🪷 Mahābhārata · Śānti-Parva · Chapter 66
The Book of Peace · the great dharma-śāstra · Parva 12 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 37 Shlokas
MBh 12.66.1
युधिष्ठिर उवाच
श्रुता मे कथिताः पूर्वैश्चत्वारो मानवाश्रमाः
व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह
MBh 12.66.2
भीष्म उवाच
विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर
यथा मम महाबाहो विदिताः साधुसंमताः
MBh 12.66.3
यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर
धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप
MBh 12.66.4
सर्वाण्येतानि कौन्तेय विद्यन्ते मनुजर्षभ
साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम्
MBh 12.66.5
अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर
समेक्षिणश्च भूतेषु भैक्षाश्रमपदं भवेत्
MBh 12.66.6
वेत्त्यादानविसर्गं यो निग्रहानुग्रहौ तथा
यथोक्तवृत्तेर्वीरस्य क्षेमाश्रमपदं भवेत्
MBh 12.66.7
ज्ञातिसंबन्धिमित्राणि व्यापन्नानि युधिष्ठिर
समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत्
MBh 12.66.8
आह्निकं भूतयज्ञांश्च पितृयज्ञांश्च मानुषान्
कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत्
MBh 12.66.9
पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात्
दीक्षा बहुविधा राज्ञो वन्याश्रमपदं भवेत्
MBh 12.66.10
वेदाध्ययननित्यत्वं क्षमाथाचार्यपूजनम्
तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत्
MBh 12.66.11
अजिह्ममशठं मार्गं सेवमानस्य भारत
सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत्
MBh 12.66.12
वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत
प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत्
MBh 12.66.13
सर्वभूतेष्वनुक्रोशं कुर्वतस्तस्य भारत
आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत्
MBh 12.66.14
बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर
अनुक्रोशं विदधतः सर्वावस्थं पदं भवेत्
MBh 12.66.15
बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह
शरणागतेषु कौरव्य कुर्वन्गार्हस्थ्यमावसेत्
MBh 12.66.16
चराचराणां भूतानां रक्षामपि च सर्वशः
यथार्हपूजां च सदा कुर्वन्गार्हस्थ्यमावसेत्
MBh 12.66.17
ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम्
निग्रहानुग्रहौ पार्थ गार्हस्थ्यमिति तत्तपः
MBh 12.66.18
साधूनामर्चनीयानां प्रजासु विदितात्मनाम्
पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत्
MBh 12.66.19
आश्रमस्थानि सर्वाणि यस्तु वेश्मनि भारत
आददीतेह भोज्येन तद्गार्हस्थ्यं युधिष्ठिर
MBh 12.66.20
यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत्
आश्रमाणां स सर्वेषां फलं प्राप्नोत्यनुत्तमम्
MBh 12.66.21
यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा
आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर
MBh 12.66.22
स्थानमानं वयोमानं कुलमानं तथैव च
कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर
MBh 12.66.23
देशधर्मांश्च कौन्तेय कुलधर्मांस्तथैव च
पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत्
MBh 12.66.24
काले विभूतिं भूतानामुपहारांस्तथैव च
अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत्
MBh 12.66.25
दशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते
सर्वलोकस्य कौन्तेय राजा भवति सोऽऽश्रमी
MBh 12.66.26
ये धर्मकुशला लोके धर्मं कुर्वन्ति साधवः
पालिता यस्य विषये पादोंऽशस्तस्य भूपतेः
MBh 12.66.27
धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान्
पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते
MBh 12.66.28
ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर
ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ
MBh 12.66.29
सर्वाश्रमपदे ह्याहुर्गार्हस्थ्यं दीप्तनिर्णयम्
पावनं पुरुषव्याघ्र यं वयं पर्युपास्महे
MBh 12.66.30
आत्मोपमस्तु भूतेषु यो वै भवति मानवः
न्यस्तदण्डो जितक्रोधः स प्रेत्य लभते सुखम्
MBh 12.66.31
धर्मोत्थिता सत्त्ववीर्या धर्मसेतुवटाकरा
त्यागवाताध्वगा शीघ्रा नौस्त्वा संतारयिष्यति
MBh 12.66.32
यदा निवृत्तः सर्वस्मात्कामो योऽस्य हृदि स्थितः
तदा भवति सत्त्वस्थस्ततो ब्रह्म समश्नुते
MBh 12.66.33
सुप्रसन्नस्तु भावेन योगेन च नराधिप
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः
MBh 12.66.34
वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम्
पालने यत्नमातिष्ठ सर्वलोकस्य चानघ
MBh 12.66.35
वने चरति यो धर्ममाश्रमेषु च भारत
रक्षया तच्छतगुणं धर्मं प्राप्नोति पार्थिवः
MBh 12.66.36
एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः
अनुतिष्ठ त्वमेनं वै पूर्वैर्दृष्टं सनातनम्
MBh 12.66.37
चातुराश्रम्यमेकाग्रः चातुर्वर्ण्यं च पाण्डव
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 65
- Next chapter · Śānti-Parva Ch 67 →
Sources and Connected Readings
Continue from these 37 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.66local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷