🪷 Mahābhārata · Śānti-Parva · Chapter 313

The Book of Peace · the great dharma-śāstra · Parva 12 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 51 Shlokas

MBh 12.313.1
भीष्म उवाच ततः स राजा जनको मन्त्रिभिः सह भारत पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च
MBh 12.313.2
आसनं च पुरस्कृत्य रत्नानि विविधानि च शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात्
MBh 12.313.3
स तदासनमादाय बहुरत्नविभूषितम् स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत्
MBh 12.313.4
पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः प्रददौ गुरुपुत्राय शुकाय परमार्चितम्
MBh 12.313.5
तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत् पाद्यं निवेद्य प्रथममर्घ्यं गां च न्यवेदयत् स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि
MBh 12.313.6
प्रतिगृह्य च तां पूजां जनकाद्द्विजसत्तमः गां चैव समनुज्ञाय राजानमनुमान्य च
MBh 12.313.7
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् अनामयं च राजेन्द्र शुकः सानुचरस्य ह
MBh 12.313.8
अनुज्ञातः स तेनाथ निषसाद सहानुगः उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः
MBh 12.313.9
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः किमागमनमित्येव पर्यपृच्छत पार्थिवः
MBh 12.313.10
शुक उवाच पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः विदेहराजो याज्यो मे जनको नाम विश्रुतः
MBh 12.313.11
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम्
MBh 12.313.12
सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि
MBh 12.313.13
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा
MBh 12.313.14
जनक उवाच यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु कृतोपनयनस्तात भवेद्वेदपरायणः
MBh 12.313.15
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो देवतानां पितॄणां चाप्यनृणश्चानसूयकः
MBh 12.313.16
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः
MBh 12.313.17
समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् अनसूयुर्यथान्यायमाहिताग्निस्तथैव च
MBh 12.313.18
उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत् तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः
MBh 12.313.19
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत्
MBh 12.313.20
शुक उवाच उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च
MBh 12.313.21
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप
MBh 12.313.22
जनक उवाच न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत् न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः
MBh 12.313.23
आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत्
MBh 12.313.24
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् पूर्वैराचरितो धर्मश्चातुराश्रम्यसंकथः
MBh 12.313.25
अनेन क्रमयोगेन बहुजातिषु कर्मणा कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते
MBh 12.313.26
भावितैः कारणैश्चायं बहुसंसारयोनिषु आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे
MBh 12.313.27
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः
MBh 12.313.28
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत् सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना
MBh 12.313.29
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि संपश्यन्नोपलिप्येत जले वारिचरो यथा
MBh 12.313.30
पक्षीव प्लवनादूर्ध्वममुत्रानन्त्यमश्नुते विहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः
MBh 12.313.31
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः
MBh 12.313.32
ज्योतिरात्मनि नान्यत्र रतं तत्रैव चैव तत् स्वयं च शक्यं तद्द्रष्टुं सुसमाहितचेतसा
MBh 12.313.33
न बिभेति परो यस्मान्न बिभेति पराच्च यः यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा
MBh 12.313.34
यदा भावं न कुरुते सर्वभूतेषु पापकम् कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
MBh 12.313.35
संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते
MBh 12.313.36
यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् समो भवति निर्द्वंद्वो ब्रह्म संपद्यते तदा
MBh 12.313.37
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति काञ्चनं चायसं चैव सुखदुःखे तथैव च
MBh 12.313.38
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम् जीवितं मरणं चैव ब्रह्म संपद्यते तदा
MBh 12.313.39
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा
MBh 12.313.40
तमःपरिगतं वेश्म यथा दीपेन दृश्यते तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्
MBh 12.313.41
एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर यच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद्भवान्
MBh 12.313.42
ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः गुरोस्तव प्रसादेन तव चैवोपशिक्षया
MBh 12.313.43
तस्यैव च प्रसादेन प्रादुर्भूतं महामुने ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम
MBh 12.313.44
अधिकं तव विज्ञानमधिका च गतिस्तव अधिकं च तवैश्वर्यं तच्च त्वं नावबुध्यसे
MBh 12.313.45
बाल्याद्वा संशयाद्वापि भयाद्वाप्यविमोक्षजात् उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम्
MBh 12.313.46
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः विमुच्य हृदयग्रन्थीनासादयति तां गतिम्
MBh 12.313.47
भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः व्यवसायादृते ब्रह्मन्नासादयति तत्परम्
MBh 12.313.48
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा नौत्सुक्यं नृत्तगीतेषु न राग उपजायते
MBh 12.313.49
न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम् पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम्
MBh 12.313.50
अहं च त्वानुपश्यामि ये चाप्यन्ये मनीषिणः आस्थितं परमं मार्गमक्षयं तमनामयम्
MBh 12.313.51
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 51 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.313local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷