🪷 Mahābhārata · Śānti-Parva · Chapter 311
The Book of Peace · the great dharma-śāstra · Parva 12 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 27 Shlokas
MBh 12.311.1
भीष्म उवाच
स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः
अरणीं त्वथ संगृह्य ममन्थाग्निचिकीर्षया
MBh 12.311.2
अथ रूपं परं राजन्बिभ्रतीं स्वेन तेजसा
घृताचीं नामाप्सरसमपश्यद्भगवानृषिः
MBh 12.311.3
ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः
अभवद्भगवान्व्यासो वने तस्मिन्युधिष्ठिर
MBh 12.311.4
सा च कृत्वा तदा व्यासं कामसंविग्नमानसम्
शुकी भूत्वा महाराज घृताची समुपागमत्
MBh 12.311.5
स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम्
शरीरजेनानुगतः सर्वगात्रातिगेन ह
MBh 12.311.6
स तु धैर्येण महता निगृह्णन्हृच्छयं मुनिः
न शशाक नियन्तुं तद्व्यासः प्रविसृतं मनः
भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः
MBh 12.311.7
यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया
अरण्यामेव सहसा तस्य शुक्रमवापतत्
MBh 12.311.8
सोऽविशङ्केन मनसा तथैव द्विजसत्तमः
अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप
MBh 12.311.9
शुक्रे निर्मथ्यमाने तु शुको जज्ञे महातपाः
परमर्षिर्महायोगी अरणीगर्भसंभवः
MBh 12.311.10
यथाध्वरे समिद्धोऽग्निर्भाति हव्यमुपात्तवान्
तथारूपः शुको जज्ञे प्रज्वलन्निव तेजसा
MBh 12.311.11
बिभ्रत्पितुश्च कौरव्य रूपवर्णमनुत्तमम्
बभौ तदा भावितात्मा विधूमोऽग्निरिव ज्वलन्
MBh 12.311.12
तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर
स्वरूपिणी तदाभ्येत्य स्नापयामास वारिणा
MBh 12.311.13
अन्तरिक्षाच्च कौरव्य दण्डः कृष्णाजिनं च ह
पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः
MBh 12.311.14
जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः
देवदुन्दुभयश्चैव प्रावाद्यन्त महास्वनाः
MBh 12.311.15
विश्वावसुश्च गन्धर्वस्तथा तुम्बुरुनारदौ
हाहाहूहू च गन्धर्वौ तुष्टुवुः शुकसंभवम्
MBh 12.311.16
तत्र शक्रपुरोगाश्च लोकपालाः समागताः
देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च
MBh 12.311.17
दिव्यानि सर्वपुष्पाणि प्रववर्षात्र मारुतः
जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत्
MBh 12.311.18
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः
जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा
MBh 12.311.19
तस्य देवेश्वरः शक्रो दिव्यमद्भुतदर्शनम्
ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो
MBh 12.311.20
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः
प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च भारत
MBh 12.311.21
आरणेयस्तथा दिव्यं प्राप्य जन्म महाद्युतिः
तत्रैवोवास मेधावी व्रतचारी समाहितः
MBh 12.311.22
उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः
उपतस्थुर्महाराज यथास्य पितरं तथा
MBh 12.311.23
बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित्
उपाध्यायं महाराज धर्ममेवानुचिन्तयन्
MBh 12.311.24
सोऽधीत्य वेदानखिलान्सरहस्यान्ससंग्रहान्
इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभो
MBh 12.311.25
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः
उग्रं तपः समारेभे ब्रह्मचारी समाहितः
MBh 12.311.26
देवतानामृषीणां च बाल्येऽपि स महातपाः
संमन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा
MBh 12.311.27
न त्वस्य रमते बुद्धिराश्रमेषु नराधिप
त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 310
- Next chapter · Śānti-Parva Ch 312 →
Sources and Connected Readings
Continue from these 27 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.311local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷