🪷 Mahābhārata · Śānti-Parva · Chapter 297
The Book of Peace · the great dharma-śāstra · Parva 12 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 25 Shlokas
MBh 12.297.1
भीष्म उवाच
मृगयां विचरन्कश्चिद्विजने जनकात्मजः
वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः
MBh 12.297.2
तमासीनमुपासीनः प्रणम्य शिरसा मुनिम्
पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम्
MBh 12.297.3
भगवन्किमिदं श्रेयः प्रेत्य वापीह वा भवेत्
पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः
MBh 12.297.4
सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः
निजगाद ततस्तस्मै श्रेयस्करमिदं वचः
MBh 12.297.5
मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि
भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः
MBh 12.297.6
धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम्
धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः
MBh 12.297.7
स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि
मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि
MBh 12.297.8
यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना
तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना
MBh 12.297.9
असता धर्मकामेन विशुद्धं कर्म दुष्करम्
सता तु धर्मकामेन सुकरं कर्म दुष्करम्
MBh 12.297.10
वने ग्राम्यसुखाचारो यथा ग्राम्यस्तथैव सः
ग्रामे वनसुखाचारो यथा वनचरस्तथा
MBh 12.297.11
मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः
निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान्
MBh 12.297.12
नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता
प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः
MBh 12.297.13
शुभेन विधिना लब्धमर्हाय प्रतिपादयेत्
क्रोधमुत्सृज्य दत्त्वा च नानुतप्येन्न कीर्तयेत्
MBh 12.297.14
अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः
योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः
MBh 12.297.15
सत्कृता चैकपत्नी च जात्या योनिरिहेष्यते
ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते
MBh 12.297.16
स एव धर्मः सोऽधर्मस्तं तं प्रतिनरं भवेत्
पात्रकर्मविशेषेण देशकालाववेक्ष्य च
MBh 12.297.17
लीलयाल्पं यथा गात्रात्प्रमृज्याद्रजसः पुमान्
बहुयत्नेन महता पापनिर्हरणं तथा
MBh 12.297.18
विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम्
तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः
MBh 12.297.19
मानसं सर्वभूतेषु वर्तते वै शुभाशुभे
अशुभेभ्यः समाक्षिप्य शुभेष्वेवावतारयेत्
MBh 12.297.20
सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय
स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम्
MBh 12.297.21
अधृतात्मन्धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान्भव
अप्रशान्त प्रशाम्य त्वमप्राज्ञ प्राज्ञवच्चर
MBh 12.297.22
तेजसा शक्यते प्राप्तुमुपायसहचारिणा
इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा
MBh 12.297.23
राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः
ययातिः क्षीणपुण्यश्च धृत्या लोकानवाप्तवान्
MBh 12.297.24
तपस्विनां धर्मवतां विदुषां चोपसेवनात्
प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे
MBh 12.297.25
स तु स्वभावसंपन्नस्तच्छ्रुत्वा मुनिभाषितम्
विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 296
- Next chapter · Śānti-Parva Ch 298 →
Sources and Connected Readings
Continue from these 25 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.297local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷