🪷 Mahābhārata · Śānti-Parva · Chapter 316
The Book of Peace · the great dharma-śāstra · Parva 12 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 59 Shlokas
MBh 12.316.1
भीष्म उवाच
एतस्मिन्नन्तरे शून्ये नारदः समुपागमत्
शुकं स्वाध्यायनिरतं वेदार्थान्वक्तुमीप्सितान्
MBh 12.316.2
देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम्
अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत्
MBh 12.316.3
नारदोऽथाब्रवीत्प्रीतो ब्रूहि ब्रह्मविदां वर
केन त्वां श्रेयसा तात योजयामीति हृष्टवत्
MBh 12.316.4
नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत
अस्मिँल्लोके हितं यत्स्यात्तेन मां योक्तुमर्हसि
MBh 12.316.5
नारद उवाच
तत्त्वं जिज्ञासतां पूर्वमृषीणां भावितात्मनाम्
सनत्कुमारो भगवानिदं वचनमब्रवीत्
MBh 12.316.6
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्
MBh 12.316.7
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता
सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम्
MBh 12.316.8
मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति
नालं स दुःखमोक्षाय सङ्गो वै दुःखलक्षणम्
MBh 12.316.9
सक्तस्य बुद्धिश्चलति मोहजालविवर्धिनी
मोहजालावृतो दुःखमिह चामुत्र चाश्नुते
MBh 12.316.10
सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ
MBh 12.316.11
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात्
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः
MBh 12.316.12
आनृशंस्यं परो धर्मः क्षमा च परमं बलम्
आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम्
MBh 12.316.13
सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत्
यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम
MBh 12.316.14
सर्वारम्भफलत्यागी निराशीर्निष्परिग्रहः
येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः
MBh 12.316.15
इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह
असज्जमानः शान्तात्मा निर्विकारः समाहितः
MBh 12.316.16
आत्मभूतैरतद्भूतः सह चैव विनैव च
स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति
MBh 12.316.17
अदर्शनमसंस्पर्शस्तथासंभाषणं सदा
यस्य भूतैः सह मुने स श्रेयो विन्दते परम्
MBh 12.316.18
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत्
नेदं जन्म समासाद्य वैरं कुर्वीत केनचित्
MBh 12.316.19
आकिंचन्यं सुसंतोषो निराशीष्ट्वमचापलम्
एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः
MBh 12.316.20
परिग्रहं परित्यज्य भव तात जितेन्द्रियः
अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम्
MBh 12.316.21
निरामिषा न शोचन्ति त्यजेहामिषमात्मनः
परित्यज्यामिषं सौम्य दुःखतापाद्विमोक्ष्यसे
MBh 12.316.22
तपोनित्येन दान्तेन मुनिना संयतात्मना
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना
MBh 12.316.23
गुणसङ्गेष्वनासक्त एकचर्यारतः सदा
ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम्
MBh 12.316.24
द्वंद्वारामेषु भूतेषु य एको रमते मुनिः
विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति
MBh 12.316.25
शुभैर्लभति देवत्वं व्यामिश्रैर्जन्म मानुषम्
अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः
MBh 12.316.26
तत्र मृत्युजरादुःखैः सततं समभिद्रुतः
संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे
MBh 12.316.27
अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः
अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे
MBh 12.316.28
संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः
कोशकारवदात्मानं वेष्टयन्नावबुध्यसे
MBh 12.316.29
अलं परिग्रहेणेह दोषवान्हि परिग्रहः
कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात्
MBh 12.316.30
पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव
MBh 12.316.31
महाजालसमाकृष्टान्स्थले मत्स्यानिवोद्धृतान्
स्नेहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान्
MBh 12.316.32
कुटुम्बं पुत्रदारं च शरीरं द्रव्यसंचयाः
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम्
MBh 12.316.33
यदा सर्वं परित्यज्य गन्तव्यमवशेन ते
अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठसि
MBh 12.316.34
अविश्रान्तमनालम्बमपाथेयमदैशिकम्
तमःकान्तारमध्वानं कथमेको गमिष्यसि
MBh 12.316.35
न हि त्वा प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति
सुकृतं दुष्कृतं च त्वा यास्यन्तमनुयास्यति
MBh 12.316.36
विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम्
अर्थार्थमनुसार्यन्ते सिद्धार्थस्तु विमुच्यते
MBh 12.316.37
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः
MBh 12.316.38
रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम्
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम्
MBh 12.316.39
क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटाकराम्
त्यागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत्
MBh 12.316.40
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज
MBh 12.316.41
त्यज धर्ममसंकल्पादधर्मं चाप्यहिंसया
उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात्
MBh 12.316.42
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम्
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः
MBh 12.316.43
जराशोकसमाविष्टं रोगायतनमातुरम्
रजस्वलमनित्यं च भूतावासं समुत्सृज
MBh 12.316.44
इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत्
महाभूतात्मकं सर्वं महद्यत्परमाणु यत्
MBh 12.316.45
इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा
इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः
MBh 12.316.46
सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः
पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गुणः
MBh 12.316.47
एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते
त्रिवर्गोऽत्र सुखं दुःखं जीवितं मरणं तथा
MBh 12.316.48
य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ
पाराशर्येह बोद्धव्यं ज्ञानानां यच्च किंचन
MBh 12.316.49
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्
MBh 12.316.50
इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते
लोके विततमात्मानं लोकं चात्मनि पश्यति
MBh 12.316.51
परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा
MBh 12.316.52
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते
ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान्
लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते
MBh 12.316.53
अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम्
अकर्तारममूर्तं च भगवानाह तीर्थवित्
MBh 12.316.54
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः
स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा
MBh 12.316.55
ततः कर्म समादत्ते पुनरन्यन्नवं बहु
तप्यतेऽथ पुनस्तेन भुक्त्वापथ्यमिवातुरः
MBh 12.316.56
अजस्रमेव मोहार्तो दुःखेषु सुखसंज्ञितः
बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा
MBh 12.316.57
ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह
परिभ्रमति संसारं चक्रवद्बहुवेदनः
MBh 12.316.58
स त्वं निवृत्तबन्धस्तु निवृत्तश्चापि कर्मतः
सर्ववित्सर्वजित्सिद्धो भव भावविवर्जितः
MBh 12.316.59
संयमेन नवं बन्धं निवर्त्य तपसो बलात्
संप्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 315
- Next chapter · Śānti-Parva Ch 317 →
Sources and Connected Readings
Continue from these 59 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.316local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷