🪷 Mahābhārata · Śānti-Parva · Chapter 8
The Book of Peace · the great dharma-śāstra · Parva 12 · 37 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 12.8local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 37 Shlokas
MBh 12.8.1
[वैषम्पायन]
अथार्जुन उवाचेदम अधिक्षिप्त इवाक्षमी
अभिनीततरं वाक्यं दृढवादपराक्रमः
MBh 12.8.2
दर्शयन्न ऐन्द्रिर आत्मानम उग्रम उग्रपराक्रमः
समयमानॊ महातेजाः सृक्किणी संलिहन मुहुः
MBh 12.8.3
अहॊ दुःखम अहॊ कृच्छ्रम अहॊ वैक्लव्यम उत्तमम
यत्कृत्वामानुषं कर्म तयजेथाः शरियम उत्तमाम
MBh 12.8.4
शत्रून हत्वा महीं लब्ध्वा सवधर्मेणॊपपादिताम
हतामित्रः कथं सर्वं तयजेथा बुद्धिलाघवात
MBh 12.8.5
कलीबस्य हि कुतॊ राज्यं दीर्घसूत्रस्य वा पुनः
किमर्थं च महीपालान अवधीः करॊधमूर्छितः
MBh 12.8.6
यॊ हय आजिजीविषेद भैक्ष्यं कर्मणा नैव केन चित
समारम्भान बुभूषेत हतस्वस्तिर अकिंचनः
सर्वलॊकेषु विख्यातॊ न पुत्रपशुसंहितः
MBh 12.8.7
कापालीं नृप पापिष्ठां वृत्तिम आस्थाय जीवतः
संत्यज्य राज्यम ऋद्धं ते लॊकॊ ऽयं किं वदिष्यति
MBh 12.8.8
सर्वारम्भान समुत्सृज्य हतस्वस्तिर अकिंचनः
कस्माद आशंससे भैक्ष्यं चर्तुं पराकृतवत परभॊ
MBh 12.8.9
अस्मिन राजकुले जातॊ जित्वा कृत्स्नां वसुंधराम
धर्मार्थाव अखिलौ हित्वा वनं मौढ्यात परतिष्ठसे
MBh 12.8.10
यदीमानि हवींषीह विमथिष्यन्त्य असाधवः
भवता विप्रहीणानि पराप्तं तवाम एव किल्बिषम
MBh 12.8.11
आकिंचन्यम अनाशास्यम इति वै नहुषॊ ऽबरवीत
कृत्या नृशंसा हय अधने धिग अस्त्व अधनताम इह
MBh 12.8.12
अश्वस्तनम ऋषीणां हि विद्यते वेद तद भवान
यं तव इमं धर्मम इत्य आहुर धनाद एष परवर्तते
MBh 12.8.13
धर्मं संहरते तस्य धनं हरति यस्य यः
हरियमाणे धने राजन वयं कस्य कषमेमहि
MBh 12.8.14
अभिशस्तवत परपश्यन्ति दरिद्रं पार्श्वतः सथितम
दारिद्र्यं पातकं लॊके कस तच छंसितुम अर्हति
MBh 12.8.15
पतितः शॊच्यते राजन निर्धनश चापि शॊच्यते
विशेषं नाधिगच्छामि पतितस्याधनस्य च
MBh 12.8.16
अर्थेभ्यॊ हि विवृद्धेभ्यः संभृतेभ्यस ततस ततः
करियाः सर्वाः परवर्तन्ते पर्वतेभ्य इवाप गाः
MBh 12.8.17
अर्धाद धर्मश च कामश च सवर्गश चैव नराधिप
पराणयात्रा हि लॊकस्य विनार्थं न परसिध्यति
MBh 12.8.18
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः
वयुच्छिद्यन्ते करियाः सर्वा गरीष्मे कु सरितॊ यथा
MBh 12.8.19
यस्यार्थास तस्य मित्राणि यस्यार्थास तस्य बान्धवाः
यस्यार्थाः स पुमाँल लॊके यस्यार्थाः स च पण्डितः
MBh 12.8.20
अधनेनार्थकामेन नार्थः शक्यॊ विवित्सता
अर्थैर अर्था निबध्यन्ते गजैर इव महागजाः
MBh 12.8.21
धर्मः कामश च सवर्गश च हर्षः करॊधः शरुतं दमः
अर्थाद एतानि सर्वाणि परवर्तन्ते नराधिप
MBh 12.8.22
धनात कुलं परभवति धनाद धर्मः परवर्तते
नाधनस्यास्त्य अयं लॊकॊ न परः पुरुषॊत्तम
MBh 12.8.23
नाधनॊ धर्मकृत्यानि यथावद अनुतिष्ठति
धनाद धि धर्मः सरवति शैलाद गिरिनदी यथा
MBh 12.8.24
यः कृशाश्वः कृश गवः कृश भृत्यः कृशातिथिः
स वै राजन कृशॊ नाम न शरीरकृशः कृशः
MBh 12.8.25
अवेक्षस्व यथान्यायं पश्य देवासुरं यथा
राजन किम अन्यज जञातीनां वधाद ऋध्यन्ति देवताः
MBh 12.8.26
न चेद धर्तव्यम अन्यस्य कथं तद धर्मम आरभेत
एतावान एव वेदेषु निश्चयः कविभिः कृतः
MBh 12.8.27
अध्येतव्या तरयी विद्या भवितव्यं विपश्चिता
सर्वथा धनम आहार्यं यष्टव्यं चापि यत्नतः
MBh 12.8.28
करॊहाद देवैर अवाप्तानि दिवि सथानानि सर्वशः
इति देवा वयवसिता वेदवादाश च शाश्वताः
MBh 12.8.29
अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च
कृत्स्नं तद एव च शरेयॊ यद अप्य आददते ऽनयतः
MBh 12.8.30
न पश्यामॊ ऽनपहृतं धनं किं चित कव चिद वयम
एवम एव हि राजानॊ जयन्ति पृथिवीम इमाम
MBh 12.8.31
जित्वा ममत्वं बरुवते पुत्रा इव पितुर धने
राजर्षयॊ जितस्वर्गा धर्मॊ हय एषां निगद्यते
MBh 12.8.32
यथैव पूर्णाद उदधेः सयन्दन्त्य आपॊ दिशॊ दश
एवं राजकुलाद वित्तं पृथिवीं परतितिष्ठति
MBh 12.8.33
आसीद इयं दिलीपस्य नृगस्य नहुषस्य च
अम्बरीषस्य मान्धातुः पृथिवी सा तवयि सथिता
MBh 12.8.34
स तवां दरव्यमयॊ यज्ञः संप्राप्तः सर्वदक्षिणः
तं चेन न यजसे राजन पराप्तस तवं देवकिल्बिषम
MBh 12.8.35
येषां राजाश्वमेधेन यजते दक्षिणावता
उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते
MBh 12.8.36
विश्वरूपॊ महादेवः सर्वमेधे महामखे
जुहाव सर्वभूतानि तथैवात्मानम आत्मना
MBh 12.8.37
शाश्वतॊ ऽयं भूतिपथॊ नास्यान्तम अनुशुश्रुम
महान दाशरथः पन्था मा राजन कापथं गमः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 7
- Next chapter · Śānti-Parva Ch 9 →
🪷 जय व्यास भगवान् 🪷