🪷 Mahābhārata · Śānti-Parva · Chapter 46

The Book of Peace · the great dharma-śāstra · Parva 12 · 35 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 35 Shlokas

MBh 12.46.1
युधिष्ठिर उवाच किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण
MBh 12.46.2
चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषोत्तम अपक्रान्तो यतो देव तेन मे विस्मितं मनः
MBh 12.46.3
निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते
MBh 12.46.4
इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते सर्वश्चैव गणो देव क्षेत्रज्ञे ते निवेशितः
MBh 12.46.5
नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः स्थाणुकुड्यशिलाभूतो निरीहश्चासि माधव
MBh 12.46.6
यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत तथासि भगवन्देव निश्चलो दृढनिश्चयः
MBh 12.46.7
यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि छिन्धि मे संशयं देव प्रपन्नायाभियाचते
MBh 12.46.8
त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि अनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम
MBh 12.46.9
त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर
MBh 12.46.10
वैशंपायन उवाच ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि च स्मितपूर्वमुवाचेदं भगवान्वासवानुजः
MBh 12.46.11
शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः
MBh 12.46.12
यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः न सहेद्देवराजोऽपि तमस्मि मनसा गतः
MBh 12.46.13
येनाभिद्रुत्य तरसा समस्तं राजमण्डलम् ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः
MBh 12.46.14
त्रयोविंशतिरात्रं यो योधयामास भार्गवम् न च रामेण निस्तीर्णस्तमस्मि मनसा गतः
MBh 12.46.15
यं गङ्गा गर्भविधिना धारयामास पार्थिवम् वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप
MBh 12.46.16
दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान् साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः
MBh 12.46.17
रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव आधारं सर्वविद्यानां तमस्मि मनसा गतः
MBh 12.46.18
एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया शरणं मामुपागच्छत्ततो मे तद्गतं मनः
MBh 12.46.19
स हि भूतं च भव्यं च भवच्च पुरुषर्षभ वेत्ति धर्मभृतां श्रेष्ठस्ततो मे तद्गतं मनः
MBh 12.46.20
तस्मिन्हि पुरुषव्याघ्रे कर्मभिः स्वैर्दिवं गते भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी
MBh 12.46.21
तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम् अभिगम्योपसंगृह्य पृच्छ यत्ते मनोगतम्
MBh 12.46.22
चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यमेव च चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते
MBh 12.46.23
तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरंधरे ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम्
MBh 12.46.24
तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम् साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह
MBh 12.46.25
यद्भवानाह भीष्मस्य प्रभावं प्रति माधव तथा तन्नात्र संदेहो विद्यते मम मानद
MBh 12.46.26
महाभाग्यं हि भीष्मस्य प्रभावश्च महात्मनः श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम्
MBh 12.46.27
भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन तथा तदनभिध्येयं वाक्यं यादवनन्दन
MBh 12.46.28
यतस्त्वनुग्रहकृता बुद्धिस्ते मयि माधव त्वामग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम्
MBh 12.46.29
आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः
MBh 12.46.30
तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च दर्शनं तस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः
MBh 12.46.31
श्रुत्वैतद्धर्मराजस्य वचनं मधुसूदनः पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति
MBh 12.46.32
सात्यकिस्तूपनिष्क्रम्य केशवस्य समीपतः दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत
MBh 12.46.33
स सात्यकेराशु वचो निशम्य; रथोत्तमं काञ्चनभूषिताङ्गम् मसारगल्वर्कमयैर्विभङ्गै;र्विभूषितं हेमपिनद्धचक्रम्
MBh 12.46.34
दिवाकरांशुप्रभमाशुगामिनं; विचित्रनानामणिरत्नभूषितम् नवोदितं सूर्यमिव प्रतापिनं; विचित्रतार्क्ष्यध्वजिनं पताकिनम्
MBh 12.46.35
सुग्रीवसैन्यप्रमुखैर्वराश्वै;र्मनोजवैः काञ्चनभूषिताङ्गैः सुयुक्तमावेदयदच्युताय; कृताञ्जलिर्दारुको राजसिंह

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 35 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.46local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷