🪷 Mahābhārata · Śānti-Parva · Chapter 88
The Book of Peace · the great dharma-śāstra · Parva 12 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 38 Shlokas
MBh 12.88.1
युधिष्ठिर उवाच
राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव च संग्रहम्
सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ
MBh 12.88.2
भीष्म उवाच
राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव च संग्रहम्
हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु
MBh 12.88.3
ग्रामस्याधिपतिः कार्यो दशग्राम्यस्तथापरः
द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत्
MBh 12.88.4
ग्रामे यान्ग्रामदोषांश्च ग्रामिकः परिपालयेत्
तान्ब्रूयाद्दशपायासौ स तु विंशतिपाय वै
MBh 12.88.5
सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने
ग्रामाणां शतपालाय सर्वमेव निवेदयेत्
MBh 12.88.6
यानि ग्रामीणभोज्यानि ग्रामिकस्तान्युपाश्नुयात्
दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः
MBh 12.88.7
ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः
महान्तं भरतश्रेष्ठ सुस्फीतजनसंकुलम्
तत्र ह्यनेकमायत्तं राज्ञो भवति भारत
MBh 12.88.8
शाखानगरमर्हस्तु सहस्रपतिरुत्तमम्
धान्यहैरण्यभोगेन भोक्तुं राष्ट्रिय उद्यतः
MBh 12.88.9
तथा यद्ग्रामकृत्यं स्याद्ग्रामिकृत्यं च ते स्वयम्
धर्मज्ञः सचिवः कश्चित्तत्प्रपश्येदतन्द्रितः
MBh 12.88.10
नगरे नगरे च स्यादेकः सर्वार्थचिन्तकः
उच्चैःस्थाने घोररूपो नक्षत्राणामिव ग्रहः
भवेत्स तान्परिक्रामेत्सर्वानेव सदा स्वयम्
MBh 12.88.11
विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम्
योगक्षेमं च संप्रेक्ष्य वणिजः कारयेत्करान्
MBh 12.88.12
उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत्
शिल्पप्रतिकरानेव शिल्पिनः प्रति कारयेत्
MBh 12.88.13
उच्चावचकरा न्याय्याः पूर्वराज्ञां युधिष्ठिर
यथा यथा न हीयेरंस्तथा कुर्यान्महीपतिः
MBh 12.88.14
फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत्
फलं कर्म च निर्हेतु न कश्चित्संप्रवर्तयेत्
MBh 12.88.15
यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ
समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः
MBh 12.88.16
नोच्छिन्द्यादात्मनो मूलं परेषां वापि तृष्णया
ईहाद्वाराणि संरुध्य राजा संप्रीतिदर्शनः
MBh 12.88.17
प्रद्विषन्ति परिख्यातं राजानमतिखादिनम्
प्रद्विष्टस्य कुतः श्रेयः संप्रियो लभते प्रियम्
MBh 12.88.18
वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना
भृतो वत्सो जातबलः पीडां सहति भारत
MBh 12.88.19
न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर
राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत्
MBh 12.88.20
यो राष्ट्रमनुगृह्णाति परिगृह्य स्वयं नृपः
संजातमुपजीवन्स लभते सुमहत्फलम्
MBh 12.88.21
आपदर्थं हि निचयान्राजान इह चिन्वते
राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा
MBh 12.88.22
पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा
यथाशक्त्यनुकम्पेत सर्वानभ्यन्तरानपि
MBh 12.88.23
बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम्
एवं न संप्रकुप्यन्ते जनाः सुखितदुःखिताः
MBh 12.88.24
प्रागेव तु करादानमनुभाष्य पुनः पुनः
संनिपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत्
MBh 12.88.25
इयमापत्समुत्पन्ना परचक्रभयं महत्
अपि नान्ताय कल्पेत वेणोरिव फलागमः
MBh 12.88.26
अरयो मे समुत्थाय बहुभिर्दस्युभिः सह
इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम्
MBh 12.88.27
अस्यामापदि घोरायां संप्राप्ते दारुणे भये
परित्राणाय भवतां प्रार्थयिष्ये धनानि वः
MBh 12.88.28
प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये
नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः
MBh 12.88.29
कलत्रमादितः कृत्वा नश्येत्स्वं स्वयमेव हि
अपि चेत्पुत्रदारार्थमर्थसंचय इष्यते
MBh 12.88.30
नन्दामि वः प्रभावेन पुत्राणामिव चोदये
यथाशक्त्यनुगृह्णामि राष्ट्रस्यापीडया च वः
MBh 12.88.31
आपत्स्वेव च वोढव्यं भवद्भिः सद्गवैरिव
न वः प्रियतरं कार्यं धनं कस्यांचिदापदि
MBh 12.88.32
इति वाचा मधुरया श्लक्ष्णया सोपचारया
स्वरश्मीनभ्यवसृजेद्युगमादाय कालवित्
MBh 12.88.33
प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम्
योगक्षेमं च संप्रेक्ष्य गोमिनः कारयेत्करान्
MBh 12.88.34
उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः
तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत्
MBh 12.88.35
सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः
गोमिनां पार्थ कर्तव्यं संविभागाः प्रियाणि च
MBh 12.88.36
अजस्रमुपयोक्तव्यं फलं गोमिषु सर्वतः
प्रभावयति राष्ट्रं च व्यवहारं कृषिं तथा
MBh 12.88.37
तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः
दयावानप्रमत्तश्च करान्संप्रणयन्मृदून्
MBh 12.88.38
सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः
न ह्यतः सदृशं किंचिद्धनमस्ति युधिष्ठिर
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 87
- Next chapter · Śānti-Parva Ch 89 →
Sources and Connected Readings
Continue from these 38 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.88local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷