🪷 Mahābhārata · Śānti-Parva · Chapter 10

The Book of Peace · the great dharma-śāstra · Parva 12 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 12.10.1
भीम उवाच श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः अनुवाकहताबुद्धिर्नैषा तत्त्वार्थदर्शिनी
MBh 12.10.2
आलस्ये कृतचित्तस्य राजधर्मानसूयतः विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ
MBh 12.10.3
क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे
MBh 12.10.4
यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम् शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कंचन
MBh 12.10.5
भैक्ष्यमेवाचरिष्याम शरीरस्या विमोक्षणात् न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम्
MBh 12.10.6
प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्
MBh 12.10.7
आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः
MBh 12.10.8
ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम्
MBh 12.10.9
यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम् पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम्
MBh 12.10.10
यथारुह्य महावृक्षमपहृत्य ततो मधु अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम्
MBh 12.10.11
यथा महान्तमध्वानमाशया पुरुषः पतन् स निराशो निवर्तेत कर्मेदं नस्तथोपमम्
MBh 12.10.12
यथा शत्रून्घातयित्वा पुरुषः कुरुसत्तम आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथाविधम्
MBh 12.10.13
यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथाविधम्
MBh 12.10.14
वयमेवात्र गर्ह्या हि ये वयं मन्दचेतसः त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत
MBh 12.10.15
वयं हि बाहुबलिनः कृतविद्या मनस्विनः क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा
MBh 12.10.16
अगतीन्कागतीनस्मान्नष्टार्थानर्थसिद्धये कथं वै नानुपश्येयुर्जनाः पश्यन्ति यादृशम्
MBh 12.10.17
आपत्काले हि संन्यासः कर्तव्य इति शिष्यते जरयाभिपरीतेन शत्रुभिर्व्यंसितेन च
MBh 12.10.18
तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः
MBh 12.10.19
कथं तस्मात्समुत्पन्नस्तन्निष्ठस्तदुपाश्रयः तदेव निन्दन्नासीत श्रद्धा वान्यत्र गृह्यते
MBh 12.10.20
श्रिया विहीनैरधनैर्नास्तिकैः संप्रवर्तितम् वेदवादस्य विज्ञानं सत्याभासमिवानृतम्
MBh 12.10.21
शक्यं तु मौण्ड्यमास्थाय बिभ्रतात्मानमात्मना धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम्
MBh 12.10.22
शक्यं पुनररण्येषु सुखमेकेन जीवितुम् अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन्
MBh 12.10.23
नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः अथैतेन प्रकारेण पुण्यमाहुर्न ताञ्जनाः
MBh 12.10.24
यदि संन्यासतः सिद्धिं राजन्कश्चिदवाप्नुयात् पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः
MBh 12.10.25
एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः अपरिग्रहवन्तश्च सततं चात्मचारिणः
MBh 12.10.26
अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः
MBh 12.10.27
औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः येषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते
MBh 12.10.28
अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत् तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.10local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷