🪷 Mahābhārata · Śānti-Parva · Chapter 56
The Book of Peace · the great dharma-śāstra · Parva 12 · 60 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 60 Shlokas
MBh 12.56.1
वैशंपायन उवाच
प्रणिपत्य हृषीकेशमभिवाद्य पितामहम्
अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः
MBh 12.56.2
राज्यं वै परमो धर्म इति धर्मविदो विदुः
महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव
MBh 12.56.3
राजधर्मान्विशेषेण कथयस्व पितामह
सर्वस्य जीवलोकस्य राजधर्माः परायणम्
MBh 12.56.4
त्रिवर्गोऽत्र समासक्तो राजधर्मेषु कौरव
मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः
MBh 12.56.5
यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा
नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम्
MBh 12.56.6
अत्र वै संप्रमूढे तु धर्मे राजर्षिसेविते
लोकस्य संस्था न भवेत्सर्वं च व्याकुलं भवेत्
MBh 12.56.7
उदयन्हि यथा सूर्यो नाशयत्यासुरं तमः
राजधर्मास्तथालोक्यामाक्षिपन्त्यशुभां गतिम्
MBh 12.56.8
तदग्रे राजधर्माणामर्थतत्त्वं पितामह
प्रब्रूहि भरतश्रेष्ठ त्वं हि बुद्धिमतां वरः
MBh 12.56.9
आगमश्च परस्त्वत्तः सर्वेषां नः परंतप
भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते
MBh 12.56.10
भीष्म उवाच
नमो धर्माय महते नमः कृष्णाय वेधसे
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्
MBh 12.56.11
शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर
निरुच्यमानान्नियतो यच्चान्यदभिवाञ्छसि
MBh 12.56.12
आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया
देवतानां द्विजानां च वर्तितव्यं यथाविधि
MBh 12.56.13
दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह
आनृण्यं याति धर्मस्य लोकेन च स मान्यते
MBh 12.56.14
उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर
न ह्युत्थानमृते दैवं राज्ञामर्थप्रसिद्धये
MBh 12.56.15
साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च
पौरुषं हि परं मन्ये दैवं निश्चित्यमुच्यते
MBh 12.56.16
विपन्ने च समारम्भे संतापं मा स्म वै कृथाः
घटते विनयस्तात राज्ञामेष नयः परः
MBh 12.56.17
न हि सत्यादृते किंचिद्राज्ञां वै सिद्धिकारणम्
सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति
MBh 12.56.18
ऋषीणामपि राजेन्द्र सत्यमेव परं धनम्
तथा राज्ञः परं सत्यान्नान्यद्विश्वासकारणम्
MBh 12.56.19
गुणवाञ्शीलवान्दान्तो मृदुर्धर्म्यो जितेन्द्रियः
सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः
MBh 12.56.20
आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन
पुनर्नयविचारेण त्रयीसंवरणेन च
MBh 12.56.21
मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः
तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचर
MBh 12.56.22
अदण्ड्याश्चैव ते नित्यं विप्राः स्युर्ददतां वर
भूतमेतत्परं लोके ब्राह्मणा नाम भारत
MBh 12.56.23
मनुना चापि राजेन्द्र गीतौ श्लोकौ महात्मना
धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि
MBh 12.56.24
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
MBh 12.56.25
अयो हन्ति यदाश्मानमग्निश्चापोऽभिपद्यते
ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः
MBh 12.56.26
एतज्ज्ञात्वा महाराज नमस्या एव ते द्विजाः
भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः
MBh 12.56.27
एवं चैव नरव्याघ्र लोकतन्त्रविघातकाः
निग्राह्या एव सततं बाहुभ्यां ये स्युरीदृशाः
MBh 12.56.28
श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा
तौ निबोध महाप्राज्ञ त्वमेकाग्रमना नृप
MBh 12.56.29
उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे
निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नरेश्वरः
MBh 12.56.30
विनश्यमानं धर्मं हि यो रक्षति स धर्मवित्
न तेन भ्रूणहा स स्यान्मन्युस्तं मनुमृच्छति
MBh 12.56.31
एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः
स्वपराद्धानपि हि तान्विषयान्ते समुत्सृजेत्
MBh 12.56.32
अभिशस्तमपि ह्येषां कृपायीत विशां पते
ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च
MBh 12.56.33
राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम्
विधीयते न शारीरं भयमेषां कदाचन
MBh 12.56.34
दयिताश्च नरास्ते स्युर्नित्यं पुरुषसत्तम
न कोशः परमो ह्यन्यो राज्ञां पुरुषसंचयात्
MBh 12.56.35
दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः
सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम्
MBh 12.56.36
तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता
धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः
MBh 12.56.37
न च क्षान्तेन ते भाव्यं नित्यं पुरुषसत्तम
अधर्म्यो हि मृदू राजा क्षमावानिव कुञ्जरः
MBh 12.56.38
बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा
अस्मिन्नर्थे महाराज तन्मे निगदतः शृणु
MBh 12.56.39
क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः
हस्तियन्ता गजस्येव शिर एवारुरुक्षति
MBh 12.56.40
तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वापि भवेन्नृपः
वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः
MBh 12.56.41
प्रत्यक्षेणानुमानेन तथौपम्योपदेशतः
परीक्ष्यास्ते महाराज स्वे परे चैव सर्वदा
MBh 12.56.42
व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण
न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत्
MBh 12.56.43
नित्यं हि व्यसनी लोके परिभूतो भवत्युत
उद्वेजयति लोकं चाप्यतिद्वेषी महीपतिः
MBh 12.56.44
भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा
कारणं च महाराज शृणु येनेदमिष्यते
MBh 12.56.45
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम्
गर्भस्य हितमाधत्ते तथा राज्ञाप्यसंशयम्
MBh 12.56.46
वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना
स्वं प्रियं समभित्यज्य यद्यल्लोकहितं भवेत्
MBh 12.56.47
न संत्याज्यं च ते धैर्यं कदाचिदपि पाण्डव
धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते
MBh 12.56.48
परिहासश्च भृत्यैस्ते न नित्यं वदतां वर
कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु
MBh 12.56.49
अवमन्यन्ति भर्तारं संहर्षादुपजीविनः
स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद्वचः
MBh 12.56.50
प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते
अयाच्यं चैव याचन्तेऽभोज्यान्याहारयन्ति च
MBh 12.56.51
क्रुध्यन्ति परिदीप्यन्ति भूमिमध्यासतेऽस्य च
उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च
MBh 12.56.52
जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः
स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च
MBh 12.56.53
वातं च ष्ठीवनं चैव कुर्वते चास्य संनिधौ
निर्लज्जा नरशार्दूल व्याहरन्ति च तद्वचः
MBh 12.56.54
हयं वा दन्तिनं वापि रथं नृपतिसंमतम्
अधिरोहन्त्यनादृत्य हर्षुले पार्थिवे मृदौ
MBh 12.56.55
इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम्
इत्येवं सुहृदो नाम ब्रुवन्ति परिषद्गताः
MBh 12.56.56
क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः
संघर्षशीलाश्च सदा भवन्त्यन्योन्यकारणात्
MBh 12.56.57
विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम्
लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम्
अलंकरणभोज्यं च तथा स्नानानुलेपनम्
MBh 12.56.58
हेलमाना नरव्याघ्र स्वस्थास्तस्योपशृण्वते
निन्दन्ति स्वानधीकारान्संत्यजन्ति च भारत
MBh 12.56.59
न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च
क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा
अस्मत्प्रणेयो राजेति लोके चैव वदन्त्युत
MBh 12.56.60
एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत
नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 55
- Next chapter · Śānti-Parva Ch 57 →
Sources and Connected Readings
Continue from these 60 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.56local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷