🪷 Mahābhārata · Śānti-Parva · Chapter 296

The Book of Peace · the great dharma-śāstra · Parva 12 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 50 Shlokas

MBh 12.296.1
वसिष्ठ उवाच अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा
MBh 12.296.2
अजस्रं त्विह क्रीडार्थं विकुर्वन्ती नराधिप आत्मानं बहुधा कृत्वा तान्येव च विचक्षते
MBh 12.296.3
एतदेवं विकुर्वाणां बुध्यमानो न बुध्यते अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि
MBh 12.296.4
न त्वेव बुध्यतेऽव्यक्तं सगुणं वाथ निर्गुणम् कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम्
MBh 12.296.5
बुध्यते यदि वाव्यक्तमेतद्वै पञ्चविंशकम् बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः
MBh 12.296.6
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम् अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत
MBh 12.296.7
पञ्चविंशं महात्मानं न चासावपि बुध्यते षड्विंशं विमलं बुद्धमप्रमेयं सनातनम्
MBh 12.296.8
सततं पञ्चविंशं च चतुर्विंशं च बुध्यते दृश्यादृश्ये ह्यनुगतमुभावेव महाद्युती
MBh 12.296.9
अव्यक्तं न तु तद्ब्रह्म बुध्यते तात केवलम् केवलं पञ्चविंशं च चतुर्विंशं न पश्यति
MBh 12.296.10
बुध्यमानो यदात्मानमन्योऽहमिति मन्यते तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः
MBh 12.296.11
बुध्यते च परां बुद्धिं विशुद्धाममलां यदा षड्विंशो राजशार्दूल तदा बुद्धत्वमाव्रजेत्
MBh 12.296.12
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम् निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम्
MBh 12.296.13
ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात् केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात्
MBh 12.296.14
एतत्तत्तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् तत्त्वसंश्रयणादेतत्तत्त्ववन्न च मानद पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः
MBh 12.296.15
न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान् एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम्
MBh 12.296.16
षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः केवलेन बलेनैव समतां यात्यसंशयम्
MBh 12.296.17
षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान् एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात्
MBh 12.296.18
चेतनेन समेतस्य पञ्चविंशतिकस्य च एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते
MBh 12.296.19
बुध्यमानोऽप्रबुद्धेन समतां याति मैथिल सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप
MBh 12.296.20
निःसङ्गात्मानमासाद्य षड्विंशकमजं विदुः विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात्
MBh 12.296.21
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः
MBh 12.296.22
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः मत्स्योऽम्भसि यथा तद्वदन्यत्वमुपलभ्यते
MBh 12.296.23
एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः एतद्विमोक्ष इत्युक्तमव्यक्तज्ञानसंहितम्
MBh 12.296.24
पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात्
MBh 12.296.25
सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः परेण परधर्मा च भवत्येष समेत्य वै
MBh 12.296.26
विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान् विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ
MBh 12.296.27
नियोगधर्मिणा चैव नियोगात्मा भवत्यपि विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत्
MBh 12.296.28
शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान् विमलात्मा च भवति समेत्य विमलात्मना
MBh 12.296.29
केवलात्मा तथा चैव केवलेन समेत्य वै स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते
MBh 12.296.30
एतावदेतत्कथितं मया ते; तथ्यं महाराज यथार्थतत्त्वम् अमत्सरत्वं प्रतिगृह्य चार्थं; सनातनं ब्रह्म विशुद्धमाद्यम्
MBh 12.296.31
न वेदनिष्ठस्य जनस्य राज;न्प्रदेयमेतत्परमं त्वया भवेत् विवित्समानाय विबोधकारकं; प्रबोधहेतोः प्रणतस्य शासनम्
MBh 12.296.32
न देयमेतच्च तथानृतात्मने; शठाय क्लीबाय न जिह्मबुद्धये न पण्डितज्ञानपरोपतापिने; देयं त्वयेदं विनिबोध यादृशे
MBh 12.296.33
श्रद्धान्वितायाथ गुणान्विताय; परापवादाद्विरताय नित्यम् विशुद्धयोगाय बुधाय चैव; क्रियावतेऽथ क्षमिणे हिताय
MBh 12.296.34
विविक्तशीलाय विधिप्रियाय; विवादहीनाय बहुश्रुताय विजानते चैव न चाहितक्षमे; दमे च शक्ताय शमे च देहिनाम्
MBh 12.296.35
एतैर्गुणैर्हीनतमे न देय;मेतत्परं ब्रह्म विशुद्धमाहुः न श्रेयसा योक्ष्यति तादृशे कृतं; धर्मप्रवक्तारमपात्रदानात्
MBh 12.296.36
पृथ्वीमिमां यद्यपि रत्नपूर्णां; दद्यान्नदेयं त्विदमव्रताय जितेन्द्रियायैतदसंशयं ते; भवेत्प्रदेयं परमं नरेन्द्र
MBh 12.296.37
कराल मा ते भयमस्तु किंचि;देतच्छ्रुतं ब्रह्म परं त्वयाद्य यथावदुक्तं परमं पवित्रं; निःशोकमत्यन्तमनादिमध्यम्
MBh 12.296.38
अगाधजन्मामरणं च राज;न्निरामयं वीतभयं शिवं च समीक्ष्य मोहं त्यज चाद्य सर्वं; ज्ञानस्य तत्त्वार्थमिदं विदित्वा
MBh 12.296.39
अवाप्तमेतद्धि पुरा सनातना;द्धिरण्यगर्भाद्गदतो नराधिप प्रसाद्य यत्नेन तमुग्रतेजसं; सनातनं ब्रह्म यथाद्य वै त्वया
MBh 12.296.40
पृष्टस्त्वया चास्मि यथा नरेन्द्र; तथा मयेदं त्वयि चोक्तमद्य तथावाप्तं ब्रह्मणो मे नरेन्द्र; महज्ज्ञानं मोक्षविदां पुराणम्
MBh 12.296.41
भीष्म उवाच एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः पञ्चविंशो महाराज परमर्षिनिदर्शनात्
MBh 12.296.42
पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरः
MBh 12.296.43
एतन्निःश्रेयसकरं ज्ञानानां ते परं मया कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप
MBh 12.296.44
हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम्
MBh 12.296.45
नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम् मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम्
MBh 12.296.46
येन क्षराक्षरे वित्ते न भयं तस्य विद्यते विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव
MBh 12.296.47
अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवन् प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते
MBh 12.296.48
देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते यदि शुध्यति कालेन तस्मादज्ञानसागरात्
MBh 12.296.49
अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते अहन्यहनि मज्जन्ति यत्र भूतानि भारत
MBh 12.296.50
यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात् तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 50 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.296local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷