🪷 Mahābhārata · Śānti-Parva · Chapter 58
The Book of Peace · the great dharma-śāstra · Parva 12 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 30 Shlokas
MBh 12.58.1
भीष्म उवाच
एतत्ते राजधर्माणां नवनीतं युधिष्ठिर
बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति
MBh 12.58.2
विशालाक्षश्च भगवान्काव्यश्चैव महातपाः
सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः
MBh 12.58.3
भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः
राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः
MBh 12.58.4
रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर
राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु
MBh 12.58.5
चारश्च प्रणिधिश्चैव काले दानममत्सरः
युक्त्यादानं न चादानमयोगेन युधिष्ठिर
MBh 12.58.6
सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम्
अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम्
MBh 12.58.7
साधूनामपरित्यागः कुलीनानां च धारणम्
निचयश्च निचेयानां सेवा बुद्धिमतामपि
MBh 12.58.8
बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम्
कार्येष्वखेदः कोशस्य तथैव च विवर्धनम्
MBh 12.58.9
पुरगुप्तिरविश्वासः पौरसंघातभेदनम्
केतनानां च जीर्णानामवेक्षा चैव सीदताम्
MBh 12.58.10
द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः
अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम्
MBh 12.58.11
उपजापश्च भृत्यानामात्मनः परदर्शनात्
अविश्वासः स्वयं चैव परस्याश्वासनं तथा
MBh 12.58.12
नीतिधर्मानुसरणं नित्यमुत्थानमेव च
रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम्
MBh 12.58.13
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत
राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे
MBh 12.58.14
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च
MBh 12.58.15
उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति
उत्थानधीरं वाग्धीरा रमयन्त उपासते
MBh 12.58.16
उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः
धर्षणीयो रिपूणां स्याद्भुजंग इव निर्विषः
MBh 12.58.17
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च
MBh 12.58.18
एकाश्वेनापि संभूतः शत्रुर्दुर्गसमाश्रितः
तं तं तापयते देशमपि राज्ञः समृद्धिनः
MBh 12.58.19
राज्ञो रहस्यं यद्वाक्यं जयार्थं लोकसंग्रहः
हृदि यच्चास्य जिह्मं स्यात्कारणार्थं च यद्भवेत्
MBh 12.58.20
यच्चास्य कार्यं वृजिनमार्जवेनैव धार्यते
दम्भनार्थाय लोकस्य धर्मिष्ठामाचरेत्क्रियाम्
MBh 12.58.21
राज्यं हि सुमहत्तन्त्रं दुर्धार्यमकृतात्मभिः
न शक्यं मृदुना वोढुमाघातस्थानमुत्तमम्
MBh 12.58.22
राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते
तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर
MBh 12.58.23
यद्यप्यस्य विपत्तिः स्याद्रक्षमाणस्य वै प्रजाः
सोऽप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः
MBh 12.58.24
एष ते राजधर्माणां लेशः समनुवर्णितः
भूयस्ते यत्र संदेहस्तद्ब्रूहि वदतां वर
MBh 12.58.25
वैशंपायन उवाच
ततो व्यासश्च भगवान्देवस्थानोऽश्मना सह
वासुदेवः कृपश्चैव सात्यकिः संजयस्तथा
MBh 12.58.26
साधु साध्विति संहृष्टाः पुष्यमाणैरिवाननैः
अस्तुवंस्ते नरव्याघ्रं भीष्मं धर्मभृतां वरम्
MBh 12.58.27
ततो दीनमना भीष्ममुवाच कुरुसत्तमः
नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन्
MBh 12.58.28
श्व इदानीं स्वसंदेहं प्रक्ष्यामि त्वा पितामह
उपैति सविताप्यस्तं रसमापीय पार्थिवम्
MBh 12.58.29
ततो द्विजातीनभिवाद्य केशवः; कृपश्च ते चैव युधिष्ठिरादयः
प्रदक्षिणीकृत्य महानदीसुतं; ततो रथानारुरुहुर्मुदा युताः
MBh 12.58.30
दृषद्वतीं चाप्यवगाह्य सुव्रताः; कृतोदकार्याः कृतजप्यमङ्गलाः
उपास्य संध्यां विधिवत्परंतपा;स्ततः पुरं ते विविशुर्गजाह्वयम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 57
- Next chapter · Śānti-Parva Ch 59 →
Sources and Connected Readings
Continue from these 30 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.58local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷