात्सुकृतं दुष्कृतं च
MBh 12.92.27
यत्र पापा ज्ञायमानाश्चरन्ति; सतां कलिर्विन्दति तत्र राज्ञः
यदा राजा शास्ति नरान्नशिष्या;न्न तद्राज्यं वर्धते भूमिपाल
MBh 12.92.28
यश्चामात्यं मानयित्वा यथार्हं; मन्त्रे च युद्धे च नृपो नियुञ्ज्यात्
प्रवर्धते तस्य राष्ट्रं नृपस्य; भुङ्क्ते महीं चाप्यखिलां चिराय
MBh 12.92.29
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम्
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम्
MBh 12.92.30
संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते
MBh 12.92.31
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते
MBh 12.92.32
यदा शारणिकान्राजा पुत्रवत्परिरक्षति
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते
MBh 12.92.33
यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते
MBh 12.92.34
कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै
हर्षं संजनयन्नॄणां स राज्ञो धर्म उच्यते
MBh 12.92.35
विवर्धयति मित्राणि तथारींश्चापकर्षति
संपूजयति साधूंश्च स राज्ञो धर्म उच्यते
MBh 12.92.36
सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति
पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते
MBh 12.92.37
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ
अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम्
MBh 12.92.38
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः
संयच्छन्भवति प्राणान्नसंयच्छंस्तु पापकः
MBh 12.92.39
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते
MBh 12.92.40
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः
तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः
MBh 12.92.41
सहस्राक्षेण राजा हि सर्व एवोपमीयते
स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ
MBh 12.92.42
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम्
भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा
MBh 12.92.43
संग्रहः सर्वभूतानां दानं च मधुरा च वाक्
पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः
MBh 12.92.44
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम्
भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम्
MBh 12.92.45
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम्
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा
MBh 12.92.46
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः
सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणामपि
MBh 12.92.47
ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम्
स्वदेशे परदेशे वा न ते धर्मो विनश्यति
MBh 12.92.48
धर्मश्चार्थश्च कामश्च धर्म एवोत्तरो भवेत्
अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते
MBh 12.92.49
त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः
संग्रहश्चैव भूतानां दानं च मधुरा च वाक्
MBh 12.92.50
अप्रमादश्च शौचं च तात भूतिकरं महत्
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः
MBh 12.92.51
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्
MBh 12.92.52
एतद्वृत्तं वासवस्य यमस्य वरुणस्य च
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय
MBh 12.92.53
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम्
आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ
MBh 12.92.54
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत
देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः
MBh 12.92.55
भीष्म उवाच
स एवमुक्तो मान्धाता तेनोतथ्येन भारत
कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम्
MBh 12.92.56
भवानपि तथा सम्यङ्मान्धातेव महीपतिः
धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 91
- Next chapter · Śānti-Parva Ch 93 →
Sources and Connected Readings
Continue from these 56 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.92local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷