🪷 Mahābhārata · Śānti-Parva · Chapter 314
The Book of Peace · the great dharma-śāstra · Parva 12 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 49 Shlokas
MBh 12.314.1
भीष्म उवाच
एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः
आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना
MBh 12.314.2
कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः
शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः
MBh 12.314.3
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तदा
हिमवन्तमियाद्द्रष्टुं सिद्धचारणसेवितम्
MBh 12.314.4
तमप्सरोगणाकीर्णं गीतस्वननिनादितम्
किंनराणां समूहैश्च भृङ्गराजैस्तथैव च
MBh 12.314.5
मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः
चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः
राजहंससमूहैश्च हृष्टैः परभृतैस्तथा
MBh 12.314.6
पक्षिराजो गरुत्मांश्च यं नित्यमधिगच्छति
चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा
यत्र नित्यं समायान्ति लोकस्य हितकाम्यया
MBh 12.314.7
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना
यत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः
MBh 12.314.8
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै
यत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा
MBh 12.314.9
योऽन्योऽस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः
यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान्
MBh 12.314.10
सोऽभ्युद्धरत्विमां शक्तिमथ वा कम्पयत्विति
तच्छ्रुत्वा व्यथिता लोकाः क इमामुद्धरेदिति
MBh 12.314.11
अथ देवगणं सर्वं संभ्रान्तेन्द्रियमानसम्
अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम्
किं न्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन्
MBh 12.314.12
स नामृष्यत तं क्षेपमवैक्षत च पावकिम्
स प्रहस्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा
कम्पयामास सव्येन पाणिना पुरुषोत्तमः
MBh 12.314.13
शक्त्यां तु कम्पमानायां विष्णुना बलिना तदा
मेदिनी कम्पिता सर्वा सशैलवनकानना
MBh 12.314.14
शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता
रक्षता स्कन्दराजस्य धर्षणां प्रभविष्णुना
MBh 12.314.15
तां कम्पयित्वा भगवान्प्रह्रादमिदमब्रवीत्
पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति
MBh 12.314.16
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः
जग्राह तां तस्य शक्तिं न चैनामप्यकम्पयत्
MBh 12.314.17
नादं महान्तं मुक्त्वा स मूर्छितो गिरिमूर्धनि
विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः
MBh 12.314.18
यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः
तपोऽतप्यत दुर्धर्षस्तात नित्यं वृषध्वजः
MBh 12.314.19
पावकेन परिक्षिप्तो दीप्यता तस्य चाश्रमः
आदित्यबन्धनं नाम दुर्धर्षमकृतात्मभिः
MBh 12.314.20
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः
दशयोजनविस्तारमग्निज्वालासमावृतम्
MBh 12.314.21
भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान्
सर्वविघ्नान्प्रशमयन्महादेवस्य धीमतः
MBh 12.314.22
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः
देवान्संतापयंस्तत्र महादेवो धृतव्रतः
MBh 12.314.23
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः
विविक्ते पर्वततटे पाराशर्यो महातपाः
वेदानध्यापयामास व्यासः शिष्यान्महातपाः
MBh 12.314.24
सुमन्तुं च महाभागं वैशंपायनमेव च
जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम्
MBh 12.314.25
एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः
तत्राश्रमपदं पुण्यं ददर्श पितुरुत्तमम्
आरणेयो विशुद्धात्मा नभसीव दिवाकरः
MBh 12.314.26
अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम्
ददर्श सुतमायान्तं दिवाकरसमप्रभम्
MBh 12.314.27
असज्जमानं वृक्षेषु शैलेषु विषमेषु च
योगयुक्तं महात्मानं यथा बाणं गुणच्युतम्
MBh 12.314.28
सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः
यथोपजोषं तैश्चापि समागच्छन्महामुनिः
MBh 12.314.29
ततो निवेदयामास पित्रे सर्वमशेषतः
शुको जनकराजेन संवादं प्रीतमानसः
MBh 12.314.30
एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान्
उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः
MBh 12.314.31
ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे
वेदाध्ययनसंपन्नाः शान्तात्मानो जितेन्द्रियाः
MBh 12.314.32
वेदेषु निष्ठां संप्राप्य साङ्गेष्वतितपस्विनः
अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम्
MBh 12.314.33
महता श्रेयसा युक्ता यशसा च स्म वर्धिताः
एकं त्विदानीमिच्छामो गुरुणानुग्रहं कृतम्
MBh 12.314.34
इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाच ह
उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया
MBh 12.314.35
एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः
पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम्
MBh 12.314.36
ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम्
यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम
MBh 12.314.37
काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा
षष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः
MBh 12.314.38
चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः
इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः
MBh 12.314.39
शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित्
पराशरात्मजो धीमान्परलोकार्थचिन्तकः
उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः
MBh 12.314.40
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे भवेत्
ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षति
MBh 12.314.41
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम्
नाशिष्ये संप्रदातव्यो नाव्रते नाकृतात्मनि
MBh 12.314.42
एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः
नापरीक्षितचारित्रे विद्या देया कथंचन
MBh 12.314.43
यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः
परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः
MBh 12.314.44
न नियोज्याश्च वः शिष्या अनियोगे महाभये
यथामति यथापाठं तथा विद्या फलिष्यति
MBh 12.314.45
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु
श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः
MBh 12.314.46
वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम्
स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयंभुवा
MBh 12.314.47
यो निर्वदेत संमोहाद्ब्राह्मणं वेदपारगम्
सोऽपध्यानाद्ब्राह्मणस्य पराभूयादसंशयम्
MBh 12.314.48
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति
MBh 12.314.49
एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति
उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 313
- Next chapter · Śānti-Parva Ch 315 →
Sources and Connected Readings
Continue from these 49 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.314local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷