🪷 Mahābhārata · Śānti-Parva · Chapter 29

The Book of Peace · the great dharma-śāstra · Parva 12 · 141 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 141 Shlokas

MBh 12.29.1
वैशंपायन उवाच अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः
MBh 12.29.2
ज्ञातिशोकाभिसंतप्तो धर्मराजः परंतपः एष शोकार्णवे मग्नस्तमाश्वासय माधव
MBh 12.29.3
सर्वे स्म ते संशयिताः पुनरेव जनार्दन अस्य शोकं महाबाहो प्रणाशयितुमर्हसि
MBh 12.29.4
एवमुक्तस्तु गोविन्दो विजयेन महात्मना पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः
MBh 12.29.5
अनतिक्रमणीयो हि धर्मराजस्य केशवः बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात्
MBh 12.29.6
संप्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन्
MBh 12.29.7
शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् व्याकोशमिव विस्पष्टं पद्मं सूर्यविबोधितम्
MBh 12.29.8
मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् न हि ते सुलभा भूयो ये हतास्मिन्रणाजिरे
MBh 12.29.9
स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने एवं ते क्षत्रिया राजन्ये व्यतीता महारणे
MBh 12.29.10
सर्वे ह्यभिमुखाः शूरा विगता रणशोभिनः नैषां कश्चित्पृष्ठतो वा पलायन्वापि पातितः
MBh 12.29.11
सर्वे त्यक्त्वात्मनः प्राणान्युद्ध्वा वीरा महाहवे शस्त्रपूता दिवं प्राप्ता न ताञ्शोचितुमर्हसि
MBh 12.29.12
अत्रैवोदाहरन्तीममितिहासं पुरातनम् सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः
MBh 12.29.13
सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय अविमुक्तं चरिष्यामस्तत्र का परिदेवना
MBh 12.29.14
महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु गच्छावधानं नृपते ततो दुःखं प्रहास्यसि
MBh 12.29.15
मृतान्महानुभावांस्त्वं श्रुत्वैव तु महीपतीन् श्रुत्वापनय संतापं शृणु विस्तरशश्च मे
MBh 12.29.16
आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः
MBh 12.29.17
यः स्पर्धामनयच्छक्रं देवराजं शतक्रतुम् शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः संवर्तो याजयामास यं पीडार्थं बृहस्पतेः
MBh 12.29.18
यस्मिन्प्रशासति सतां नृपतौ नृपसत्तम अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी
MBh 12.29.19
आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः
MBh 12.29.20
मरुद्गणा मरुत्तस्य यत्सोममपिबन्त ते देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः
MBh 12.29.21
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.22
सुहोत्रं चेद्वैतिथिनं मृतं सृञ्जय शुश्रुम यस्मै हिरण्यं ववृषे मघवान्परिवत्सरम्
MBh 12.29.23
सत्यनामा वसुमती यं प्राप्यासीज्जनाधिप हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे
MBh 12.29.24
कूर्मान्कर्कटकान्नक्रान्मकराञ्शिंशुकानपि नदीष्वपातयद्राजन्मघवा लोकपूजितः
MBh 12.29.25
हैरण्यान्पतितान्दृष्ट्वा मत्स्यान्मकरकच्छपान् सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः
MBh 12.29.26
तद्धिरण्यमपर्यन्तमावृत्तं कुरुजाङ्गले ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः
MBh 12.29.27
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः अदक्षिणमयज्वानं श्वैत्य संशाम्य मा शुचः
MBh 12.29.28
अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत्
MBh 12.29.29
सहस्रं च सहस्राणां कन्या हेमविभूषिताः ईजानो वितते यज्ञे दक्षिणामत्यकालयत्
MBh 12.29.30
शतं शतसहस्राणां वृषाणां हेममालिनाम् गवां सहस्रानुचरं दक्षिणामत्यकालयत्
MBh 12.29.31
अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः
MBh 12.29.32
यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुनः देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः
MBh 12.29.33
न जातो जनिता चान्यः पुमान्यस्तत्प्रदास्यति यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु
MBh 12.29.34
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.35
शिबिमौशीनरं चैव मृतं शुश्रुम सृञ्जय य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत्
MBh 12.29.36
महता रथघोषेण पृथिवीमनुनादयन् एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः
MBh 12.29.37
यावदद्य गवाश्वं स्यादारण्यैः पशुभिः सह तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे
MBh 12.29.38
नोद्यन्तारं धुरं तस्य कंचिन्मेने प्रजापतिः न भूतं न भविष्यन्तं सर्वराजसु भारत अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात्
MBh 12.29.39
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः अदक्षिणमयज्वानं तं वै संशाम्य मा शुचः
MBh 12.29.40
भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम्
MBh 12.29.41
यो बद्ध्वा त्रिंशतो ह्यश्वान्देवेभ्यो यमुनामनु सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश
MBh 12.29.42
अश्वमेधसहस्रेण राजसूयशतेन च इष्टवान्स महातेजा दौःषन्तिर्भरतः पुरा
MBh 12.29.43
भरतस्य महत्कर्म सर्वराजसु पार्थिवाः खं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन्
MBh 12.29.44
परं सहस्राद्यो बद्ध्वा हयान्वेदीं विचित्य च सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ
MBh 12.29.45
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.46
रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान्
MBh 12.29.47
विधवा यस्य विषये नानाथाः काश्चनाभवन् सर्वस्यासीत्पितृसमो रामो राज्यं यदान्वशात्
MBh 12.29.48
कालवर्षाश्च पर्जन्याः सस्यानि रसवन्ति च नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति
MBh 12.29.49
प्राणिनो नाप्सु मज्जन्ति नानर्थे पावकोऽदहत् न व्यालजं भयं चासीद्रामे राज्यं प्रशासति
MBh 12.29.50
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिकाः अरोगाः सर्वसिद्धार्थाः प्रजा रामे प्रशासति
MBh 12.29.51
नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति
MBh 12.29.52
नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति
MBh 12.29.53
स चतुर्दश वर्षाणि वने प्रोष्य महातपाः दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान्
MBh 12.29.54
श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः दश वर्षसहस्राणि रामो राज्यमकारयत्
MBh 12.29.55
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.56
भगीरथं च राजानं मृतं शुश्रुम सृञ्जय यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः
MBh 12.29.57
असुराणां सहस्राणि बहूनि सुरसत्तमः अजयद्बाहुवीर्येण भगवान्पाकशासनः
MBh 12.29.58
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः ईजानो वितते यज्ञे दक्षिणामत्यकालयत्
MBh 12.29.59
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः रथे रथे शतं नागाः पद्मिनो हेममालिनः
MBh 12.29.60
सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम्
MBh 12.29.61
उपह्वरे निवसतो यस्याङ्के निषसाद ह गङ्गा भागीरथी तस्मादुर्वशी ह्यभवत्पुरा
MBh 12.29.62
भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम् त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी
MBh 12.29.63
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.64
दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः
MBh 12.29.65
इमां वै वसुसंपन्नां वसुधां वसुधाधिपः ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः
MBh 12.29.66
तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत्
MBh 12.29.67
यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन्
MBh 12.29.68
चषालो यस्य सौवर्णस्तस्मिन्यूपे हिरण्मये ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा
MBh 12.29.69
अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम् सर्वभूतान्यमन्यन्त मम वादयतीत्ययम्
MBh 12.29.70
एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे यत्स्त्रियो हेमसंपन्नाः पथि मत्ताः स्म शेरते
MBh 12.29.71
राजानमुग्रधन्वानं दिलीपं सत्यवादिनम् येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः
MBh 12.29.72
त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने स्वाध्यायघोषो ज्याघोषो दीयतामिति चैव हि
MBh 12.29.73
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.74
मान्धातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन्
MBh 12.29.75
संवृद्धो युवनाश्वस्य जठरे यो महात्मनः पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः
MBh 12.29.76
यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै
MBh 12.29.77
मामेव धास्यतीत्येवमिन्द्रो अभ्यवपद्यत मान्धातेति ततस्तस्य नाम चक्रे शतक्रतुः
MBh 12.29.78
ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत्
MBh 12.29.79
तं पिबन्पाणिमिन्द्रस्य समामह्ना व्यवर्धत स आसीद्द्वादशसमो द्वादशाहेन पार्थिव
MBh 12.29.80
तमियं पृथिवी सर्वा एकाह्ना समपद्यत धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि
MBh 12.29.81
य आङ्गारं हि नृपतिं मरुत्तमसितं गयम् अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत्
MBh 12.29.82
यौवनाश्वो यदाङ्गारं समरे समयोधयत् विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे
MBh 12.29.83
यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते
MBh 12.29.84
अश्वमेधशतेनेष्ट्वा राजसूयशतेन च अददाद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो महीपतिः
MBh 12.29.85
हैरण्यान्योजनोत्सेधानायतान्दशयोजनम् अतिरिक्तान्द्विजातिभ्यो व्यभजन्नितरे जनाः
MBh 12.29.86
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.87
ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय य इमां पृथिवीं सर्वां विजित्य सहसागराम्
MBh 12.29.88
शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्नृप ईजानः क्रतुभिः पुण्यैः पर्यगच्छद्वसुंधराम्
MBh 12.29.89
इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च तर्पयामास देवेन्द्रं त्रिभिः काञ्चनपर्वतैः
MBh 12.29.90
व्यूढे देवासुरे युद्धे हत्वा दैतेयदानवान् व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः
MBh 12.29.91
अन्तेषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् पूरुं राज्येऽभिषिच्य स्वे सदारः प्रस्थितो वनम्
MBh 12.29.92
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.93
अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तम
MBh 12.29.94
यः सहस्रं सहस्राणां राज्ञामयुत याजिनाम् ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः
MBh 12.29.95
नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे इत्यम्बरीषं नाभागमन्वमोदन्त दक्षिणाः
MBh 12.29.96
शतं राजसहस्राणि शतं राजशतानि च सर्वेऽश्वमेधैरीजानास्तेऽभ्ययुर्दक्षिणायनम्
MBh 12.29.97
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.98
शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय यस्य भार्यासहस्राणां शतमासीन्महात्मनः
MBh 12.29.99
सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवः हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः
MBh 12.29.100
शतं कन्या राजपुत्रमेकैकं पृष्ठतोऽन्वयुः कन्यां कन्यां शतं नागा नागं नागं शतं रथाः
MBh 12.29.101
रथं रथं शतं चाश्वा देशजा हेममालिनः अश्वमश्वं शतं गावो गां गां तद्वदजाविकम्
MBh 12.29.102
एतद्धनमपर्यन्तमश्वमेधे महामखे शशबिन्दुर्महाराज ब्राह्मणेभ्यः समादिशत्
MBh 12.29.103
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.104
गयमामूर्तरयसं मृतं शुश्रुम सृञ्जय यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत्
MBh 12.29.105
यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः ददतो मेऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम्
MBh 12.29.106
मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम्
MBh 12.29.107
दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः अयजत्स महातेजाः सहस्रं परिवत्सरान्
MBh 12.29.108
शतं गवां सहस्राणि शतमश्वशतानि च उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान्
MBh 12.29.109
तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ
MBh 12.29.110
सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् दक्षिणामददद्राजा वाजिमेधमहामखे
MBh 12.29.111
यावत्यः सिकता राजन्गङ्गायाः पुरुषर्षभ तावतीरेव गाः प्रादादामूर्तरयसो गयः
MBh 12.29.112
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.113
रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय सम्यगाराध्य यः शक्रं वरं लेभे महायशाः
MBh 12.29.114
अन्नं च नो बहु भवेदतिथींश्च लभेमहि श्रद्धा च नो मा व्यगमन्मा च याचिष्म कंचन
MBh 12.29.115
उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम्
MBh 12.29.116
महानदी चर्मराशेरुत्क्लेदात्सुस्रुवे यतः ततश्चर्मण्वतीत्येवं विख्याता सा महानदी
MBh 12.29.117
ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः तुभ्यं तुभ्यं निष्कमिति यत्राक्रोशन्ति वै द्विजाः सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्स्म प्रपद्यते
MBh 12.29.118
अन्वाहार्योपकरणं द्रव्योपकरणं च यत् घटाः स्थाल्यः कटाहाश्च पात्र्यश्च पिठरा अपि न तत्किंचिदसौवर्णं रन्तिदेवस्य धीमतः
MBh 12.29.119
साङ्कृते रन्तिदेवस्य यां रात्रिमवसद्गृहे आलभ्यन्त शतं गावः सहस्राणि च विंशतिः
MBh 12.29.120
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः सूपभूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा
MBh 12.29.121
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.122
सगरं च महात्मानं मृतं शुश्रुम सृञ्जय ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम्
MBh 12.29.123
षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतोऽन्वयुः नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव
MBh 12.29.124
एकच्छत्रा मही यस्य प्रणता ह्यभवत्पुरा योऽश्वमेधसहस्रेण तर्पयामास देवताः
MBh 12.29.125
यः प्रादात्काञ्चनस्तम्भं प्रासादं सर्वकाञ्चनम् पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम्
MBh 12.29.126
द्विजातिभ्योऽनुरूपेभ्यः कामानुच्चावचांस्तथा यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः
MBh 12.29.127
खानयामास यः कोपात्पृथिवीं सागराङ्किताम् यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः
MBh 12.29.128
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.129
राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय यमभ्यषिञ्चन्संभूय महारण्ये महर्षयः
MBh 12.29.130
प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः क्षताच्च नस्त्रायतीति स तस्मात्क्षत्रियः स्मृतः
MBh 12.29.131
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन् ततो राजेति नामास्य अनुरागादजायत
MBh 12.29.132
अकृष्टपच्या पृथिवी पुटके पुटके मधु सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः
MBh 12.29.133
अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः यथाभिकाममवसन्क्षेत्रेषु च गृहेषु च
MBh 12.29.134
आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः सरितश्चानुदीर्यन्त ध्वजसङ्गश्च नाभवत्
MBh 12.29.135
हैरण्यांस्त्रिनलोत्सेधान्पर्वतानेकविंशतिम् ब्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे
MBh 12.29.136
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः
MBh 12.29.137
किं वै तूष्णीं ध्यायसि सृञ्जय त्वं; न मे राजन्वाचमिमां शृणोषि न चेन्मोघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षोरिव सम्यगुक्तम्
MBh 12.29.138
सृञ्जय उवाच शृणोमि ते नारद वाचमेतां; विचित्रार्थां स्रजमिव पुण्यगन्धाम् राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शोकनिर्णाशनार्थम्
MBh 12.29.139
न ते मोघं विप्रलप्तं महर्षे; दृष्ट्वैव त्वां नारदाहं विशोकः शुश्रूषे ते वचनं ब्रह्मवादि;न्न ते तृप्याम्यमृतस्येव पानात्
MBh 12.29.140
अमोघदर्शिन्मम चेत्प्रसादं; सुताघदग्धस्य विभो प्रकुर्याः मृतस्य संजीवनमद्य मे स्या;त्तव प्रसादात्सुतसंगमश्च
MBh 12.29.141
नारद उवाच यस्ते पुत्रो दयितोऽयं वियातः; स्वर्णष्ठीवी यमदात्पर्वतस्ते पुनस्ते तं पुत्रमहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 141 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.29local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷