🪷 Mahābhārata · Śānti-Parva · Chapter 45

The Book of Peace · the great dharma-śāstra · Parva 12 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 20 Shlokas

MBh 12.45.1
जनमेजय उवाच प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि
MBh 12.45.2
भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि
MBh 12.45.3
वैशंपायन उवाच शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः
MBh 12.45.4
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत्
MBh 12.45.5
ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् सहस्रनिष्कमेकैकं वाचयामास पाण्डवः
MBh 12.45.6
तथानुजीविनो भृत्यान्संश्रितानतिथीनपि कामैः संतर्पयामास कृपणांस्तर्ककानपि
MBh 12.45.7
पुरोहिताय धौम्याय प्रादादयुतशः स गाः धनं सुवर्णं रजतं वासांसि विविधानि च
MBh 12.45.8
कृपाय च महाराज गुरुवृत्तिमवर्तत विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः
MBh 12.45.9
भक्षान्नपानैर्विविधैर्वासोभिः शयनासनैः सर्वान्संतोषयामास संश्रितान्ददतां वरः
MBh 12.45.10
लब्धप्रशमनं कृत्वा स राजा राजसत्तम युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः
MBh 12.45.11
धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च निवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः
MBh 12.45.12
तथा सर्वं स नगरं प्रसाद्य जनमेजय वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः
MBh 12.45.13
ततो महति पर्यङ्के मणिकाञ्चनभूषिते ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम्
MBh 12.45.14
जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम्
MBh 12.45.15
कौस्तुभेन उरःस्थेन मणिनाभिविराजितम् उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम् नौपम्यं विद्यते यस्य त्रिषु लोकेषु किंचन
MBh 12.45.16
सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम् उवाच मधुराभाषः स्मितपूर्वमिदं तदा
MBh 12.45.17
सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत
MBh 12.45.18
तव ह्याश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता
MBh 12.45.19
भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रम जयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम्
MBh 12.45.20
तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम् नोवाच भगवान्किंचिद्ध्यानमेवान्वपद्यत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 20 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.45local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷