🪷 Mahābhārata · Śānti-Parva · Chapter 61

The Book of Peace · the great dharma-śāstra · Parva 12 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 12.61.1
भीष्म उवाच आश्रमाणां महाबाहो शृणु सत्यपराक्रम चतुर्णामिह वर्णानां कर्माणि च युधिष्ठिर
MBh 12.61.2
वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम् ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम्
MBh 12.61.3
जटाकरणसंस्कारं द्विजातित्वमवाप्य च आधानादीनि कर्माणि प्राप्य वेदमधीत्य च
MBh 12.61.4
सदारो वाप्यदारो वा आत्मवान्संयतेन्द्रियः वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात्
MBh 12.61.5
तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् ऊर्ध्वरेताः प्रजायित्वा गच्छत्यक्षरसात्मताम्
MBh 12.61.6
एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता
MBh 12.61.7
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते भैक्षचर्यास्वधीकारः प्रशस्त इह मोक्षिणः
MBh 12.61.8
यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः
MBh 12.61.9
निराशीः स्यात्सर्वसमो निर्भोगो निर्विकारवान् विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम्
MBh 12.61.10
अधीत्य वेदान्कृतसर्वकृत्यः; संतानमुत्पाद्य सुखानि भुक्त्वा समाहितः प्रचरेद्दुश्चरं तं; गार्हस्थ्यधर्मं मुनिधर्मदृष्टम्
MBh 12.61.11
स्वदारतुष्ट ऋतुकालगामी; नियोगसेवी नशठो नजिह्मः मिताशनो देवपरः कृतज्ञः; सत्यो मृदुश्चानृशंसः क्षमावान्
MBh 12.61.12
दान्तो विधेयो हव्यकव्येऽप्रमत्तो; अन्नस्य दाता सततं द्विजेभ्यः अमत्सरी सर्वलिङ्गिप्रदाता; वैताननित्यश्च गृहाश्रमी स्यात्
MBh 12.61.13
अथात्र नारायणगीतमाहु;र्महर्षयस्तात महानुभावाः महार्थमत्यर्थतपःप्रयुक्तं; तदुच्यमानं हि मया निबोध
MBh 12.61.14
सत्यार्जवं चातिथिपूजनं च; धर्मस्तथार्थश्च रतिश्च दारे निषेवितव्यानि सुखानि लोके; ह्यस्मिन्परे चैव मतं ममैतत्
MBh 12.61.15
भरणं पुत्रदाराणां वेदानां पारणं तथा सतां तमाश्रमं श्रेष्ठं वदन्ति परमर्षयः
MBh 12.61.16
एवं हि यो ब्राह्मणो यज्ञशीलो; गार्हस्थ्यमध्यावसते यथावत् गृहस्थवृत्तिं प्रविशोध्य सम्य;क्स्वर्गे विशुद्धं फलमाप्नुते सः
MBh 12.61.17
तस्य देहपरित्यागादिष्टाः कामाक्षया मताः आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः
MBh 12.61.18
खादन्नेको जपन्नेकः सर्पन्नेको युधिष्ठिर एकस्मिन्नेव आचार्ये शुश्रूषुर्मलपङ्कवान्
MBh 12.61.19
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी अविचार्य तथा वेदं कृत्यं कुर्वन्वसेत्सदा
MBh 12.61.20
शुश्रूषां सततं कुर्वन्गुरोः संप्रणमेत च षट्कर्मस्वनिवृत्तश्च नप्रवृत्तश्च सर्वशः
MBh 12.61.21
न चरत्यधिकारेण सेवितं द्विषतो न च एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.61local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷