🪷 Mahābhārata · Śānti-Parva · Chapter 57
The Book of Peace · the great dharma-śāstra · Parva 12 · 45 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 45 Shlokas
MBh 12.57.1
भीष्म उवाच
नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर
प्रशाम्यते च राजा हि नारीवोद्यमवर्जितः
MBh 12.57.2
भगवानुशना चाह श्लोकमत्र विशां पते
तमिहैकमना राजन्गदतस्त्वं निबोध मे
MBh 12.57.3
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्
MBh 12.57.4
तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि
संधेयानपि संधत्स्व विरोध्यांश्च विरोधय
MBh 12.57.5
सप्ताङ्गे यश्च ते राज्ये वैपरीत्यं समाचरेत्
गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः
MBh 12.57.6
मरुत्तेन हि राज्ञायं गीतः श्लोकः पुरातनः
राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा
MBh 12.57.7
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
उत्पथप्रतिपन्नस्य परित्यागो विधीयते
MBh 12.57.8
बाहोः पुत्रेण राज्ञा च सगरेणेह धीमता
असमञ्जाः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा
MBh 12.57.9
असमञ्जाः सरय्वां प्राक्पौराणां बालकान्नृप
न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः
MBh 12.57.10
ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः
मिथ्या विप्रानुपचरन्संत्यक्तो दयितः सुतः
MBh 12.57.11
लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम्
MBh 12.57.12
न हिंस्यात्परवित्तानि देयं काले च दापयेत्
विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः
MBh 12.57.13
गुप्तमन्त्रो जितक्रोधो शास्त्रार्थगतनिश्चयः
धर्मे चार्थे च कामे च मोक्षे च सततं रतः
MBh 12.57.14
त्रय्या संवृतरन्ध्रश्च राजा भवितुमर्हति
वृजिनस्य नरेन्द्राणां नान्यत्संवरणात्परम्
MBh 12.57.15
चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता
धर्मसंकररक्षा हि राज्ञां धर्मः सनातनः
MBh 12.57.16
न विश्वसेच्च नृपतिर्न चात्यर्थं न विश्वसेत्
षाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्यावलोकयेत्
MBh 12.57.17
द्विट्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते
त्रिवर्गविदितार्थश्च युक्तचारोपधिश्च यः
MBh 12.57.18
कोशस्योपार्जनरतिर्यमवैश्रवणोपमः
वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः
MBh 12.57.19
अभृतानां भवेद्भर्ता भृतानां चान्ववेक्षकः
नृपतिः सुमुखश्च स्यात्स्मितपूर्वाभिभाषिता
MBh 12.57.20
उपासिता च वृद्धानां जिततन्द्रीरलोलुपः
सतां वृत्ते स्थितमतिः सन्तो ह्याचारदर्शिनः
MBh 12.57.21
न चाददीत वित्तानि सतां हस्तात्कदाचन
असद्भ्यस्तु समादद्यात्सद्भ्यः संप्रतिपादयेत्
MBh 12.57.22
स्वयं प्रहर्तादाता च वश्यात्मा वश्यसाधनः
काले दाता च भोक्ता च शुद्धाचारस्तथैव च
MBh 12.57.23
शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः
शिष्टाञ्शिष्टाभिसंबन्धान्मानिनो नावमानिनः
MBh 12.57.24
विद्याविदो लोकविदः परलोकान्ववेक्षकान्
धर्मेषु निरतान्साधूनचलानचलानिव
MBh 12.57.25
सहायान्सततं कुर्याद्राजा भूतिपुरस्कृतः
तैस्तुल्यश्च भवेद्भोगैश्छत्रमात्राज्ञयाधिकः
MBh 12.57.26
प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्सदा
एवं कृत्वा नरेन्द्रो हि न खेदमिह विन्दति
MBh 12.57.27
सर्वातिशङ्की नृपतिर्यश्च सर्वहरो भवेत्
स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव बाध्यते
MBh 12.57.28
शुचिस्तु पृथिवीपालो लोकचित्तग्रहे रतः
न पतत्यरिभिर्ग्रस्तः पतितश्चावतिष्ठते
MBh 12.57.29
अक्रोधनोऽथाव्यसनी मृदुदण्डो जितेन्द्रियः
राजा भवति भूतानां विश्वास्यो हिमवानिव
MBh 12.57.30
प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु तत्परः
सुदर्शः सर्ववर्णानां नयापनयवित्तथा
MBh 12.57.31
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः
अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः
MBh 12.57.32
आरब्धान्येव कार्याणि न पर्यवसितानि च
यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः
MBh 12.57.33
पुत्रा इव पितुर्गेहे विषये यस्य मानवाः
निर्भया विचरिष्यन्ति स राजा राजसत्तमः
MBh 12.57.34
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः
नयापनयवेत्तारः स राजा राजसत्तमः
MBh 12.57.35
स्वकर्मनिरता यस्य जना विषयवासिनः
असंघातरता दान्ताः पाल्यमाना यथाविधि
MBh 12.57.36
वश्या नेया विनीताश्च न च संघर्षशीलिनः
विषये दानरुचयो नरा यस्य स पार्थिवः
MBh 12.57.37
न यस्य कूटकपटं न माया न च मत्सरः
विषये भूमिपालस्य तस्य धर्मः सनातनः
MBh 12.57.38
यः सत्करोति ज्ञानानि नेयः पौरहिते रतः
सतां धर्मानुगस्त्यागी स राजा राज्यमर्हति
MBh 12.57.39
यस्य चारश्च मन्त्रश्च नित्यं चैव कृताकृते
न ज्ञायते हि रिपुभिः स राजा राज्यमर्हति
MBh 12.57.40
श्लोकश्चायं पुरा गीतो भार्गवेण महात्मना
आख्याते रामचरिते नृपतिं प्रति भारत
MBh 12.57.41
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्
राजन्यसति लोकस्य कुतो भार्या कुतो धनम्
MBh 12.57.42
तद्राजन्राजसिंहानां नान्यो धर्मः सनातनः
ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारणम्
MBh 12.57.43
प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ
राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु
MBh 12.57.44
षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे
अप्रवक्तारमाचार्यमनधीयानमृत्विजम्
MBh 12.57.45
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्
ग्रामकामं च गोपालं वनकामं च नापितम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 56
- Next chapter · Śānti-Parva Ch 58 →
Sources and Connected Readings
Continue from these 45 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.57local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷