🪷 Mahābhārata · Śānti-Parva · Chapter 35

The Book of Peace · the great dharma-śāstra · Parva 12 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 32 Shlokas

MBh 12.35.1
युधिष्ठिर उवाच कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः किं कृत्वा चैव मुच्येत तन्मे ब्रूहि पितामह
MBh 12.35.2
व्यास उवाच अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् प्रायश्चित्तीयते ह्येवं नरो मिथ्या च वर्तयन्
MBh 12.35.3
सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि
MBh 12.35.4
परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश्च कुत्सकः दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च
MBh 12.35.5
अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा अतीर्थे ब्रह्मणस्त्यागी तीर्थे चाप्रतिपादकः
MBh 12.35.6
ग्रामयाजी च कौन्तेय राज्ञश्च परिविक्रयी शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः
MBh 12.35.7
वृथापशुसमालम्भी वनदाहस्य कारकः अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा
MBh 12.35.8
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः
MBh 12.35.9
अकार्याण्यपि वक्ष्यामि यानि तानि निबोध मे लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु
MBh 12.35.10
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम्
MBh 12.35.11
शरणागतसंत्यागो भृत्यस्याभरणं तथा रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा
MBh 12.35.12
आधानादीनि कर्माणि शक्तिमान्न करोति यः अप्रयच्छंश्च सर्वाणि नित्यं देयानि भारत
MBh 12.35.13
दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम् सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः
MBh 12.35.14
पित्रा विभजते पुत्रो यश्च स्याद्गुरुतल्पगः अप्रजायन्नधर्मेण भवत्याधर्मिको जनः
MBh 12.35.15
उक्तान्येतानि कर्माणि विस्तरेणेतरेण च यानि कुर्वन्नकुर्वंश्च प्रायश्चित्तीयते जनः
MBh 12.35.16
एतान्येव तु कर्माणि क्रियमाणानि मानवान् येषु येषु निमित्तेषु न लिम्पन्त्यथ तच्छृणु
MBh 12.35.17
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत्
MBh 12.35.18
अपि चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते
MBh 12.35.19
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् न तेन ब्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति
MBh 12.35.20
प्राणात्यये तथाज्ञानादाचरन्मदिरामपि अचोदितो धर्मपरः पुनः संस्कारमर्हति
MBh 12.35.21
एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम् प्रायश्चित्तविधानेन सर्वमेतेन शुध्यति
MBh 12.35.22
गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम् उद्दालकः श्वेतकेतुं जनयामास शिष्यतः
MBh 12.35.23
स्तेयं कुर्वंस्तु गुर्वर्थमापत्सु न निबध्यते बहुशः कामकारेण न चेद्यः संप्रवर्तते
MBh 12.35.24
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति स्वयमप्राशिता यश्च न स पापेन लिप्यते
MBh 12.35.25
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वा गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च
MBh 12.35.26
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते
MBh 12.35.27
पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा भिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम्
MBh 12.35.28
वृथापशुसमालम्भं नैव कुर्यान्न कारयेत् अनुग्रहः पशूणां हि संस्कारो विधिचोदितः
MBh 12.35.29
अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम् सकारणं तथा तीर्थेऽतीर्थे वा प्रतिपादनम्
MBh 12.35.30
स्त्रियस्तथापचारिण्यो निष्कृतिः स्याददूषिका अपि सा पूयते तेन न तु भर्ता प्रदुष्यते
MBh 12.35.31
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददूषकः असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् वनदाहो गवामर्थे क्रियमाणो न दूषकः
MBh 12.35.32
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 32 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.35local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷