🪷 Mahābhārata · Śānti-Parva · Chapter 52
The Book of Peace · the great dharma-śāstra · Parva 12 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 34 Shlokas
MBh 12.52.1
वैशंपायन उवाच
ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम्
श्रुत्वा शांतनवो भीष्मः प्रत्युवाच कृताञ्जलिः
MBh 12.52.2
लोकनाथ महाबाहो शिव नारायणाच्युत
तव वाक्यमभिश्रुत्य हर्षेणास्मि परिप्लुतः
MBh 12.52.3
किं चाहमभिधास्यामि वाक्पते तव संनिधौ
यदा वाचोगतं सर्वं तव वाचि समाहितम्
MBh 12.52.4
यद्धि किंचित्कृतं लोके कर्तव्यं क्रियते च यत्
त्वत्तस्तन्निःसृतं देव लोका बुद्धिमया हि ते
MBh 12.52.5
कथयेद्देवलोकं यो देवराजसमीपतः
धर्मकामार्थशास्त्राणां सोऽर्थान्ब्रूयात्तवाग्रतः
MBh 12.52.6
शराभिघाताद्व्यथितं मनो मे मधुसूदन
गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति
MBh 12.52.7
न च मे प्रतिभा काचिदस्ति किंचित्प्रभाषितुम्
पीड्यमानस्य गोविन्द विषानलसमैः शरैः
MBh 12.52.8
बलं मेधाः प्रजरति प्राणाः संत्वरयन्ति च
मर्माणि परितप्यन्ते भ्रान्तं चेतस्तथैव च
MBh 12.52.9
दौर्बल्यात्सज्जते वाङ्मे स कथं वक्तुमुत्सहे
साधु मे त्वं प्रसीदस्व दाशार्हकुलनन्दन
MBh 12.52.10
तत्क्षमस्व महाबाहो न ब्रूयां किंचिदच्युत
त्वत्संनिधौ च सीदेत वाचस्पतिरपि ब्रुवन्
MBh 12.52.11
न दिशः संप्रजानामि नाकाशं न च मेदिनीम्
केवलं तव वीर्येण तिष्ठामि मधुसूदन
MBh 12.52.12
स्वयमेव प्रभो तस्माद्धर्मराजस्य यद्धितम्
तद्ब्रवीह्याशु सर्वेषामागमानां त्वमागमः
MBh 12.52.13
कथं त्वयि स्थिते लोके शाश्वते लोककर्तरि
प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते
MBh 12.52.14
वासुदेव उवाच
उपपन्नमिदं वाक्यं कौरवाणां धुरंधरे
महावीर्ये महासत्त्वे स्थिते सर्वार्थदर्शिनि
MBh 12.52.15
यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति
गृहाणात्र वरं भीष्म मत्प्रसादकृतं विभो
MBh 12.52.16
न ते ग्लानिर्न ते मूर्छा न दाहो न च ते रुजा
प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत
MBh 12.52.17
ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ
न च ते क्वचिदासक्तिर्बुद्धेः प्रादुर्भविष्यति
MBh 12.52.18
सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति
रजस्तमोभ्यां रहितं घनैर्मुक्त इवोडुराट्
MBh 12.52.19
यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि वा
चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति
MBh 12.52.20
इमं च राजशार्दूल भूतग्रामं चतुर्विधम्
चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम
MBh 12.52.21
चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा
भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले
MBh 12.52.22
वैशंपायन उवाच
ततस्ते व्याससहिताः सर्व एव महर्षयः
ऋग्यजुःसामसंयुक्तैर्वचोभिः कृष्णमर्चयन्
MBh 12.52.23
ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात्
पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः
MBh 12.52.24
वादित्राणि च दिव्यानि जगुश्चाप्सरसां गणाः
न चाहितमनिष्टं वा किंचित्तत्र व्यदृश्यत
MBh 12.52.25
ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः
शान्तायां दिशि शान्ताश्च प्रावदन्मृगपक्षिणः
MBh 12.52.26
ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः
दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत
MBh 12.52.27
ततो महर्षयः सर्वे समुत्थाय जनार्दनम्
भीष्ममामन्त्रयां चक्रू राजानं च युधिष्ठिरम्
MBh 12.52.28
ततः प्रणाममकरोत्केशवः पाण्डवस्तथा
सात्यकिः संजयश्चैव स च शारद्वतः कृपः
MBh 12.52.29
ततस्ते धर्मनिरताः सम्यक्तैरभिपूजिताः
श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः
MBh 12.52.30
तथैवामन्त्र्य गाङ्गेयं केशवस्ते च पाण्डवाः
प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान्
MBh 12.52.31
ततो रथैः काञ्चनदन्तकूबरै;र्महीधराभैः समदैश्च दन्तिभिः
हयैः सुपर्णैरिव चाशुगामिभिः; पदातिभिश्चात्तशरासनादिभिः
MBh 12.52.32
ययौ रथानां पुरतो हि सा चमू;स्तथैव पश्चादतिमात्रसारिणी
पुरश्च पश्चाच्च यथा महानदी; पुरर्क्षवन्तं गिरिमेत्य नर्मदा
MBh 12.52.33
ततः पुरस्ताद्भगवान्निशाकरः; समुत्थितस्तामभिहर्षयंश्चमूम्
दिवाकरापीतरसास्तथौषधीः; पुनः स्वकेनैव गुणेन योजयन्
MBh 12.52.34
ततः पुरं सुरपुरसंनिभद्युति; प्रविश्य ते यदुवृषपाण्डवास्तदा
यथोचितान्भवनवरान्समाविश;ञ्श्रमान्विता मृगपतयो गुहा इव
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 51
- Next chapter · Śānti-Parva Ch 53 →
Sources and Connected Readings
Continue from these 34 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.52local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷