🪷 Mahābhārata · Śānti-Parva · Chapter 7

The Book of Peace · the great dharma-śāstra · Parva 12 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 12.7.1
वैशंपायन उवाच युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम्
MBh 12.7.2
आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः
MBh 12.7.3
यद्भैक्षमाचरिष्याम वृष्ण्यन्धकपुरे वयम् ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम्
MBh 12.7.4
अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः
MBh 12.7.5
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् धिगस्त्वमर्षं येनेमामापदं गमिता वयम्
MBh 12.7.6
साधु क्षमा दमः शौचमवैरोध्यममत्सरः अहिंसा सत्यवचनं नित्यानि वनचारिणाम्
MBh 12.7.7
वयं तु लोभान्मोहाच्च स्तम्भं मानं च संश्रिताः इमामवस्थामापन्ना राज्यलेशबुभुक्षया
MBh 12.7.8
त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत् बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः
MBh 12.7.9
ते वयं पृथिवीहेतोरवध्यान्पृथिवीसमान् संपरित्यज्य जीवामो हीनार्था हतबान्धवाः
MBh 12.7.10
आमिषे गृध्यमानानामशुनां नः शुनामिव आमिषं चैव नो नष्टमामिषस्य च भोजिनः
MBh 12.7.11
न पृथिव्या सकलया न सुवर्णस्य राशिभिः न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः
MBh 12.7.12
संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः मृत्युयानं समारुह्य गता वैवस्वतक्षयम्
MBh 12.7.13
बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान् तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया
MBh 12.7.14
उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति
MBh 12.7.15
यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि संभाविता जातबलास्ते दद्युर्यदि नः सुखम् इह चामुत्र चैवेति कृपणाः फलहेतुकाः
MBh 12.7.16
तासामयं समारम्भो निवृत्तः केवलोऽफलः यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः
MBh 12.7.17
अभुक्त्वा पार्थिवान्भोगानृणान्यनवदाय च पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम्
MBh 12.7.18
यदैषामङ्ग पितरौ जातौ काममयाविव संजातबलरूपेषु तदैव निहता नृपाः
MBh 12.7.19
संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः न ते जन्मफलं किंचिद्भोक्तारो जातु कर्हिचित्
MBh 12.7.20
पाञ्चालानां कुरूणां च हता एव हि येऽहताः ते वयं त्वधमाँल्लोकान्प्रपद्येम स्वकर्मभिः
MBh 12.7.21
वयमेवास्य लोकस्य विनाशे कारणं स्मृताः धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि
MBh 12.7.22
सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः मिथ्यावृत्तः स सततमस्मास्वनपकारिषु
MBh 12.7.23
अंशकामा वयं ते च न चास्माभिर्न तैर्जितम् न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम्
MBh 12.7.24
नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम् न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः
MBh 12.7.25
ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः
MBh 12.7.26
तं पिता पुत्रगृद्धित्वादनुमेनेऽनये स्थितम् अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा असंशयं धृतराष्ट्रो यथैवाहं तथा गतः
MBh 12.7.27
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम् पतितो यशसो दीप्ताद्घातयित्वा सहोदरान्
MBh 12.7.28
इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि
MBh 12.7.29
को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने यथासावुक्तवान्क्षुद्रो युयुत्सुर्वृष्णिसंनिधौ
MBh 12.7.30
आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः प्रदहन्तो दिशः सर्वास्तेजसा भास्करा इव
MBh 12.7.31
सोऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम्
MBh 12.7.32
कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम् राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति
MBh 12.7.33
हताः शूराः कृतं पापं विषयः स्वो विनाशितः हत्वा नो विगतो मन्युः शोको मां रुन्धयत्ययम्
MBh 12.7.34
धनंजय कृतं पापं कल्याणेनोपहन्यते त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः
MBh 12.7.35
त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा प्राप्तवर्त्मा कृतमतिर्ब्रह्म संपद्यते तदा
MBh 12.7.36
स धनंजय निर्द्वंद्वो मुनिर्ज्ञानसमन्वितः वनमामन्त्र्य वः सर्वान्गमिष्यामि परंतप
MBh 12.7.37
न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः परिग्रहवता तन्मे प्रत्यक्षमरिसूदन
MBh 12.7.38
मया निसृष्टं पापं हि परिग्रहमभीप्सता जन्मक्षयनिमित्तं च शक्यं प्राप्तुमिति श्रुतिः
MBh 12.7.39
स परिग्रहमुत्सृज्य कृत्स्नं राज्यं तथैव च गमिष्यामि विनिर्मुक्तो विशोको विज्वरस्तथा
MBh 12.7.40
प्रशाधि त्वमिमामुर्वीं क्षेमां निहतकण्टकाम् न ममार्थोऽस्ति राज्येन न भोगैर्वा कुरूत्तम
MBh 12.7.41
एतावदुक्त्वा वचनं धर्मराजो युधिष्ठिरः व्युपारमत्ततः पार्थः कनीयान्प्रत्यभाषत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.7local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷