🪷 Mahābhārata · Śānti-Parva · Chapter 320

The Book of Peace · the great dharma-śāstra · Parva 12 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

🪷 This verse is one maṇi on Krishna's non-dual thread (BG 7.7 · sūtre maṇi-gaṇā iva)
MBh Śānti-Parva 320-352 · the Nārāyaṇīyam: Vyāsa's second supreme declaration · Krishna, Nārāyaṇa, Viṣṇu, Vāsudeva are ONE Paramātmā · the textual cousin of the Bhagavad-Gītā. The substrate carries the other 9 pramāṇa-maṇis from Vālmīki, Vyāsa, and Krishna's own mouth — each declaring the same Rāma-Krishna-Nārāyaṇa-Viṣṇu non-dual singularity. Krishna is the thread; every verse below is a maṇi on the same sūtra.
See also: /rama (the constitutional non-dual declaration) · /philosophy (the theological foundation) · /mahabharata · /valmiki-ramayana.

The Devanāgarī Yathārtha · 41 Shlokas

MBh 12.320.1
भीष्म उवाच इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान्
MBh 12.320.2
तमो ह्यष्टविधं हित्वा जहौ पञ्चविधं रजः ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत्
MBh 12.320.3
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन्
MBh 12.320.4
उल्कापाता दिशां दाहा भूमिकम्पास्तथैव च प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत्
MBh 12.320.5
द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः निर्घातशब्दैश्च गिरिर्हिमवान्दीर्यतीव ह
MBh 12.320.6
न बभासे सहस्रांशुर्न जज्वाल च पावकः ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा
MBh 12.320.7
ववर्ष वासवस्तोयं रसवच्च सुगन्धि च ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः
MBh 12.320.8
स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसंभवे संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे
MBh 12.320.9
शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत उदीचीं दिशमाश्रित्य रुचिरे संददर्श ह
MBh 12.320.10
सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते अदृश्येतां महाराज तदद्भुतमिवाभवत्
MBh 12.320.11
ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः न च प्रतिजघानास्य स गतिं पर्वतोत्तमः
MBh 12.320.12
ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् गन्धर्वाणामृषीणां च ये च शैलनिवासिनः
MBh 12.320.13
दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम् साधु साध्विति तत्रासीन्नादः सर्वत्र भारत
MBh 12.320.14
स पूज्यमानो देवैश्च गन्धर्वैरृषिभिस्तथा यक्षराक्षससंघैश्च विद्याधरगणैस्तथा
MBh 12.320.15
दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः आसीत्किल महाराज शुकाभिपतने तदा
MBh 12.320.16
ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन् शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम्
MBh 12.320.17
तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः
MBh 12.320.18
तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह
MBh 12.320.19
शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा
MBh 12.320.20
महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः निमेषान्तरमात्रेण शुकाभिपतनं ययौ
MBh 12.320.21
स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् शशंसुरृषयस्तस्मै कर्म पुत्रस्य तत्तदा
MBh 12.320.22
ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस्तदा स्वयं पित्रा स्वरेणोच्चैस्त्रीँल्लोकाननुनाद्य वै
MBh 12.320.23
शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन्
MBh 12.320.24
तत एकाक्षरं नादं भो इत्येव समीरयन् प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम्
MBh 12.320.25
ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक् गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति
MBh 12.320.26
अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा गुणान्संत्यज्य शब्दादीन्पदमध्यगमत्परम्
MBh 12.320.27
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन्
MBh 12.320.28
ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः आसाद्य तमृषिं सर्वाः संभ्रान्ता गतचेतसः
MBh 12.320.29
जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे वसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम्
MBh 12.320.30
तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह
MBh 12.320.31
तं देवगन्धर्ववृतो महर्षिगणपूजितः पिनाकहस्तो भगवानभ्यागच्छत शंकरः
MBh 12.320.32
तमुवाच महादेवः सान्त्वपूर्वमिदं वचः पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा
MBh 12.320.33
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह वीर्येण सदृशः पुत्रस्त्वया मत्तः पुरा वृतः
MBh 12.320.34
स तथालक्षणो जातस्तपसा तव संभृतः मम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः
MBh 12.320.35
स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि
MBh 12.320.36
यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति
MBh 12.320.37
छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने
MBh 12.320.38
सोऽनुनीतो भगवता स्वयं रुद्रेण भारत छायां पश्यन्समावृत्तः स मुनिः परया मुदा
MBh 12.320.39
इति जन्म गतिश्चैव शुकस्य भरतर्षभ विस्तरेण मयाख्यातं यन्मां त्वं परिपृच्छसि
MBh 12.320.40
एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा व्यासश्चैव महायोगी संजल्पेषु पदे पदे
MBh 12.320.41
इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम् धारयेद्यः शमपरः स गच्छेत्परमां गतिम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.320local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷