🪷 Mahābhārata · Śānti-Parva · Chapter 31

The Book of Peace · the great dharma-śāstra · Parva 12 · 47 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 47 Shlokas

MBh 12.31.1
वैशंपायन उवाच ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसंभवम्
MBh 12.31.2
एवमुक्तः स च मुनिर्धर्मराजेन नारदः आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति
MBh 12.31.3
एवमेतन्महाराज यथायं केशवोऽब्रवीत् कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः
MBh 12.31.4
अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः वस्तुकामावभिगतौ सृञ्जयं जयतां वरम्
MBh 12.31.5
तत्र संपूजितौ तेन विधिदृष्टेन कर्मणा सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि
MBh 12.31.6
व्यतिक्रान्तासु वर्षासु समये गमनस्य च पर्वतो मामुवाचेदं काले वचनमर्थवत्
MBh 12.31.7
आवामस्य नरेन्द्रस्य गृहे परमपूजितौ उषितौ समये ब्रह्मंश्चिन्त्यतामत्र सांप्रतम्
MBh 12.31.8
ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम् सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते
MBh 12.31.9
वरेण छन्द्यतां राजा लभतां यद्यदिच्छति आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे
MBh 12.31.10
तत आहूय राजानं सृञ्जयं शुभदर्शनम् पर्वतोऽनुमतं वाक्यमुवाच मुनिपुंगवः
MBh 12.31.11
प्रीतौ स्वो नृप सत्कारैस्तव ह्यार्जवसंभृतैः आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय
MBh 12.31.12
देवानामविहिंसायां यद्भवेन्मानुषक्षमम् तद्गृहाण महाराज पूजार्हो नौ मतो भवान्
MBh 12.31.13
सृञ्जय उवाच प्रीतौ भवन्तौ यदि मे कृतमेतावता मम एष एव परो लाभो निर्वृत्तो मे महाफलः
MBh 12.31.14
नारद उवाच तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत वृणीष्व राजन्संकल्पो यस्ते हृदि चिरं स्थितः
MBh 12.31.15
सृञ्जय उवाच अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम् आयुष्मन्तं महाभागं देवराजसमद्युतिम्
MBh 12.31.16
पर्वत उवाच भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति देवराजाभिभूत्यर्थं संकल्पो ह्येष ते हृदि
MBh 12.31.17
सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति रक्ष्यश्च देवराजात्स देवराजसमद्युतिः
MBh 12.31.18
नारद उवाच तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः प्रसादयामास तदा नैतदेवं भवेदिति
MBh 12.31.19
आयुष्मान्मे भवेत्पुत्रो भवतस्तपसा मुने न च तं पर्वतः किंचिदुवाचेन्द्रव्यपेक्षया
MBh 12.31.20
तमहं नृपतिं दीनमब्रुवं पुनरेव तु स्मर्तव्योऽहं महाराज दर्शयिष्यामि ते स्मृतः
MBh 12.31.21
अहं ते दयितं पुत्रं प्रेतराजवशं गतम् पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते
MBh 12.31.22
एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम् सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम्
MBh 12.31.23
सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव
MBh 12.31.24
ववृधे स यथाकालं सरसीव महोत्पलम् बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत्
MBh 12.31.25
तदद्भुततमं लोके पप्रथे कुरुसत्तम बुबुधे तच्च देवेन्द्रो वरदानं महात्मनोः
MBh 12.31.26
ततस्त्वभिभवाद्भीतो बृहस्पतिमते स्थितः कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा
MBh 12.31.27
चोदयामास वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम् व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो
MBh 12.31.28
विवृद्धः किल वीर्येण मामेषोऽभिभविष्यति सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ
MBh 12.31.29
एवमुक्तस्तु शक्रेण वज्रः परपुरंजयः कुमारस्यान्तरप्रेक्षी नित्यमेवान्वपद्यत
MBh 12.31.30
सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम् हृष्टः सान्तःपुरो राजा वननित्योऽभवत्तदा
MBh 12.31.31
ततो भागीरथीतीरे कदाचिद्वननिर्झरे धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत
MBh 12.31.32
पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः सहसोत्पतितं व्याघ्रमाससाद महाबलः
MBh 12.31.33
तेन चैव विनिष्पिष्टो वेपमानो नृपात्मजः व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे
MBh 12.31.34
हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत शार्दूलो देवराजस्य माययान्तर्हितस्तदा
MBh 12.31.35
धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत् अभ्यधावत तं देशं स्वयमेव महीपतिः
MBh 12.31.36
स ददर्श गतासुं तं शयानं पीतशोणितम् कुमारं विगतानन्दं निशाकरमिव च्युतम्
MBh 12.31.37
स तमुत्सङ्गमारोप्य परिपीडितवक्षसम् पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः
MBh 12.31.38
ततस्ता मातरस्तस्य रुदन्त्यः शोककर्शिताः अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः
MBh 12.31.39
ततः स राजा सस्मार मामन्तर्गतमानसः तच्चाहं चिन्तितं ज्ञात्वा गतवांस्तस्य दर्शनम्
MBh 12.31.40
स मयैतानि वाक्यानि श्रावितः शोकलालसः यानि ते यदुवीरेण कथितानि महीपते
MBh 12.31.41
संजीवितश्चापि मया वासवानुमते तदा भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा
MBh 12.31.42
अत ऊर्ध्वं कुमारः स स्वर्णष्ठीवी महायशाः चित्तं प्रसादयामास पितुर्मातुश्च वीर्यवान्
MBh 12.31.43
कारयामास राज्यं स पितरि स्वर्गते विभुः वर्षाणामेकशतवत्सहस्रं भीमविक्रमः
MBh 12.31.44
तत इष्ट्वा महायज्ञैर्बहुभिर्भूरिदक्षिणैः तर्पयामास देवांश्च पितॄंश्चैव महाद्युतिः
MBh 12.31.45
उत्पाद्य च बहून्पुत्रान्कुलसंतानकारिणः कालेन महता राजन्कालधर्ममुपेयिवान्
MBh 12.31.46
स त्वं राजेन्द्र संजातं शोकमेतन्निवर्तय यथा त्वां केशवः प्राह व्यासश्च सुमहातपाः
MBh 12.31.47
पितृपैतामहं राज्यमास्थाय दुरमुद्वह इष्ट्वा पुण्यैर्महायज्ञैरिष्टाँल्लोकानवाप्स्यसि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 47 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.31local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷