🪷 Mahābhārata · Śānti-Parva · Chapter 312
The Book of Peace · the great dharma-śāstra · Parva 12 · 46 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 46 Shlokas
MBh 12.312.1
भीष्म उवाच
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात्
प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः
MBh 12.312.2
मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे
यथा मे मनसः शान्तिः परमा संभवेत्प्रभो
MBh 12.312.3
श्रुत्वा पुत्रस्य वचनं परमर्षिरुवाच तम्
अधीष्व पुत्र मोक्षं वै धर्मांश्च विविधानपि
MBh 12.312.4
पितुर्नियोगाज्जग्राह शुको ब्रह्मविदां वरः
योगशास्त्रं च निखिलं कापिलं चैव भारत
MBh 12.312.5
स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम्
मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम्
MBh 12.312.6
उवाच गच्छेति तदा जनकं मिथिलेश्वरम्
स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः
MBh 12.312.7
पितुर्नियोगादगमन्मैथिलं जनकं नृपम्
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम्
MBh 12.312.8
उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः
न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै
MBh 12.312.9
आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा
नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः
MBh 12.312.10
अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे
स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम्
MBh 12.312.11
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः
याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया
MBh 12.312.12
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः
पद्भ्यां शक्तोऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम्
MBh 12.312.13
स गिरींश्चाप्यतिक्रम्य नदीस्तीर्त्वा सरांसि च
बहुव्यालमृगाकीर्णा विविधाश्चाटवीस्तथा
MBh 12.312.14
मेरोर्हरेश्च द्वे वर्षे वर्षं हैमवतं तथा
क्रमेणैव व्यतिक्रम्य भारतं वर्षमासदत्
MBh 12.312.15
स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान्
आर्यावर्तमिमं देशमाजगाम महामुनिः
MBh 12.312.16
पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन्
अध्वानं सोऽतिचक्राम खेऽचरः खे चरन्निव
MBh 12.312.17
पत्तनानि च रम्याणि स्फीतानि नगराणि च
रत्नानि च विचित्राणि शुकः पश्यन्न पश्यति
MBh 12.312.18
उद्यानानि च रम्याणि तथैवायतनानि च
पुण्यानि चैव तीर्थानि सोऽतिक्रम्य तथाध्वनः
MBh 12.312.19
सोऽचिरेणैव कालेन विदेहानाससाद ह
रक्षितान्धर्मराजेन जनकेन महात्मना
MBh 12.312.20
तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान्
पल्लीघोषान्समृद्धांश्च बहुगोकुलसंकुलान्
MBh 12.312.21
स्फीतांश्च शालियवसैर्हंससारससेवितान्
पद्मिनीभिश्च शतशः श्रीमतीभिरलंकृतान्
MBh 12.312.22
स विदेहानतिक्रम्य समृद्धजनसेवितान्
मिथिलोपवनं रम्यमाससाद महर्द्धिमत्
MBh 12.312.23
हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम्
पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः
MBh 12.312.24
मनसा तं वहन्भारं तमेवार्थं विचिन्तयन्
आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह
MBh 12.312.25
तस्या द्वारं समासाद्य द्वारपालैर्निवारितः
स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह
MBh 12.312.26
स राजमार्गमासाद्य समृद्धजनसंकुलम्
पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह
MBh 12.312.27
तत्रापि द्वारपालास्तमुग्रवाचो न्यषेधयन्
तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत
MBh 12.312.28
न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः
प्रताम्यति ग्लायति वा नापैति च तथातपात्
MBh 12.312.29
तेषां तु द्वारपालानामेकः शोकसमन्वितः
मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम्
MBh 12.312.30
पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः
प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः
MBh 12.312.31
तत्रासीनः शुकस्तात मोक्षमेवानुचिन्तयन्
छायायामातपे चैव समदर्शी महाद्युतिः
MBh 12.312.32
तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः
प्रावेशयत्ततः कक्ष्यां तृतीयां राजवेश्मनः
MBh 12.312.33
तत्रान्तःपुरसंबद्धं महच्चैत्ररथोपमम्
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम्
MBh 12.312.34
तद्दर्शयित्वा स शुकं मन्त्री काननमुत्तमम्
अर्हमासनमादिश्य निश्चक्राम ततः पुनः
MBh 12.312.35
तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः
MBh 12.312.36
संलापोल्लापकुशला नृत्तगीतविशारदाः
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः
MBh 12.312.37
कामोपचारकुशला भावज्ञाः सर्वकोविदाः
परं पञ्चाशतो नार्यो वारमुख्याः समाद्रवन्
MBh 12.312.38
पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च
देशकालोपपन्नेन साध्वन्नेनाप्यतर्पयन्
MBh 12.312.39
तस्य भुक्तवतस्तात तदन्तःपुरकाननम्
सुरम्यं दर्शयामासुरेकैकश्येन भारत
MBh 12.312.40
क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चैव ताः शुकम्
उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस्तदा
MBh 12.312.41
आरणेयस्तु शुद्धात्मा त्रिसंदेहस्त्रिकर्मकृत्
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति
MBh 12.312.42
तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम्
स्पर्ध्यास्तरणसंस्तीर्णं ददुस्ताः परमस्त्रियः
MBh 12.312.43
पादशौचं तु कृत्वैव शुकः संध्यामुपास्य च
निषसादासने पुण्ये तमेवार्थं विचिन्तयन्
MBh 12.312.44
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः
मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः
MBh 12.312.45
ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम्
स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत
MBh 12.312.46
अनेन विधिना कार्ष्णिस्तदहःशेषमच्युतः
तां च रात्रिं नृपकुले वर्तयामास भारत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 311
- Next chapter · Śānti-Parva Ch 313 →
Sources and Connected Readings
Continue from these 46 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.312local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷