🪷 Mahābhārata · Śānti-Parva · Chapter 47
The Book of Peace · the great dharma-śāstra · Parva 12 · 72 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 72 Shlokas
MBh 12.47.1
जनमेजय उवाच
शरतल्पे शयानस्तु भरतानां पितामहः
कथमुत्सृष्टवान्देहं कं च योगमधारयत्
MBh 12.47.2
वैशंपायन उवाच
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः
MBh 12.47.3
निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे
समावेशयदात्मानमात्मन्येव समाहितः
MBh 12.47.4
विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः
शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः
MBh 12.47.5
व्यासेन वेदश्रवसा नारदेन सुरर्षिणा
देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना
MBh 12.47.6
एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः
श्रद्धादमपुरस्कारैर्वृतश्चन्द्र इव ग्रहैः
MBh 12.47.7
भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः
MBh 12.47.8
स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम्
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम्
MBh 12.47.9
कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम्
भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत्
MBh 12.47.10
आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम्
तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः
MBh 12.47.11
शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम्
युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम्
MBh 12.47.12
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च
गुणभूतानि भूतेशे सूत्रे मणिगणा इव
MBh 12.47.13
यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि
MBh 12.47.14
हरिं सहस्रशिरसं सहस्रचरणेक्षणम्
प्राहुर्नारायणं देवं यं विश्वस्य परायणम्
MBh 12.47.15
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम्
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि
MBh 12.47.16
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु
MBh 12.47.17
चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम्
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः
MBh 12.47.18
यं देवं देवकी देवी वसुदेवादजीजनत्
भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः
MBh 12.47.19
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम्
इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम्
MBh 12.47.20
पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु
क्षये संकर्षणः प्रोक्तस्तमुपास्यमुपास्महे
MBh 12.47.21
अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम्
अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम्
MBh 12.47.22
यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम्
वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम्
MBh 12.47.23
हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम्
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः
MBh 12.47.24
शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः
MBh 12.47.25
महतस्तमसः पारे पुरुषं ज्वलनद्युतिम्
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः
MBh 12.47.26
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे
यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः
MBh 12.47.27
ऋग्यजुःसामधामानं दशार्धहविराकृतिम्
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः
MBh 12.47.28
यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः
रथंतरबृहत्यक्षस्तस्मै स्तोत्रात्मने नमः
MBh 12.47.29
यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः
हिरण्यवर्णः शकुनिस्तस्मै हंसात्मने नमः
MBh 12.47.30
पदाङ्गं संधिपर्वाणं स्वरव्यञ्जनलक्षणम्
यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः
MBh 12.47.31
यश्चिनोति सतां सेतुमृतेनामृतयोनिना
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः
MBh 12.47.32
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः
MBh 12.47.33
यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः
MBh 12.47.34
यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः
प्राहुः सप्तदशं सांख्यास्तस्मै सांख्यात्मने नमः
MBh 12.47.35
यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः
MBh 12.47.36
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः
MBh 12.47.37
योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः
संभक्षयति भूतानि तस्मै घोरात्मने नमः
MBh 12.47.38
संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत्
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः
MBh 12.47.39
सहस्रशिरसे तस्मै पुरुषायामितात्मने
चतुःसमुद्रपर्याययोगनिद्रात्मने नमः
MBh 12.47.40
अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम्
पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः
MBh 12.47.41
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः
MBh 12.47.42
युगेष्वावर्तते योंऽशैर्दिनर्त्वयनहायनैः
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः
MBh 12.47.43
ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः
पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः
MBh 12.47.44
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः
सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः
MBh 12.47.45
विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः
प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः
MBh 12.47.46
अन्नपानेन्धनमयो रसप्राणविवर्धनः
यो धारयति भूतानि तस्मै प्राणात्मने नमः
MBh 12.47.47
परः कालात्परो यज्ञात्परः सदसतोश्च यः
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः
MBh 12.47.48
यो मोहयति भूतानि स्नेहरागानुबन्धनैः
सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः
MBh 12.47.49
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम्
यं ज्ञानिनोऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः
MBh 12.47.50
अप्रमेयशरीराय सर्वतोऽनन्तचक्षुषे
अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः
MBh 12.47.51
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः
MBh 12.47.52
शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने
भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः
MBh 12.47.53
पञ्चभूतात्मभूताय भूतादिनिधनात्मने
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः
MBh 12.47.54
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः
MBh 12.47.55
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव
अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः
MBh 12.47.56
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु
नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम्
MBh 12.47.57
नमस्ते भगवन्विष्णो लोकानां प्रभवाप्यय
त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः
MBh 12.47.58
तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु
तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम्
MBh 12.47.59
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा
विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः
MBh 12.47.60
अतसीपुष्पसंकाशं पीतवाससमच्युतम्
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम्
MBh 12.47.61
यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः
यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा
MBh 12.47.62
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम
MBh 12.47.63
इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः
MBh 12.47.64
एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः
नम इत्येव कृष्णाय प्रणाममकरोत्तदा
MBh 12.47.65
अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः
त्रैकाल्यदर्शनं ज्ञानं दिव्यं दातुं ययौ हरिः
MBh 12.47.66
तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः
भीष्मं वाग्भिर्बाष्पकण्ठास्तमानर्चुर्महामतिम्
MBh 12.47.67
ते स्तुवन्तश्च विप्राग्र्याः केशवं पुरुषोत्तमम्
भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः
MBh 12.47.68
विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः
सहसोत्थाय संहृष्टो यानमेवान्वपद्यत
MBh 12.47.69
केशवः सात्यकिश्चैव रथेनैकेन जग्मतुः
अपरेण महात्मानौ युधिष्ठिरधनंजयौ
MBh 12.47.70
भीमसेनो यमौ चोभौ रथमेकं समास्थितौ
कृपो युयुत्सुः सूतश्च संजयश्चापरं रथम्
MBh 12.47.71
ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः
नेमिघोषेण महता कम्पयन्तो वसुंधराम्
MBh 12.47.72
ततो गिरः पुरुषवरस्तवान्विता; द्विजेरिताः पथि सुमनाः स शुश्रुवे
कृताञ्जलिं प्रणतमथापरं जनं; स केशिहा मुदितमनाभ्यनन्दत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 46
- Next chapter · Śānti-Parva Ch 48 →
Sources and Connected Readings
Continue from these 72 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.47local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷