🪷 Mahābhārata · Śānti-Parva · Chapter 67

The Book of Peace · the great dharma-śāstra · Parva 12 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 38 Shlokas

MBh 12.67.1
युधिष्ठिर उवाच चातुराश्रम्य उक्तोऽत्र चातुर्वर्ण्यस्तथैव च राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह
MBh 12.67.2
भीष्म उवाच राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम् अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्ति च
MBh 12.67.3
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते परस्परं च खादन्ति सर्वथा धिगराजकम्
MBh 12.67.4
इन्द्रमेनं प्रवृणुते यद्राजानमिति श्रुतिः यथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता
MBh 12.67.5
नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम् नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्यपि
MBh 12.67.6
अथ चेदभिवर्तेत राज्यार्थी बलवत्तरः अराजकानि राष्ट्राणि हतराजानि वा पुनः
MBh 12.67.7
प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम् न हि पापात्पापतरमस्ति किंचिदराजकात्
MBh 12.67.8
स चेत्समनुपश्येत समग्रं कुशलं भवेत् बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि
MBh 12.67.9
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा सुदुहा या तु भवति नैव तां क्लेशयन्त्युत
MBh 12.67.10
यदतप्तं प्रणमति न तत्संतापयन्त्युत यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि
MBh 12.67.11
एतयोपमया धीरः संनमेत बलीयसे इन्द्राय स प्रणमते नमते यो बलीयसे
MBh 12.67.12
तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता न धनार्थो न दारार्थस्तेषां येषामराजकम्
MBh 12.67.13
प्रीयते हि हरन्पापः परवित्तमराजके यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति
MBh 12.67.14
पापा अपि तदा क्षेमं न लभन्ते कदाचन एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे
MBh 12.67.15
अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे
MBh 12.67.16
राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः
MBh 12.67.17
अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् परस्परं भक्षयन्तो मत्स्या इव जले कृशान्
MBh 12.67.18
ताः समेत्य ततश्चक्रुः समयानिति नः श्रुतम् वाक्क्रूरो दण्डपुरुषो यश्च स्यात्पारदारिकः यश्च न स्वमथादद्यात्त्याज्या नस्तादृशा इति
MBh 12.67.19
विश्वासनार्थं वर्णानां सर्वेषामविशेषतः तास्तथा समयं कृत्वा समये नावतस्थिरे
MBh 12.67.20
सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम् अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश
MBh 12.67.21
यं पूजयेम संभूय यश्च नः परिपालयेत् ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः
MBh 12.67.22
मनुरुवाच बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम् विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा
MBh 12.67.23
भीष्म उवाच तमब्रुवन्प्रजा मा भैः कर्मणैनो गमिष्यति पशूनामधिपञ्चाशद्धिरण्यस्य तथैव च धान्यस्य दशमं भागं दास्यामः कोशवर्धनम्
MBh 12.67.24
मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः
MBh 12.67.25
स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान् सुखे धास्यसि नः सर्वान्कुबेर इव नैरृतान्
MBh 12.67.26
यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति
MBh 12.67.27
तेन धर्मेण महता सुखलब्धेन भावितः पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः
MBh 12.67.28
विजयायाशु निर्याहि प्रतपन्रश्मिमानिव मानं विधम शत्रूणां धर्मो जयतु नः सदा
MBh 12.67.29
स निर्ययौ महातेजा बलेन महता वृतः महाभिजनसंपन्नस्तेजसा प्रज्वलन्निव
MBh 12.67.30
तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः अपतत्रसिरे सर्वे स्वधर्मे च दधुर्मनः
MBh 12.67.31
ततो महीं परिययौ पर्जन्य इव वृष्टिमान् शमयन्सर्वतः पापान्स्वकर्मसु च योजयन्
MBh 12.67.32
एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित् कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात्
MBh 12.67.33
नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा देवा इव सहस्राक्षं प्रजा राजानमन्तिके
MBh 12.67.34
सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते स्वजनेन त्ववज्ञातं परे परिभवन्त्युत
MBh 12.67.35
राज्ञः परैः परिभवः सर्वेषामसुखावहः तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च
MBh 12.67.36
भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च आसनानि च शय्याश्च सर्वोपकरणानि च
MBh 12.67.37
गुप्तात्मा स्याद्दुराधर्षः स्मितपूर्वाभिभाषिता आभाषितश्च मधुरं प्रतिभाषेत मानवान्
MBh 12.67.38
कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 38 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.67local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷