🪷 Mahābhārata · Śānti-Parva · Chapter 337

The Book of Peace · the great dharma-śāstra · Parva 12 · 69 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Śānti-Parva 320-352 · the Nārāyaṇīyam: Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 69 Shlokas

MBh 12.337.1
जनमेजय उवाच सांख्यं योगं पञ्चरात्रं वेदारण्यकमेव च ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह
MBh 12.337.2
किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम्
MBh 12.337.3
वैशंपायन उवाच जज्ञे बहुज्ञं परमत्युदारं; यं द्वीपमध्ये सुतमात्मवन्तम् पराशराद्गन्धवती महर्षिं; तस्मै नमोऽज्ञानतमोनुदाय
MBh 12.337.4
पितामहाद्यं प्रवदन्ति षष्ठं; महर्षिमार्षेयविभूतियुक्तम् नारायणस्यांशजमेकपुत्रं; द्वैपायनं वेदमहानिधानम्
MBh 12.337.5
तमादिकालेषु महाविभूति;र्नारायणो ब्रह्ममहानिधानम् ससर्ज पुत्रार्थमुदारतेजा; व्यासं महात्मानमजः पुराणः
MBh 12.337.6
जनमेजय उवाच त्वयैव कथितः पूर्वं संभवो द्विजसत्तम वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः
MBh 12.337.7
पराशरस्य दायादः कृष्णद्वैपायनो मुनिः भूयो नारायणसुतं त्वमेवैनं प्रभाषसे
MBh 12.337.8
किमतः पूर्वजं जन्म व्यासस्यामिततेजसः कथयस्वोत्तममते जन्म नारायणोद्भवम्
MBh 12.337.9
वैशंपायन उवाच वेदार्थान्वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः
MBh 12.337.10
कृत्वा भारतमाख्यानं तपःश्रान्तस्य धीमतः शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा
MBh 12.337.11
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा
MBh 12.337.12
एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा
MBh 12.337.13
वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः तमेकमनसं दान्तं युक्ता वयमुपास्महे
MBh 12.337.14
कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा
MBh 12.337.15
स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित् नारायणादिदं जन्म व्याहर्तुमुपचक्रमे
MBh 12.337.16
शृणुध्वमाख्यानवरमेतदार्षेयमुत्तमम् आदिकालोद्भवं विप्रास्तपसाधिगतं मया
MBh 12.337.17
प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे नारायणो महायोगी शुभाशुभविवर्जितः
MBh 12.337.18
ससृजे नाभितः पुत्रं ब्रह्माणममितप्रभम् ततः स प्रादुरभवदथैनं वाक्यमब्रवीत्
MBh 12.337.19
मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः
MBh 12.337.20
स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः प्रणम्य वरदं देवमुवाच हरिमीश्वरम्
MBh 12.337.21
का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते अप्रज्ञावानहं देव विधत्स्व यदनन्तरम्
MBh 12.337.22
स एवमुक्तो भगवान्भूत्वाथान्तर्हितस्ततः चिन्तयामास देवेशो बुद्धिं बुद्धिमतां वरः
MBh 12.337.23
स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम् योगेन चैनां निर्योगः स्वयं नियुयुजे तदा
MBh 12.337.24
स तामैश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम् उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः
MBh 12.337.25
ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा
MBh 12.337.26
अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः भूयश्चैनं वचः प्राह सृजेमा विविधाः प्रजाः
MBh 12.337.27
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत प्राप चैव मुहूर्तेन स्वस्थानं देवसंज्ञितम्
MBh 12.337.28
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् अथास्य बुद्धिरभवत्पुनरन्या तदा किल
MBh 12.337.29
सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना दैत्यदानवगन्धर्वरक्षोगणसमाकुलाः जाता हीयं वसुमती भाराक्रान्ता तपस्विनी
MBh 12.337.30
बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः भविष्यन्ति तपोयुक्ता वरान्प्राप्स्यन्ति चोत्तमान्
MBh 12.337.31
अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः बाधितव्याः सुरगणा ऋषयश्च तपोधनाः तत्र न्याय्यमिदं कर्तुं भारावतरणं मया
MBh 12.337.32
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम् निग्रहेण च पापानां साधूनां प्रग्रहेण च
MBh 12.337.33
इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम् मया ह्येषा हि ध्रियते पातालस्थेन भोगिना
MBh 12.337.34
मया धृता धारयति जगद्धि सचराचरम् तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः
MBh 12.337.35
एवं स चिन्तयित्वा तु भगवान्मधुसूदनः रूपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः
MBh 12.337.36
वाराहं नारसिंहं च वामनं मानुषं तथा एभिर्मया निहन्तव्या दुर्विनीताः सुरारयः
MBh 12.337.37
अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत्
MBh 12.337.38
अपान्तरतमा नाम सुतो वाक्संभवो विभोः भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः
MBh 12.337.39
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर तस्मात्कुरु यथाज्ञप्तं मयैतद्वचनं मुने
MBh 12.337.40
तेन भिन्नास्तदा वेदा मनोः स्वायंभुवेऽन्तरे ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा तपसा च सुतप्तेन यमेन नियमेन च
MBh 12.337.41
श्रीभगवानुवाच मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः
MBh 12.337.42
पुनस्तिष्ये च संप्राप्ते कुरवो नाम भारताः भविष्यन्ति महात्मानो राजानः प्रथिता भुवि
MBh 12.337.43
तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति परस्परविनाशार्थं त्वामृते द्विजसत्तम
MBh 12.337.44
तत्राप्यनेकधा वेदान्भेत्स्यसे तपसान्वितः कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि
MBh 12.337.45
धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे
MBh 12.337.46
वीतरागश्च पुत्रस्ते परमात्मा भविष्यति महेश्वरप्रसादेन नैतद्वचनमन्यथा
MBh 12.337.47
यं मानसं वै प्रवदन्ति पुत्रं; पितामहस्योत्तमबुद्धियुक्तम् वसिष्ठमग्र्यं तपसो निधानं; यश्चापि सूर्यं व्यतिरिच्य भाति
MBh 12.337.48
तस्यान्वये चापि ततो महर्षिः; पराशरो नाम महाप्रभावः पिता स ते वेदनिधिर्वरिष्ठो; महातपा वै तपसो निवासः कानीनगर्भः पितृकन्यकायां; तस्मादृषेस्त्वं भविता च पुत्रः
MBh 12.337.49
भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः
MBh 12.337.50
तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसान्वितः पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान्
MBh 12.337.51
अनादिनिधनं लोके चक्रहस्तं च मां मुने अनुध्यानान्मम मुने नैतद्वचनमन्यथा
MBh 12.337.52
शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान् तस्मिन्मन्वन्तरे चैव सप्तर्षिगणपूर्वकः त्वमेव भविता वत्स मत्प्रसादान्न संशयः
MBh 12.337.53
व्यास उवाच एवं सारस्वतमृषिमपान्तरतमं तदा उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत्
MBh 12.337.54
सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः अपान्तरतमा नाम ततो जातोऽऽज्ञया हरेः पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः
MBh 12.337.55
तदेतत्कथितं जन्म मया पूर्वकमात्मनः नारायणप्रसादेन तथा नारायणांशजम्
MBh 12.337.56
मया हि सुमहत्तप्तं तपः परमदारुणम् पुरा मतिमतां श्रेष्ठाः परमेण समाधिना
MBh 12.337.57
एतद्वः कथितं सर्वं यन्मां पृच्छथ पुत्रकाः पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया
MBh 12.337.58
वैशंपायन उवाच एष ते कथितः पूर्वं संभवोऽस्मद्गुरोर्नृप व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु
MBh 12.337.59
सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै
MBh 12.337.60
सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः
MBh 12.337.61
अपान्तरतमाश्चैव वेदाचार्यः स उच्यते प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन
MBh 12.337.62
उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः
MBh 12.337.63
पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान्स्वयम् सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते
MBh 12.337.64
यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः न चैनमेवं जानन्ति तमोभूता विशां पते
MBh 12.337.65
तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः
MBh 12.337.66
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः ससंशयान्हेतुबलान्नाध्यावसति माधवः
MBh 12.337.67
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै
MBh 12.337.68
सांख्यं च योगं च सनातने द्वे; वेदाश्च सर्वे निखिलेन राजन् सर्वैः समस्तैरृषिभिर्निरुक्तो; नारायणो विश्वमिदं पुराणम्
MBh 12.337.69
शुभाशुभं कर्म समीरितं य;त्प्रवर्तते सर्वलोकेषु किंचित् तस्मादृषेस्तद्भवतीति विद्या;द्दिव्यन्तरिक्षे भुवि चाप्सु चापि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 69 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.337local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷