🪷 Mahābhārata · Śānti-Parva · Chapter 315
The Book of Peace · the great dharma-śāstra · Parva 12 · 57 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 57 Shlokas
MBh 12.315.1
भीष्म उवाच
एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः
अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा
MBh 12.315.2
उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम्
तन्नो मनसि संरूढं करिष्यामस्तथा च तत्
MBh 12.315.3
अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः
विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः
MBh 12.315.4
शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने
वेदाननेकधा कर्तुं यदि ते रुचितं विभो
MBh 12.315.5
शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम्
MBh 12.315.6
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते
अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम्
MBh 12.315.7
तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च
MBh 12.315.8
अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन्
संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा
MBh 12.315.9
पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः
MBh 12.315.10
अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान्
तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत्
MBh 12.315.11
तं ददर्शाश्रमपदे नारदः सुमहातपाः
अथैनमब्रवीत्काले मधुराक्षरया गिरा
MBh 12.315.12
भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते
एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव
MBh 12.315.13
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते
रजसा तमसा चैव सोमः सोपप्लवो यथा
MBh 12.315.14
न भ्राजते यथापूर्वं निषादानामिवालयः
देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः
MBh 12.315.15
ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः
विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा
MBh 12.315.16
नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत्
महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण
MBh 12.315.17
एतन्मनोनुकूलं मे भवानर्हति भाषितुम्
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली
MBh 12.315.18
त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम्
तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते
MBh 12.315.19
यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर
वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः
MBh 12.315.20
नारद उवाच
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्
मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम्
MBh 12.315.21
अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता
विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः
MBh 12.315.22
भीष्म उवाच
नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित्
तथेत्युवाच संहृष्टो वेदाभ्यासे दृढव्रतः
MBh 12.315.23
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्
स्वरेणोच्चैः स शैक्षेण लोकानापूरयन्निव
MBh 12.315.24
तयोरभ्यसतोरेवं नानाधर्मप्रवादिनोः
वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः
MBh 12.315.25
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत्
शुको वारितमात्रस्तु कौतूहलसमन्वितः
MBh 12.315.26
अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम्
आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम्
MBh 12.315.27
शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः
अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत्
MBh 12.315.28
दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निर्मलं मनः
तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः
MBh 12.315.29
आदर्शे स्वामिव छायां पश्यस्यात्मानमात्मना
न्यस्यात्मनि स्वयं वेदान्बुद्ध्या समनुचिन्तय
MBh 12.315.30
देवयानचरो विष्णोः पितृयानश्च तामसः
द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः
MBh 12.315.31
पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः
सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः
MBh 12.315.32
तत्र देवगणाः साध्याः समभूवन्महाबलाः
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः
MBh 12.315.33
उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः
अपानश्च ततो ज्ञेयः प्राणश्चापि ततः परम्
MBh 12.315.34
अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः
पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम्
MBh 12.315.35
प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक्
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते
MBh 12.315.36
प्रेरयत्यभ्रसंघातान्धूमजांश्चोष्मजांश्च यः
प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः
MBh 12.315.37
अम्बरे स्नेहमभ्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः
आवहो नाम संवाति द्वितीयः श्वसनो नदन्
MBh 12.315.38
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः
अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः
MBh 12.315.39
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम्
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः
MBh 12.315.40
योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति
उद्वहो नाम वर्षिष्ठस्त्रितीयः स सदागतिः
MBh 12.315.41
समुह्यमाना बहुधा येन नीलाः पृथग्घनाः
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः
MBh 12.315.42
संहता येन चाविद्धा भवन्ति नदतां नदाः
रक्षणार्थाय संभूता मेघत्वमुपयान्ति च
MBh 12.315.43
योऽसौ वहति देवानां विमानानि विहायसा
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः
MBh 12.315.44
येन वेगवता रुग्णा रूक्षेणारुजता रसान्
वायुना विहता मेघा न भवन्ति बलाहकाः
MBh 12.315.45
दारुणोत्पातसंचारो नभसः स्तनयित्नुमान्
पञ्चमः स महावेगो विवहो नाम मारुतः
MBh 12.315.46
यस्मिन्पारिप्लवे दिव्या वहन्त्यापो विहायसा
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति
MBh 12.315.47
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः
योनिरंशुसहस्रस्य येन भाति वसुंधरा
MBh 12.315.48
यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च
षष्ठः परिवहो नाम स वायुर्जवतां वरः
MBh 12.315.49
सर्वप्राणभृतां प्राणान्योऽन्तकाले निरस्यति
यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ
MBh 12.315.50
सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते
MBh 12.315.51
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः
MBh 12.315.52
येन सृष्टः पराभूतो यात्येव न निवर्तते
परावहो नाम परो वायुः स दुरतिक्रमः
MBh 12.315.53
एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः
अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः
MBh 12.315.54
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः
कम्पितः सहसा तेन वायुनाभिप्रवायता
MBh 12.315.55
विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः
सहसोदीर्यते तात जगत्प्रव्यथते तदा
MBh 12.315.56
तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति
वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत्
MBh 12.315.57
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामयात्तदा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 314
- Next chapter · Śānti-Parva Ch 316 →
Sources and Connected Readings
Continue from these 57 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.315local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷