🪷 Mahābhārata · Śānti-Parva · Chapter 9
The Book of Peace · the great dharma-śāstra · Parva 12 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 37 Shlokas
MBh 12.9.1
युधिष्ठिर उवाच
मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि
धारयित्वापि ते श्रुत्वा रोचतां वचनं मम
MBh 12.9.2
सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः
गच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत
MBh 12.9.3
क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम्
अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु
MBh 12.9.4
हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह
MBh 12.9.5
जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन्
कृशः परिमिताहारश्चर्मचीरजटाधरः
MBh 12.9.6
शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः
तपसा विधिदृष्टेन शरीरमुपशोषयन्
MBh 12.9.7
मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः
मुदितानामरण्येषु वसतां मृगपक्षिणाम्
MBh 12.9.8
आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम्
नानारूपान्वने पश्यन्रमणीयान्वनौकसः
MBh 12.9.9
वानप्रस्थजनस्यापि दर्शनं कुलवासिनः
नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम्
MBh 12.9.10
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्
MBh 12.9.11
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम्
MBh 12.9.12
अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ
चरन्भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम्
MBh 12.9.13
पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः
MBh 12.9.14
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः
निराशीर्निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः
MBh 12.9.15
आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः
अकुर्वाणः परैः कांचित्संविदं जातु केनचित्
MBh 12.9.16
जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान्
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति
MBh 12.9.17
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित्
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः
MBh 12.9.18
अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित्
न देशं न दिशं कांचिद्गन्तुमिच्छन्विशेषतः
MBh 12.9.19
गमने निरपेक्षश्च पश्चादनवलोकयन्
ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः
MBh 12.9.20
स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि
द्वंद्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन्
MBh 12.9.21
अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित्
अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन्
MBh 12.9.22
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने
अतीतपात्रसंचारे काले विगतभिक्षुके
MBh 12.9.23
एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च च
स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम्
MBh 12.9.24
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्
जीवितं मरणं चैव नाभिनन्दन्न च द्विषन्
MBh 12.9.25
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः
MBh 12.9.26
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः
MBh 12.9.27
तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः
सुपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मषः
MBh 12.9.28
विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः
MBh 12.9.29
वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम्
तृष्णया हि महत्पापमज्ञानादस्मि कारितः
MBh 12.9.30
कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः
कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति
MBh 12.9.31
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत्
MBh 12.9.32
एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत्
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान्
MBh 12.9.33
जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम्
असारमिममस्वन्तं संसारं त्यजतः सुखम्
MBh 12.9.34
दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित्
MBh 12.9.35
कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम्
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते
MBh 12.9.36
तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम्
तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम्
MBh 12.9.37
एतया सततं वृत्त्या चरन्नेवंप्रकारया
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 8
- Next chapter · Śānti-Parva Ch 10 →
Sources and Connected Readings
Continue from these 37 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.9local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷