🪷 Mahābhārata · Śānti-Parva · Chapter 60

The Book of Peace · the great dharma-śāstra · Parva 12 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 52 Shlokas

MBh 12.60.1
वैशंपायन उवाच ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः
MBh 12.60.2
के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् चतुर्णामाश्रमाणां च राजधर्माश्च के मताः
MBh 12.60.3
केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ
MBh 12.60.4
कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः
MBh 12.60.5
केषु विश्वसितव्यं स्याद्राज्ञां कस्यांचिदापदि कुतो वात्मा दृढो रक्ष्यस्तन्मे ब्रूहि पितामह
MBh 12.60.6
भीष्म उवाच नमो धर्माय महते नमः कृष्णाय वेधसे ब्राह्मणेभ्यो नमस्कृत्वा धर्मान्वक्ष्यामि शाश्वतान्
MBh 12.60.7
अक्रोधः सत्यवचनं संविभागः क्षमा तथा प्रजनः स्वेषु दारेषु शौचमद्रोह एव च
MBh 12.60.8
आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम्
MBh 12.60.9
दममेव महाराज धर्ममाहुः पुरातनम् स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते
MBh 12.60.10
तं चेद्वित्तमुपागच्छेद्वर्तमानं स्वकर्मणि अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम्
MBh 12.60.11
कुर्वीतापत्यसंतानमथो दद्याद्यजेत च संविभज्य हि भोक्तव्यं धनं सद्भिरितीष्यते
MBh 12.60.12
परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते
MBh 12.60.13
क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत दद्याद्राजा न याचेत यजेत न तु याजयेत्
MBh 12.60.14
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम्
MBh 12.60.15
ये च क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः य एवाहवजेतारस्त एषां लोकजित्तमाः
MBh 12.60.16
अविक्षतेन देहेन समराद्यो निवर्तते क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः
MBh 12.60.17
वधं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः नास्य कृत्यतमं किंचिदन्यद्दस्युनिबर्हणात्
MBh 12.60.18
दानमध्ययनं यज्ञो योगः क्षेमो विधीयते तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता
MBh 12.60.19
स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत्
MBh 12.60.20
परिनिष्ठितकार्यः स्यान्नृपतिः परिपालनात् कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते
MBh 12.60.21
वैश्यस्यापीह यो धर्मस्तं ते वक्ष्यामि भारत दानमध्ययनं यज्ञः शौचेन धनसंचयः
MBh 12.60.22
पितृवत्पालयेद्वैश्यो युक्तः सर्वपशूनिह विकर्म तद्भवेदन्यत्कर्म यद्यत्समाचरेत् रक्षया स हि तेषां वै महत्सुखमवाप्नुयात्
MBh 12.60.23
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः
MBh 12.60.24
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत्
MBh 12.60.25
लये च सप्तमो भागस्तथा शृङ्गे कला खुरे सस्यस्य सर्वबीजानामेषा सांवत्सरी भृतिः
MBh 12.60.26
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन
MBh 12.60.27
शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत्
MBh 12.60.28
तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात्
MBh 12.60.29
शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूयकः संचयांश्च न कुर्वीत जातु शूद्रः कथंचन
MBh 12.60.30
पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः
MBh 12.60.31
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् अवश्यभरणीयो हि वर्णानां शूद्र उच्यते
MBh 12.60.32
छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च यातयामानि देयानि शूद्राय परिचारिणे
MBh 12.60.33
अधार्याणि विशीर्णानि वसनानि द्विजातिभिः शूद्रायैव विधेयानि तस्य धर्मधनं हि तत्
MBh 12.60.34
यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः देयः पिण्डोऽनपेताय भर्तव्यौ वृद्धदुर्बलौ
MBh 12.60.35
शूद्रेण च न हातव्यो भर्ता कस्यांचिदापदि अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो ह्यसौ
MBh 12.60.36
उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्यैव भारत स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीयते
MBh 12.60.37
ताभ्यां शूद्रः पाकयज्ञैर्यजेत व्रतवान्स्वयम् पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम्
MBh 12.60.38
शूद्रः पैजवनो नाम सहस्राणां शतं ददौ ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम्
MBh 12.60.39
अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत्
MBh 12.60.40
दैवतं परमं विप्राः स्वेन स्वेन परस्परम् अयजन्निह सत्रैस्ते तैस्तैः कामैः सनातनैः
MBh 12.60.41
संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः देवानामपि ये देवा यद्ब्रूयुस्ते परं हि तत् तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया
MBh 12.60.42
ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्द्विजः अनृग्यजुरसामा तु प्राजापत्य उपद्रवः
MBh 12.60.43
यज्ञो मनीषया तात सर्ववर्णेषु भारत नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः तस्मात्सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते
MBh 12.60.44
स्वं दैवतं ब्राह्मणाः स्वेन नित्यं; परान्वर्णानयजन्नेवमासीत् आरोचिता नः सुमहान्स धर्मः; सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः
MBh 12.60.45
तस्माद्वर्णा ऋजवो जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः एकं साम यजुरेकमृगेका; विप्रश्चैकोऽनिश्चयस्तेषु दृष्टः
MBh 12.60.46
अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम्
MBh 12.60.47
उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रियः वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत्
MBh 12.60.48
यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम् बहूनि यज्ञरूपाणि नानाकर्मफलानि च
MBh 12.60.49
तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति
MBh 12.60.50
स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम्
MBh 12.60.51
ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् सर्वथा सर्ववर्णैर्हि यष्टव्यमिति निश्चयः न हि यज्ञसमं किंचित्त्रिषु लोकेषु विद्यते
MBh 12.60.52
तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता श्रद्धापवित्रमाश्रित्य यथाशक्ति प्रयच्छता

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 52 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.60local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷