🪷 Mahābhārata · Śānti-Parva · Chapter 59

The Book of Peace · the great dharma-śāstra · Parva 12 · 141 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 141 Shlokas

MBh 12.59.1
वैशंपायन उवाच ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः ययुस्ते नगराकारै रथैः पाण्डवयादवाः
MBh 12.59.2
प्रपद्य च कुरुक्षेत्रं भीष्ममासाद्य चानघम् सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम्
MBh 12.59.3
व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः निषेदुरभितो भीष्मं परिवार्य समन्ततः
MBh 12.59.4
ततो राजा महातेजा धर्मराजो युधिष्ठिरः अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्याभिवाद्य च
MBh 12.59.5
य एष राजा-राजेति शब्दश्चरति भारत कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह
MBh 12.59.6
तुल्यपाणिशिरोग्रीवस्तुल्यबुद्धीन्द्रियात्मकः तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः
MBh 12.59.7
तुल्यशुक्रास्थिमज्जश्च तुल्यमांसासृगेव च निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान्
MBh 12.59.8
समानजन्ममरणः समः सर्वगुणैर्नृणाम् विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति
MBh 12.59.9
कथमेको महीं कृत्स्नां वीरशूरार्यसंकुलाम् रक्षत्यपि च लोकोऽस्य प्रसादमभिवाञ्छति
MBh 12.59.10
एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः
MBh 12.59.11
एतदिच्छाम्यहं सर्वं तत्त्वेन भरतर्षभ श्रोतुं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर
MBh 12.59.12
नैतत्कारणमल्पं हि भविष्यति विशां पते यदेकस्मिञ्जगत्सर्वं देववद्याति संनतिम्
MBh 12.59.13
भीष्म उवाच नियतस्त्वं नरश्रेष्ठ शृणु सर्वमशेषतः यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत्
MBh 12.59.14
नैव राज्यं न राजासीन्न दण्डो न च दाण्डिकः धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम्
MBh 12.59.15
पालयानास्तथान्योन्यं नरा धर्मेण भारत खेदं परममाजग्मुस्ततस्तान्मोह आविशत्
MBh 12.59.16
ते मोहवशमापन्ना मानवा मनुजर्षभ प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत्
MBh 12.59.17
नष्टायां प्रतिपत्तौ तु मोहवश्या नरास्तदा लोभस्य वशमापन्नाः सर्वे भारतसत्तम
MBh 12.59.18
अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः कामो नामापरस्तत्र समपद्यत वै प्रभो
MBh 12.59.19
तांस्तु कामवशं प्राप्तान्रागो नाम समस्पृशत् रक्ताश्च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर
MBh 12.59.20
अगम्यागमनं चैव वाच्यावाच्यं तथैव च भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन्
MBh 12.59.21
विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत्
MBh 12.59.22
नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन् ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः
MBh 12.59.23
प्रपद्य भगवन्तं ते देवा लोकपितामहम् ऊचुः प्राञ्जलयः सर्वे दुःखशोकभयार्दिताः
MBh 12.59.24
भगवन्नरलोकस्थं नष्टं ब्रह्म सनातनम् लोभमोहादिभिर्भावैस्ततो नो भयमाविशत्
MBh 12.59.25
ब्रह्मणश्च प्रणाशेन धर्मोऽप्यनशदीश्वर ततः स्म समतां याता मर्त्यैस्त्रिभुवनेश्वर
MBh 12.59.26
अधो हि वर्षमस्माकं मर्त्यास्तूर्ध्वप्रवर्षिणः क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम्
MBh 12.59.27
अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह त्वत्प्रभावसमुत्थोऽसौ प्रभावो नो विनश्यति
MBh 12.59.28
तानुवाच सुरान्सर्वान्स्वयंभूर्भगवांस्ततः श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः
MBh 12.59.29
ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः
MBh 12.59.30
त्रिवर्ग इति विख्यातो गण एष स्वयंभुवा चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गणः
MBh 12.59.31
मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः
MBh 12.59.32
आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः
MBh 12.59.33
त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः
MBh 12.59.34
अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम् चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः
MBh 12.59.35
साम चोपप्रदानं च भेदो दण्डश्च पाण्डव उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता
MBh 12.59.36
मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च विभ्रंशश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम्
MBh 12.59.37
संधिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः
MBh 12.59.38
यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः विजयो धर्मयुक्तश्च तथार्थविजयश्च ह
MBh 12.59.39
आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम्
MBh 12.59.40
प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः प्रकाशोऽष्टविधस्तत्र गुह्यस्तु बहुविस्तरः
MBh 12.59.41
रथा नागा हयाश्चैव पादाताश्चैव पाण्डव विष्टिर्नावश्चराश्चैव देशिकाः पथि चाष्टकम्
MBh 12.59.42
अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः
MBh 12.59.43
स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः
MBh 12.59.44
कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह आत्मरक्षणमाश्वासः स्पशानां चान्ववेक्षणम्
MBh 12.59.45
कल्पना विविधाश्चापि नृनागरथवाजिनाम् व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम्
MBh 12.59.46
उत्पाताश्च निपाताश्च सुयुद्धं सुपलायनम् शस्त्राणां पायनज्ञानं तथैव भरतर्षभ
MBh 12.59.47
बलव्यसनमुक्तं च तथैव बलहर्षणम् पीडनास्कन्दकालश्च भयकालश्च पाण्डव
MBh 12.59.48
तथा खातविधानं च योगसंचार एव च चौराटव्यबलैश्चोग्रैः परराष्ट्रस्य पीडनम्
MBh 12.59.49
अग्निदैर्गरदैश्चैव प्रतिरूपकचारकैः श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च
MBh 12.59.50
दूषणेन च नागानामाशङ्काजननेन च आरोधनेन भक्तस्य पथश्चोपार्जनेन च
MBh 12.59.51
सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम् दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम्
MBh 12.59.52
अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम् अवमर्दः प्रतीघातस्तथैव च बलीयसाम्
MBh 12.59.53
व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् शमो व्यायामयोगश्च योगो द्रव्यस्य संचयः
MBh 12.59.54
अभृतानां च भरणं भृतानां चान्ववेक्षणम् अर्थकाले प्रदानं च व्यसनेष्वप्रसङ्गिता
MBh 12.59.55
तथा राजगुणाश्चैव सेनापतिगुणाश्च ये कारणस्य च कर्तुश्च गुणदोषास्तथैव च
MBh 12.59.56
दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुजीविनाम् शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम्
MBh 12.59.57
अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम् प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा
MBh 12.59.58
विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुना चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः
MBh 12.59.59
क्रोधजानि तथोग्राणि कामजानि तथैव च दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह
MBh 12.59.60
मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ कामजान्याहुराचार्याः प्रोक्तानीह स्वयंभुवा
MBh 12.59.61
वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च आत्मनो निग्रहस्त्यागोऽथार्थदूषणमेव च
MBh 12.59.62
यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः अवमर्दः प्रतीघातः केतनानां च भञ्जनम्
MBh 12.59.63
चैत्यद्रुमाणामामर्दो रोधःकर्मान्तनाशनम् अपस्करोऽथ गमनं तथोपास्या च वर्णिता
MBh 12.59.64
पणवानकशङ्खानां भेरीणां च युधां वर उपार्जनं च द्रव्याणां परमर्म च तानि षट्
MBh 12.59.65
लब्धस्य च प्रशमनं सतां चैव हि पूजनम् विद्वद्भिरेकीभावश्च प्रातर्होमविधिज्ञता
MBh 12.59.66
मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया आहारयोजनं चैव नित्यमास्तिक्यमेव च
MBh 12.59.67
एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः उत्सवानां समाजानां क्रियाः केतनजास्तथा
MBh 12.59.68
प्रत्यक्षा च परोक्षा च सर्वाधिकरणेषु च वृत्तिर्भरतशार्दूल नित्यं चैवान्ववेक्षणम्
MBh 12.59.69
अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम् अनुजीविस्वजातिभ्यो गुणेषु परिरक्षणम्
MBh 12.59.70
रक्षणं चैव पौराणां स्वराष्ट्रस्य विवर्धनम् मण्डलस्था च या चिन्ता राजन्द्वादशराजिका
MBh 12.59.71
द्वासप्ततिमतिश्चैव प्रोक्ता या च स्वयंभुवा देशजातिकुलानां च धर्माः समनुवर्णिताः
MBh 12.59.72
धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः उपायश्चार्थलिप्सा च विविधा भूरिदक्षिणाः
MBh 12.59.73
मूलकर्मक्रिया चात्र माया योगश्च वर्णितः दूषणं स्रोतसामत्र वर्णितं च स्थिराम्भसाम्
MBh 12.59.74
यैर्यैरुपायैर्लोकश्च न चलेदार्यवर्त्मनः तत्सर्वं राजशार्दूल नीतिशास्त्रेऽनुवर्णितम्
MBh 12.59.75
एतत्कृत्वा शुभं शास्त्रं ततः स भगवान्प्रभुः देवानुवाच संहृष्टः सर्वाञ्शक्रपुरोगमान्
MBh 12.59.76
उपकाराय लोकस्य त्रिवर्गस्थापनाय च नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता
MBh 12.59.77
दण्डेन सहिता ह्येषा लोकरक्षणकारिका निग्रहानुग्रहरता लोकाननु चरिष्यति
MBh 12.59.78
दण्डेन नीयते चेयं दण्डं नयति चाप्युत दण्डनीतिरिति प्रोक्ता त्रीँल्लोकाननुवर्तते
MBh 12.59.79
षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा
MBh 12.59.80
नयचारश्च विपुलो येन सर्वमिदं ततम् आगमश्च पुराणानां महर्षीणां च संभवः
MBh 12.59.81
तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च
MBh 12.59.82
चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम् इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः
MBh 12.59.83
तपो ज्ञानमहिंसा च सत्यासत्ये नयः परः वृद्धोपसेवा दानं च शौचमुत्थानमेव च
MBh 12.59.84
सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम् भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम्
MBh 12.59.85
तस्मिन्पैतामहे शास्त्रे पाण्डवैतदसंशयम् धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः
MBh 12.59.86
ततस्तां भगवान्नीतिं पूर्वं जग्राह शंकरः बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः
MBh 12.59.87
युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः संचिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम्
MBh 12.59.88
वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः
MBh 12.59.89
भगवानपि तच्छास्त्रं संचिक्षेप पुरंदरः सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम्
MBh 12.59.90
अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते
MBh 12.59.91
अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत् तच्छास्त्रममितप्रज्ञो योगाचार्यो महातपाः
MBh 12.59.92
एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः संक्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासि पाण्डव
MBh 12.59.93
अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम् एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्यं तं वै समादिश
MBh 12.59.94
ततः संचिन्त्य भगवान्देवो नारायणः प्रभुः तैजसं वै विरजसं सोऽसृजन्मानसं सुतम्
MBh 12.59.95
विरजास्तु महाभाग विभुत्वं भुवि नैच्छत न्यासायैवाभवद्बुद्धिः प्रणीता तस्य पाण्डव
MBh 12.59.96
कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि पञ्चातिगोऽभवत् कर्दमस्तस्य च सुतः सोऽप्यतप्यन्महत्तपः
MBh 12.59.97
प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः प्रजानां रक्षिता साधुर्दण्डनीतिविशारदः
MBh 12.59.98
अनङ्गपुत्रोऽतिबलो नीतिमानधिगम्य वै अभिपेदे महीराज्यमथेन्द्रियवशोऽभवत्
MBh 12.59.99
मृत्योस्तु दुहिता राजन्सुनीथा नाम मानसी प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत्
MBh 12.59.100
तं प्रजासु विधर्माणं रागद्वेषवशानुगम् मन्त्रपूतैः कुशैर्जघ्नुरृषयो ब्रह्मवादिनः
MBh 12.59.101
ममन्थुर्दक्षिणं चोरुमृषयस्तस्य मन्त्रतः ततोऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि
MBh 12.59.102
दग्धस्थाणुप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः
MBh 12.59.103
तस्मान्निषादाः संभूताः क्रूराः शैलवनाश्रयाः ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः
MBh 12.59.104
भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः
MBh 12.59.105
कवची बद्धनिस्त्रिंशः सशरः सशरासनः वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः
MBh 12.59.106
तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम् ततः स प्राञ्जलिर्वैन्यो महर्षींस्तानुवाच ह
MBh 12.59.107
सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी अनया किं मया कार्यं तन्मे तत्त्वेन शंसत
MBh 12.59.108
यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम् तदहं वै करिष्यामि नात्र कार्या विचारणा
MBh 12.59.109
तमूचुरथ देवास्ते ते चैव परमर्षयः नियतो यत्र धर्मो वै तमशङ्कः समाचर
MBh 12.59.110
प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु कामक्रोधौ च लोभं च मानं चोत्सृज्य दूरतः
MBh 12.59.111
यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः निग्राह्यस्ते स बाहुभ्यां शश्वद्धर्ममवेक्षतः
MBh 12.59.112
प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत्
MBh 12.59.113
यश्चात्र धर्मनीत्युक्तो दण्डनीतिव्यपाश्रयः तमशङ्कः करिष्यामि स्ववशो न कदाचन
MBh 12.59.114
अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो लोकं च संकरात्कृत्स्नात्त्रातास्मीति परंतप
MBh 12.59.115
वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान् ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः
MBh 12.59.116
एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः
MBh 12.59.117
मन्त्रिणो वालखिल्यास्तु सारस्वत्यो गणो ह्यभूत् महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत्
MBh 12.59.118
आत्मनाष्टम इत्येव श्रुतिरेषा परा नृषु उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ
MBh 12.59.119
समतां वसुधायाश्च स सम्यगुपपादयत् वैषम्यं हि परं भूमेरासीदिति ह नः श्रुतम्
MBh 12.59.120
स विष्णुना च देवेन शक्रेण विबुधैः सह ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः
MBh 12.59.121
तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण्डव सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः
MBh 12.59.122
शक्रश्च धनमक्षय्यं प्रादात्तस्य युधिष्ठिर रुक्मं चापि महामेरुः स्वयं कनकपर्वतः
MBh 12.59.123
यक्षराक्षसभर्ता च भगवान्नरवाहनः धर्मे चार्थे च कामे च समर्थं प्रददौ धनम्
MBh 12.59.124
हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा प्रादुर्बभूवुर्वैन्यस्य चिन्तनादेव पाण्डव न जरा न च दुर्भिक्षं नाधयो व्याधयस्तथा
MBh 12.59.125
सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात्कदाचन भयमुत्पद्यते तत्र तस्य राज्ञोऽभिरक्षणात्
MBh 12.59.126
तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च यक्षराक्षसनागैश्चापीप्सितं यस्य यस्य यत्
MBh 12.59.127
तेन धर्मोत्तरश्चायं कृतो लोको महात्मना रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते
MBh 12.59.128
ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते प्रथिता धनतश्चेयं पृथिवी साधुभिः स्मृता
MBh 12.59.129
स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति पार्थिव
MBh 12.59.130
तपसा भगवान्विष्णुराविवेश च भूमिपम् देववन्नरदेवानां नमते यज्जगन्नृप
MBh 12.59.131
दण्डनीत्या च सततं रक्षितं तं नरेश्वर नाधर्षयत्ततः कश्चिच्चारनित्याच्च दर्शनात्
MBh 12.59.132
आत्मना करणैश्चैव समस्येह महीक्षितः को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात्
MBh 12.59.133
विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा श्रीः संभूता यतो देवी पत्नी धर्मस्य धीमतः
MBh 12.59.134
श्रियः सकाशादर्थश्च जातो धर्मेण पाण्डव अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता
MBh 12.59.135
सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम् पार्थिवो जायते तात दण्डनीतिवशानुगः
MBh 12.59.136
महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति
MBh 12.59.137
स्थापनामथ देवानां न कश्चिदतिवर्तते तिष्ठत्येकस्य च वशे तं चेदनुविधीयते
MBh 12.59.138
शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठति
MBh 12.59.139
यो ह्यस्य मुखमद्राक्षीत्सोम्य सोऽस्य वशानुगः सुभगं चार्थवन्तं च रूपवन्तं च पश्यति
MBh 12.59.140
ततो जगति राजेन्द्र सततं शब्दितं बुधैः देवाश्च नरदेवाश्च तुल्या इति विशां पते
MBh 12.59.141
एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तताम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 141 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.59local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷