🪷 Mahābhārata · Śānti-Parva · Chapter 36
The Book of Peace · the great dharma-śāstra · Parva 12 · 46 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 12.36local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 46 Shlokas
MBh 12.36.1
[वयास]
तपसा कर्मभिश चैव परदानेन च भारत
पुनाति पापं पुरुषः पूतश चेन न परवर्तते
MBh 12.36.2
एककालं तु भुञ्जानश चरन भैक्षं सवकर्मकृत
कपालपाणिः खट्वाङ्गी बरह्म चारी सदॊत्थितः
MBh 12.36.3
अनसूयुर अधः शायी कर्म लॊके परकाशयन
पूर्णैर दवादशभिर वर्षैर बरह्म हा विप्रमुच्यते
MBh 12.36.4
षड्भिर वर्षैः कृच्छ्रभॊजी बरह्म हा पूयते नरः
मासे मासे समश्नंस तु तरिभिर वर्षैः परमुच्यते
MBh 12.36.5
संवत्सरेण मासाशी पूयते नात्र संशयः
तथैवॊपरमन राजन सवल्पेनापि परमुच्यते
MBh 12.36.6
करतुना चाश्वमेधेन पूयते नात्र संशयः
य चास्यावभृथे सनान्ति के चिद एवंविधा नराः
MBh 12.36.7
ते सर्वे पूतपाप्मानॊ भवन्तीति परा शरुतिः
बराह्मणार्थे हतॊ युद्धे मुच्यते बरह्महत्यया
MBh 12.36.8
गवां शतसहस्रं तु पात्रेभ्यः परतिपादयन
बरह्म हा विप्रमुच्येत सर्वपापेभ्य एव च
MBh 12.36.9
कपिलानां सहस्राणि यॊ दद्यात पञ्चविंशतिम
दॊग्ध्रीणां स च पापेभ्यः सर्वेभ्यॊ विप्रमुच्यते
MBh 12.36.10
गॊसहस्रं स वत्सानां दॊग्ध्रीणां पराणसंशये
साधुभ्यॊ वै दरिद्रेभ्यॊ दत्त्वा मुच्येत किल्बिषात
MBh 12.36.11
शतं तै यस तु काम्बॊजान बराह्मणेभ्यः परयच्छति
नियतेभ्यॊ महीपाल स च पापात परमुच्यते
MBh 12.36.12
मनॊरथं तु यॊ दद्याद एकस्मा अपि भारत
न कीर्तयेत दत्त्वा यः स च पापात परमुच्यते
MBh 12.36.13
सुरा पानं सकृत पीत्वा यॊ ऽगनिवर्णां पिबेद दविजः
स पावयत्य अथात्मानम इह लॊके परत्र च
MBh 12.36.14
मेरुप्रपातं परपतञ जवलनं वा समाविशन
महाप्रस्थानम आतिष्ठन मुच्यते सर्वकिल्बिषैः
MBh 12.36.15
बृहस्पतिसवेनेष्ट्वा सुरा पॊ बराह्मणः पुनः
समितिं बराह्मणैर गच्छेद इति वै बराह्मणी शरुतिः
MBh 12.36.16
भूमिप्रदानं कुर्याद यः सुरां पीत्वा विमत्सरः
पुनर न च पिबेद राजन संस्कृतः शुध्यते नरः
MBh 12.36.17
गुरु तल्पी शिलां तप्ताम आयसीम अधिसंविशेत
पाणाव आधाय वा शेफं परव्रजेद ऊर्ध्वदर्शनः
MBh 12.36.18
शरीरस्य विमॊक्षेण मुच्यते कर्मणॊ ऽशुभात
कर्मभ्यॊ विप्रमुच्यन्ते यत्ताः संवत्सरं सत्रियः
MBh 12.36.19
महाव्रतं चरेद यस तु दद्यात सर्वस्वम एव तु
गुर्वर्थे वा हतॊ युद्धे स मुच्येत कर्मणॊ ऽशुभात
MBh 12.36.20
अनृतेनॊपचर्ता च परतिरॊद्धा गुरॊस तथा
उपहृत्य परियं तस्मै तस्मात पापात परमुच्यते
MBh 12.36.21
अवकीर्णि निमित्तं तु बरह्महत्या वरतं चरेत
खरचर्म वासाः षण मासं तथा मुच्येत किल्बिषात
MBh 12.36.22
परदारापहारी च परस्यापहरन वसु
संवत्सरं वरती भूत्वा तथा मुच्येत किल्बिषात
MBh 12.36.23
सतेयं तु यस्यापहरेत तस्मै दद्यात समं वसु
विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात
MBh 12.36.24
कृच्छ्राद दवादश रात्रेण सवभ्यस्तेन दशावरम
परिवेत्ता भवेत पूतः परिवित्तिश च भारत
MBh 12.36.25
निवेश्यं तु भवेत तेन सदा तारयिता पितॄन
न तु सत्रिया भवेद दॊषॊ न तु सा तेन लिप्यते
MBh 12.36.26
भजने हय ऋतुना शुद्धं चातुर्मास्यं विधीयते
सत्रियस तेन विशुध्यन्ति इति धर्मविदॊ विदुः
MBh 12.36.27
सत्रियस तव आशङ्किताः पापैर नॊपगम्या हि जानता
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा
MBh 12.36.28
चतुष्पात सकलॊ धर्मॊ बराह्मणानां विधीयते
पादावकृष्टॊ राजन्ये तथा धर्मॊ विधीयते
MBh 12.36.29
तथा वैश्ये च शूद्रे च पादः पादॊ विधीयते
विद्याद एवंविधेनैषां गुरुलाघव निश्चयम
MBh 12.36.30
तिर्यग्यॊनिवधं कृत्वा दरुमांश छित्त्वेतरान बहून
तरिरात्रं वायुभक्षः सयात कर्म च परथयेन नरः
MBh 12.36.31
अगम्या गमने राजन परायश्चित्तं विधीयते
आर्द्र वस्त्रेण षण मासं विहार्यं भस्मशायिना
MBh 12.36.32
एष एव तु सर्वेषाम अकार्याणां विधिर भवेत
बराह्मणॊक्तेन विधिना दृष्टान्तागमहेतुभिः
MBh 12.36.33
सावित्रीम अप्य अधीयानः शुचौ देशे मिताशनः
अहिंस्रॊ ऽमन्दकॊ ऽजल्पन मुच्यते सर्वकिल्बिषैः
MBh 12.36.34
अहःसु सततं तिष्ठेद अभ्याकाशं निशि सवपेत
तरिर अह्नस तरिर निशायाश च स वासा जलम आविशेत
MBh 12.36.35
सत्री शूद्र पतितांश चापि नाभिभाषेद वरतान्वितः
पापान्य अज्ञानतः कृत्वा मुच्येद एवं वरतॊ दविजः
MBh 12.36.36
शुभाशुभफलं परेत्य लभते भूतसाक्षिकः
अतिरिच्येत तयॊर यत तु तत कर्ता लभते फलम
MBh 12.36.37
तस्माद दानेन तपसा कर्मणा च शुभं फलम
वर्धयेद अशुभं कृत्वा यथा सयाद अतिरेकवान
MBh 12.36.38
कुर्याच छुभानि कर्माणि निमित्ते पापकर्मणाम
दद्यान नित्यं च वित्तानि तथा मुच्येत किल्बिषात
MBh 12.36.39
अनुरूपं हि पापस्य परायश्चित्तम उदाहृतम
महापातक वर्जं तु परायश्चित्तं विधीयते
MBh 12.36.40
भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च
अज्ञानज्ञानयॊ राजन विहितान्य अनुजानते
MBh 12.36.41
जानता तु कृतं पापं गुरु सर्वं भवत्य उत
अज्ञानात सखलिते दॊषे परायश्चित्तं विधीयते
MBh 12.36.42
शक्यते विधिना पापं यथॊक्तेन वयपॊहितुम
आस्तिके शरद्दधाने तु विधिर एष विधीयते
MBh 12.36.43
नास्तिकाश्रद्दधानेषु पुरुषेषु कदा चन
दम्भदॊषप्रधानेषु विधिर एष न दृश्यते
MBh 12.36.44
शिष्टाचारश च शिष्टश च धर्मॊ धर्मभृतां वर
सेवितव्यॊ नरव्याघ्र परेत्य चेह सुखार्थिना
MBh 12.36.45
स राजन मॊक्ष्यसे पापात तेन पूर्वेण हेतुना
तराणार्थं वा वधेनैषाम अथ वा नृप कर्मणा
MBh 12.36.46
अथ वा ते घृणा का चित परायश्चित्तं चरिष्यसि
मा तव एवानार्य जुष्टेन कर्मणा निधनं गमः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 35
- Next chapter · Śānti-Parva Ch 37 →
🪷 जय व्यास भगवान् 🪷