🪷 Mahābhārata · Śānti-Parva · Chapter 30
The Book of Peace · the great dharma-śāstra · Parva 12 · 42 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 42 Shlokas
MBh 12.30.1
युधिष्ठिर उवाच
स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत्
पर्वतेन किमर्थं च दत्तः केन ममार च
MBh 12.30.2
यदा वर्षसहस्रायुस्तदा भवति मानवः
कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः
MBh 12.30.3
उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत्
तथ्यं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम्
MBh 12.30.4
वासुदेव उवाच
अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर
नारदः पर्वतश्चैव प्रागृषी लोकपूजितौ
MBh 12.30.5
मातुलो भागिनेयश्च देवलोकादिहागतौ
विहर्तुकामौ संप्रीत्या मानुष्येषु पुरा प्रभू
MBh 12.30.6
हविःपवित्रभोज्येन देवभोज्येन चैव ह
नारदो मातुलश्चैव भागिनेयश्च पर्वतः
MBh 12.30.7
तावुभौ तपसोपेताववनीतलचारिणौ
भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम्
MBh 12.30.8
प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः
यो भवेद्धृदि संकल्पः शुभो वा यदि वाशुभः
अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत्
MBh 12.30.9
तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ
सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः
MBh 12.30.10
आवां भवति वत्स्यावः कंचित्कालं हिताय ते
यथावत्पृथिवीपाल आवयोः प्रगुणीभव
तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह
MBh 12.30.11
ततः कदाचित्तौ राजा महात्मानौ तथागतौ
अब्रवीत्परमप्रीतः सुतेयं वरवर्णिनी
MBh 12.30.12
एकैव मम कन्यैषा युवां परिचरिष्यति
दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता
सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा
MBh 12.30.13
परमं सौम्य इत्युक्तस्ताभ्यां राजा शशास ताम्
कन्ये विप्रावुपचर देववत्पितृवच्च ह
MBh 12.30.14
सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी
यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह
MBh 12.30.15
तस्यास्तथोपचारेण रूपेणाप्रतिमेन च
नारदं हृच्छयस्तूर्णं सहसैवान्वपद्यत
MBh 12.30.16
ववृधे च ततस्तस्य हृदि कामो महात्मनः
यथा शुक्लस्य पक्षस्य प्रवृत्तावुडुराट्छनैः
MBh 12.30.17
न च तं भागिनेयाय पर्वताय महात्मने
शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित्
MBh 12.30.18
तपसा चेङ्गितेनाथ पर्वतोऽथ बुबोध तत्
कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम्
MBh 12.30.19
कृत्वा समयमव्यग्रो भवान्वै सहितो मया
यो भवेद्धृदि संकल्पः शुभो वा यदि वाशुभः
MBh 12.30.20
अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम्
भवता वचनं ब्रह्मंस्तस्मादेतद्वदाम्यहम्
MBh 12.30.21
न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा
सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम्
MBh 12.30.22
ब्रह्मवादी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन्
अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः
MBh 12.30.23
शप्स्ये तस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे
सुकुमारी च ते भार्या भविष्यति न संशयः
MBh 12.30.24
वानरं चैव कन्या त्वां विवाहात्प्रभृति प्रभो
संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम्
MBh 12.30.25
स तद्वाक्यं तु विज्ञाय नारदः पर्वतात्तदा
अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः
MBh 12.30.26
तपसा ब्रह्मचर्येण सत्येन च दमेन च
युक्तोऽपि धर्मनित्यश्च न स्वर्गवासमाप्स्यसि
MBh 12.30.27
तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ
प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ
MBh 12.30.28
पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः
पूज्यमानो यथान्यायं तेजसा स्वेन भारत
MBh 12.30.29
अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम्
धर्मेण धर्मप्रवरः सुकुमारीमनिन्दिताम्
MBh 12.30.30
सा तु कन्या यथाशापं नारदं तं ददर्श ह
पाणिग्रहणमन्त्राणां प्रयोगादेव वानरम्
MBh 12.30.31
सुकुमारी च देवर्षिं वानरप्रतिमाननम्
नैवावमन्यत तदा प्रीतिमत्येव चाभवत्
MBh 12.30.32
उपतस्थे च भर्तारं न चान्यं मनसाप्यगात्
देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला
MBh 12.30.33
ततः कदाचिद्भगवान्पर्वतोऽनुससार ह
वनं विरहितं किंचित्तत्रापश्यत्स नारदम्
MBh 12.30.34
ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा
भवान्प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो
MBh 12.30.35
तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तदा
कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम्
MBh 12.30.36
त्वयाहं प्रथमं शप्तो वानरस्त्वं भविष्यसि
इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात्
अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह
MBh 12.30.37
तव नैतद्धि सदृशं पुत्रस्थाने हि मे भवान्
निवर्तयेतां तौ शापमन्योऽन्येन तदा मुनी
MBh 12.30.38
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम्
सुकुमारी प्रदुद्राव परपत्यभिशङ्कया
MBh 12.30.39
तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम्
अब्रवीत्तव भर्तैष नात्र कार्या विचारणा
MBh 12.30.40
ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः
तवैवाभेद्यहृदयो मा ते भूदत्र संशयः
MBh 12.30.41
सानुनीता बहुविधं पर्वतेन महात्मना
शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता
पर्वतोऽथ ययौ स्वर्गं नारदोऽथ ययौ गृहान्
MBh 12.30.42
प्रत्यक्षकर्मा सर्वस्य नारदोऽयं महानृषिः
एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 29
- Next chapter · Śānti-Parva Ch 31 →
Sources and Connected Readings
Continue from these 42 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.30local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷