🪷 Mahābhārata · Śānti-Parva · Chapter 90

The Book of Peace · the great dharma-śāstra · Parva 12 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 25 Shlokas

MBh 12.90.1
भीष्म उवाच वनस्पतीन्भक्ष्यफलान्न छिन्द्युर्विषये तव ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः
MBh 12.90.2
ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः न ब्राह्मणोपरोधेन हरेदन्यः कथंचन
MBh 12.90.3
विप्रश्चेत्त्यागमातिष्ठेदाख्यायावृत्तिकर्शितः परिकल्प्यास्य वृत्तिः स्यात्सदारस्य नराधिप
MBh 12.90.4
स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति
MBh 12.90.5
असंशयं निवर्तेत न चेद्वक्ष्यत्यतः परम् पूर्वं परोक्षं कर्तव्यमेतत्कौन्तेय शासनम्
MBh 12.90.6
आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम् निमन्त्र्यश्च भवेद्भोगैरवृत्त्या चेत्तदाचरेत्
MBh 12.90.7
कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम् ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत
MBh 12.90.8
तस्यां प्रयतमानायां ये स्युस्तत्परिपन्थिनः दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत्
MBh 12.90.9
शत्रूञ्जहि प्रजा रक्ष यजस्व क्रतुभिर्नृप युध्यस्व समरे वीरो भूत्वा कौरवनन्दन
MBh 12.90.10
संरक्ष्यान्पालयेद्राजा यः स राजार्यकृत्तमः ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन
MBh 12.90.11
सदैव राज्ञा बोद्धव्यं सर्वलोकाद्युधिष्ठिर तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः
MBh 12.90.12
अन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरन्तरान् परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्पालय नित्यदा
MBh 12.90.13
आत्मानं सर्वतो रक्षन्राजा रक्षेत मेदिनीम् आत्ममूलमिदं सर्वमाहुर्हि विदुषो जनाः
MBh 12.90.14
किं छिद्रं कोऽनुषङ्गो मे किं वास्त्यविनिपातितम् कुतो मामास्रवेद्दोष इति नित्यं विचिन्तयेत्
MBh 12.90.15
गुप्तैश्चारैरनुमतैः पृथिवीमनुचारयेत् सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः
MBh 12.90.16
धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम् राष्ट्रं च येऽनुजीवन्ति ये च राज्ञोऽनुजीविनः
MBh 12.90.17
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः ये च त्वाभिप्रशंसेयुर्निन्देयुरथ वा पुनः सर्वान्सुपरिणीतांस्तान्कारयेत युधिष्ठिर
MBh 12.90.18
एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् मित्रामित्रमथो मध्यं सर्वभूतेषु भारत
MBh 12.90.19
तुल्यबाहुबलानां च गुणैरपि निषेविनाम् कथं स्यादधिकः कश्चित्स तु भुञ्जीत मानवान्
MBh 12.90.20
ये चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा आशीविषा इव क्रुद्धा भुजगा भुजगानिव
MBh 12.90.21
एतेभ्यश्चाप्रमत्तः स्यात्सदा यत्तो युधिष्ठिर भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः
MBh 12.90.22
कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः
MBh 12.90.23
कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः ये वहन्ति धुरं राज्ञां संभरन्तीतरानपि
MBh 12.90.24
इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा मनुष्योरगरक्षांसि वयांसि पशवस्तथा
MBh 12.90.25
एषा ते राष्ट्रवृत्तिश्च राष्ट्रगुप्तिश्च भारत एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 25 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.90local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷