🪷 Mahābhārata · Śānti-Parva · Chapter 53
The Book of Peace · the great dharma-śāstra · Parva 12 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 27 Shlokas
MBh 12.53.1
वैशंपायन उवाच
ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः
याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत
MBh 12.53.2
स ध्यानपथमाश्रित्य सर्वज्ञानानि माधवः
अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम्
MBh 12.53.3
ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः
अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम्
MBh 12.53.4
पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः
शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः
MBh 12.53.5
वीणापणववेणूनां स्वनश्चातिमनोरमः
प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः
MBh 12.53.6
तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः
उच्चेरुर्मधुरा वाचो गीतवादित्रसंहिताः
MBh 12.53.7
तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः
जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान्
MBh 12.53.8
ततः सहस्रं विप्राणां चतुर्वेदविदां तथा
गवां सहस्रेणैकैकं वाचयामास माधवः
MBh 12.53.9
मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च
आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत्
MBh 12.53.10
गच्छ शैनेय जानीहि गत्वा राजनिवेशनम्
अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः
MBh 12.53.11
ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौ
उपगम्य च राजानं युधिष्ठिरमुवाच ह
MBh 12.53.12
युक्तो रथवरो राजन्वासुदेवस्य धीमतः
समीपमापगेयस्य प्रयास्यति जनार्दनः
MBh 12.53.13
भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते
यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति
MBh 12.53.14
युधिष्ठिर उवाच
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते
न सैनिकैश्च यातव्यं यास्यामो वयमेव हि
MBh 12.53.15
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः
अतः पुरःसराश्चापि निवर्तन्तु धनंजय
MBh 12.53.16
अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति
ततो नेच्छामि कौन्तेय पृथग्जनसमागमम्
MBh 12.53.17
वैशंपायन उवाच
तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनंजयः
युक्तं रथवरं तस्मा आचचक्षे नरर्षभ
MBh 12.53.18
ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि
भूतानीव समस्तानि ययुः कृष्णनिवेशनम्
MBh 12.53.19
आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु
शैनेयसहितो धीमान्रथमेवान्वपद्यत
MBh 12.53.20
रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम्
मेघघोषै रथवरैः प्रययुस्ते महारथाः
MBh 12.53.21
मेघपुष्पं बलाहं च सैन्यं सुग्रीवमेव च
दारुकश्चोदयामास वासुदेवस्य वाजिनः
MBh 12.53.22
ते हया वासुदेवस्य दारुकेण प्रचोदिताः
गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा
MBh 12.53.23
ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन्
MBh 12.53.24
ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः
आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा
MBh 12.53.25
ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः
भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च
ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान्
MBh 12.53.26
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः
अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः
MBh 12.53.27
शरतल्पे शयानं तमादित्यं पतितं यथा
ददर्श स महाबाहुर्भयादागतसाध्वसः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 52
- Next chapter · Śānti-Parva Ch 54 →
Sources and Connected Readings
Continue from these 27 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.53local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷