🪷 Mahābhārata · Śānti-Parva · Chapter 336
The Book of Peace · the great dharma-śāstra · Parva 12 · 82 unique Sanskrit addresses · pinned Critical Edition-derived witness
🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Śānti-Parva 320-352 · the Nārāyaṇīyam: Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā.
The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
- BG 7.7 · sūtre maṇi-gaṇā iva · Krishna names His own posture · "all this is strung on Me as jewels on a thread" · the verse that names this very necklace
- BG 10.8 · Ahaṁ sarvasya prabhavaḥ · Krishna declares Himself the source from which all proceeds · the central declaration of /philosophy
- BG 10.31 · rāmaḥ śastra-bhṛtām aham · Krishna says by His own mouth · "among weapon-bearers I am Rāma" · the BG itself records the non-dual singularity
- BG 4.7-8 · yadā yadā hi dharmasya · The avatāra-promise · "whenever dharma declines, I take birth" · the One who descends as Rāma in Tretā is the same One speaking now as Krishna
- BG 18.66 · the Carama-Śloka · Krishna's final teaching · "abandon all dharmas, take refuge in Me alone" · the surrender-pole sealing the necklace
- Vālmīki Yuddha-Kāṇḍa 6.93.65 · "kṛṣṇa-pakṣa-caturdaśīm" · Mālyavān's pre-war counsel to Rāvaṇa names the dark-fortnight 14th day · the word "Krishna" is operational in Tretā itself · the name pre-exists Krishna-as-person · woven into the eternal lunar pakṣa-substrate
- Vālmīki Yuddha-Kāṇḍa 6.120.16 · the Brahma-Stuti · Brahmā addresses Rāma after Rāvaṇa-vadha · names Him as Viṣṇu AND Krishna by name · the Ādi-Kavi's own declaration of the non-dual
- Vālmīki Yuddha-Kāṇḍa 6.120.29 · the avatāra-rahasya · Brahmā: "Sītā IS Lakṣmī · YOU ARE Viṣṇu · YOU ARE the deva Krishna · You entered human form to slay Rāvaṇa"
- MBh Vana-Parva 258-275 · the Rāmopākhyāna · Vyāsa includes Rāma's complete story (704 verses) inside Krishna's epic · Mārkaṇḍeya narrates to Yudhiṣṭhira · the One there is the One here
See also: /rama (the constitutional non-dual declaration) ·
/philosophy (the theological foundation) ·
/mahabharata ·
/valmiki-ramayana.
The Devanāgarī Yathārtha · 82 Shlokas
MBh 12.336.1
जनमेजय उवाच
अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः
विधिप्रयुक्तां पूजां च गृह्णाति भगवान्स्वयम्
MBh 12.336.2
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः
तेषां त्वयाभिनिर्दिष्टा पारंपर्यागता गतिः
MBh 12.336.3
चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम्
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम्
MBh 12.336.4
नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः
अगत्वा गतयस्तिस्रो यद्गच्छन्त्यव्ययं हरिम्
MBh 12.336.5
सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः
MBh 12.336.6
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम्
केनैष धर्मः कथितो देवेन ऋषिणापि वा
MBh 12.336.7
एकान्तिनां च का चर्या कदा चोत्पादिता विभो
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे
MBh 12.336.8
वैशंपायन उवाच
समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे
अर्जुने विमनस्के च गीता भगवता स्वयम्
MBh 12.336.9
आगतिश्च गतिश्चैव पूर्वं ते कथिता मया
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः
MBh 12.336.10
संमितः सामवेदेन पुरैवादियुगे कृतः
धार्यते स्वयमीशेन राजन्नारायणेन ह
MBh 12.336.11
एतमर्थं महाराज पृष्टः पार्थेन नारदः
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः
MBh 12.336.12
गुरुणा च ममाप्येष कथितो नृपसत्तम
यथा तु कथितस्तत्र नारदेन तथा शृणु
MBh 12.336.13
यदासीन्मानसं जन्म नारायणमुखोद्गतम्
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम्
तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत
MBh 12.336.14
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे
वैखानसाः फेनपेभ्यो धर्ममेतं प्रपेदिरे
वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः
MBh 12.336.15
यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप
तदा पितामहात्सोमादेतं धर्ममजानत
नारायणात्मकं राजन्रुद्राय प्रददौ च सः
MBh 12.336.16
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप
वालखिल्यानृषीन्सर्वान्धर्ममेतमपाठयत्
अन्तर्दधे ततो भूयस्तस्य देवस्य मायया
MBh 12.336.17
तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत्
तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप
MBh 12.336.18
सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात्
तपसा वै सुतप्तेन दमेन नियमेन च
MBh 12.336.19
त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम्
यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्यते
MBh 12.336.20
ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम्
सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः
MBh 12.336.21
वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा
वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः
MBh 12.336.22
तेभ्यो महोदधिश्चैनं प्राप्तवान्धर्ममुत्तमम्
ततः सोऽन्तर्दधे भूयो नारायणसमाहितः
MBh 12.336.23
यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु
MBh 12.336.24
जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम्
चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुः
MBh 12.336.25
अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः सृतः
प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः
MBh 12.336.26
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा
श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत
MBh 12.336.27
धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः
तेन सर्वं कृतयुगं स्थापयस्व यथाविधि
MBh 12.336.28
ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे
धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम्
आरण्यकेन सहितं नारायणमुखोद्गतम्
MBh 12.336.29
उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे
तं कार्तयुगधर्माणं निराशीःकर्मसंज्ञितम्
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम्
MBh 12.336.30
ततोऽथ वरदो देवो ब्रह्मलोकपितामहः
असृजत्स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान्
MBh 12.336.31
ततः प्रावर्तत तदा आदौ कृतयुगं शुभम्
ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः
MBh 12.336.32
तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत्
पूजयामास देवेशं हरिं नारायणं प्रभुम्
MBh 12.336.33
धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः
अध्यापयामास तदा लोकानां हितकाम्यया
MBh 12.336.34
ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप
अध्यापयत्पुराव्यग्रः सर्वलोकपतिर्विभुः
MBh 12.336.35
ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम्
दिशापालं सुधर्माणमध्यापयत भारत
ततः सोऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः
MBh 12.336.36
नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम
धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः
उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस्तदा
MBh 12.336.37
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप
सनत्कुमारादपि च वीरणो वै प्रजापतिः
कृतादौ कुरुशार्दूल धर्ममेतमधीतवान्
MBh 12.336.38
वीरणश्चाप्यधीत्यैनं रौच्याय मनवे ददौ
रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे
MBh 12.336.39
कुक्षिनाम्नेऽथ प्रददौ दिशां पालाय धर्मिणे
ततः सोऽन्तर्दधे भूयो नारायणमुखोद्गतः
MBh 12.336.40
अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये
एष धर्मः समुद्भूतो नारायणमुखात्पुनः
MBh 12.336.41
गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि
अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप
MBh 12.336.42
बर्हिषद्भ्यश्च संक्रान्तः सामवेदान्तगं द्विजम्
ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः
MBh 12.336.43
ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम्
अन्तर्दधे ततो राजन्नेष धर्मः प्रभोर्हरेः
MBh 12.336.44
यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप
तत्रैष धर्मः कथितः स्वयं नारायणेन हि
MBh 12.336.45
पितामहाय शुद्धाय युगादौ लोकधारिणे
पितामहश्च दक्षाय धर्ममेतं पुरा ददौ
MBh 12.336.46
ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम
आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः
MBh 12.336.47
त्रेतायुगादौ च पुनर्विवस्वान्मनवे ददौ
मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ
MBh 12.336.48
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः
गमिष्यति क्षयान्ते च पुनर्नारायणं नृप
MBh 12.336.49
व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम
कथितो हरिगीतासु समासविधिकल्पितः
MBh 12.336.50
नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप
MBh 12.336.51
एवमेष महान्धर्म आद्यो राजन्सनातनः
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा
MBh 12.336.52
धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः
MBh 12.336.53
एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः
त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते
MBh 12.336.54
हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः
MBh 12.336.55
मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम्
एष लोकनिधिर्धीमानेष लोकविसर्गकृत्
MBh 12.336.56
अकर्ता चैव कर्ता च कार्यं कारणमेव च
यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः
MBh 12.336.57
एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम
मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः
एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप
MBh 12.336.58
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दन
अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः
भवेत्कृतयुगप्राप्तिराशीःकर्मविवर्जितैः
MBh 12.336.59
एवं स भगवान्व्यासो गुरुर्मम विशां पते
कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः
MBh 12.336.60
ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः
तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः
MBh 12.336.61
देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम्
यत्र चैकान्तिनो यान्ति नारायणपरायणाः
MBh 12.336.62
जनमेजय उवाच
एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम्
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः
MBh 12.336.63
वैशंपायन उवाच
तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः
सात्त्विकी राजसी चैव तामसी चेति भारत
MBh 12.336.64
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह
सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः
MBh 12.336.65
अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम्
नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः
MBh 12.336.66
मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम्
एकान्तभक्तिः सततं नारायणपरायणः
MBh 12.336.67
मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः
तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः
MBh 12.336.68
जायमानं हि पुरुषं यं पश्येन्मधुसूदनः
सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः
MBh 12.336.69
सांख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः
नारायणात्मके मोक्षे ततो यान्ति परां गतिम्
MBh 12.336.70
नारायणेन दृष्टश्च प्रतिबुद्धो भवेत्पुमान्
एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते
MBh 12.336.71
राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते
तदात्मकं हि पुरुषं जायमानं विशां पते
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम्
MBh 12.336.72
पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः
रजसा तमसा चैव मानुषं समभिप्लुतम्
MBh 12.336.73
कामं देवाश्च ऋषयः सत्त्वस्था नृपसत्तम
हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः
MBh 12.336.74
जनमेजय उवाच
कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम्
MBh 12.336.75
वैशंपायन उवाच
सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः
पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकम्
MBh 12.336.76
एवमेकं सांख्ययोगं वेदारण्यकमेव च
परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते
एष एकान्तिनां धर्मो नारायणपरात्मकः
MBh 12.336.77
यथा समुद्रात्प्रसृता जलौघा;स्तमेव राजन्पुनराविशन्ति
इमे तथा ज्ञानमहाजलौघा; नारायणं वै पुनराविशन्ति
MBh 12.336.78
एष ते कथितो धर्मः सात्वतो यदुबान्धव
कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत
MBh 12.336.79
एवं हि सुमहाभागो नारदो गुरवे मम
श्वेतानां यतिनामाह एकान्तगतिमव्ययाम्
MBh 12.336.80
व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते
स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः
MBh 12.336.81
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम
यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः
MBh 12.336.82
कृष्ण एव हि लोकानां भावनो मोहनस्तथा
संहारकारकश्चैव कारणं च विशां पते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 335
- Next chapter · Śānti-Parva Ch 337 →
Sources and Connected Readings
Continue from these 82 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.336local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷