🪷 Mahābhārata · Śānti-Parva · Chapter 295
The Book of Peace · the great dharma-śāstra · Parva 12 · 46 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 46 Shlokas
MBh 12.295.1
वसिष्ठ उवाच
सांख्यदर्शनमेतावदुक्तं ते नृपसत्तम
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः
MBh 12.295.2
अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मि वै
सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम्
MBh 12.295.3
परस्परमविद्यां वै तन्निबोधानुपूर्वशः
यथोक्तमृषिभिस्तात सांख्यस्यास्य निदर्शनम्
MBh 12.295.4
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम्
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम्
MBh 12.295.5
विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः
मनसः पञ्चभूतानि विद्या इत्यभिचक्षते
MBh 12.295.6
अहंकारस्तु भूतानां पञ्चानां नात्र संशयः
अहंकारस्य च तथा बुद्धिर्विद्या नरेश्वर
MBh 12.295.7
बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम्
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः
MBh 12.295.8
अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम्
सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव
MBh 12.295.9
ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम्
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः
MBh 12.295.10
विद्याविद्यार्थतत्त्वेन मयोक्तं ते विशेषतः
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे
MBh 12.295.11
उभावेतौ क्षरावुक्तावुभावेतौ च नक्षरौ
कारणं तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः
MBh 12.295.12
अनादिनिधनावेतावुभावेवेश्वरौ मतौ
तत्त्वसंज्ञावुभावेतौ प्रोच्येते ज्ञानचिन्तकैः
MBh 12.295.13
सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरक्षरम्
तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः
MBh 12.295.14
गुणानां महदादीनामुत्पद्यति परस्परम्
अधिष्ठानात्क्षेत्रमाहुरेतत्तत्पञ्चविंशकम्
MBh 12.295.15
यदा तु गुणजालं तदव्यक्तात्मनि संक्षिपेत्
तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते
MBh 12.295.16
गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत्
क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे संप्रलीयते
MBh 12.295.17
तदाक्षरत्वं प्रकृतिर्गच्छते गुणसंज्ञिता
निर्गुणत्वं च वैदेह गुणेषु प्रतिवर्तनात्
MBh 12.295.18
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम
MBh 12.295.19
क्षरो भवत्येष यदा तदा गुणवतीमथ
प्रकृतिं त्वभिजानाति निर्गुणत्वं तथात्मनः
MBh 12.295.20
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात्
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान्
MBh 12.295.21
तदैषोऽन्यत्वतामेति न च मिश्रत्वमाव्रजेत्
प्रकृत्या चैव राजेन्द्र नमिश्रोऽन्यश्च दृश्यते
MBh 12.295.22
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते
पश्यते चापरं पश्यं तदा पश्यन्न संज्वरेत्
MBh 12.295.23
किं मया कृतमेतावद्योऽहं कालमिमं जनम्
मत्स्यो जालं ह्यविज्ञानादनुवर्तितवांस्तथा
MBh 12.295.24
अहमेव हि संमोहादन्यमन्यं जनाज्जनम्
मत्स्यो यथोदकज्ञानादनुवर्तितवानिह
MBh 12.295.25
मत्स्योऽन्यत्वं यथाज्ञानादुदकान्नाभिमन्यते
आत्मानं तद्वदज्ञानादन्यत्वं चैव वेद्म्यहम्
MBh 12.295.26
ममास्तु धिगबुद्धस्य योऽहं मग्नमिमं पुनः
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम्
MBh 12.295.27
अयमत्र भवेद्बन्धुरनेन सह मोक्षणम्
साम्यमेकत्वमायातो यादृशस्तादृशस्त्वहम्
MBh 12.295.28
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै
अयं हि विमलो व्यक्तमहमीदृशकस्तथा
MBh 12.295.29
योऽहमज्ञानसंमोहादज्ञया संप्रवृत्तवान्
ससङ्गयाहं निःसङ्गः स्थितः कालमिमं त्वहम्
MBh 12.295.30
अनयाहं वशीभूतः कालमेतं न बुद्धवान्
उच्चमध्यमनीचानां तामहं कथमावसे
MBh 12.295.31
समानयानया चेह सहवासमहं कथम्
गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे
MBh 12.295.32
सहवासं न यास्यामि कालमेतद्धि वञ्चनात्
वञ्चितोऽस्म्यनया यद्धि निर्विकारो विकारया
MBh 12.295.33
न चायमपराधोऽस्या अपराधो ह्ययं मम
योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः
MBh 12.295.34
ततोऽस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान्
अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः
MBh 12.295.35
प्रकृतेरनयत्वेन तासु तास्विह योनिषु
निर्ममस्य ममत्वेन किं कृतं तासु तासु च
योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा
MBh 12.295.36
न ममात्रानया कार्यमहंकारकृतात्मया
आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम्
इदानीमेष बुद्धोऽस्मि निर्ममो निरहंकृतः
MBh 12.295.37
ममत्वमनया नित्यमहंकारकृतात्मकम्
अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम्
MBh 12.295.38
अनेन साम्यं यास्यामि नानयाहमचेतसा
क्षमं मम सहानेन नैकत्वमनया सह
एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान्
MBh 12.295.39
अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम्
अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा
निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल
MBh 12.295.40
अक्षरक्षरयोरेतदुक्तं तव निदर्शनम्
मयेह ज्ञानसंपन्नं यथाश्रुतिनिदर्शनात्
MBh 12.295.41
निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा
प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम्
MBh 12.295.42
सांख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात्
यदेव शास्त्रं सांख्योक्तं योगदर्शनमेव तत्
MBh 12.295.43
प्रबोधनकरं ज्ञानं सांख्यानामवनीपते
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया
MBh 12.295.44
बृहच्चैव हि तच्छास्त्रमित्याहुः कुशला जनाः
अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः
MBh 12.295.45
पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप
सांख्यानां तु परं तत्र यथावदनुवर्णितम्
MBh 12.295.46
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः
बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 294
- Next chapter · Śānti-Parva Ch 296 →
Sources and Connected Readings
Continue from these 46 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.295local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷