🪷 Mahābhārata · Śānti-Parva · Chapter 294
The Book of Peace · the great dharma-śāstra · Parva 12 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 49 Shlokas
MBh 12.294.1
करालजनक उवाच
नानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम
पश्यामि चाभिसंदिग्धमेतयोर्वै निदर्शनम्
MBh 12.294.2
तथाप्रबुद्धबुद्धाभ्यां बुध्यमानस्य चानघ
स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः
MBh 12.294.3
अक्षरक्षरयोरुक्तं त्वया यदपि कारणम्
तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ
MBh 12.294.4
तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम्
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः
MBh 12.294.5
विद्याविद्ये च भगवन्नक्षरं क्षरमेव च
सांख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह
MBh 12.294.6
वसिष्ठ उवाच
हन्त ते संप्रवक्ष्यामि यदेतदनुपृच्छसि
योगकृत्यं महाराज पृथगेव शृणुष्व मे
MBh 12.294.7
योगकृत्यं तु योगानां ध्यानमेव परं बलम्
तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः
MBh 12.294.8
एकाग्रता च मनसः प्राणायामस्तथैव च
प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा
MBh 12.294.9
मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप
त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः
MBh 12.294.10
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः
दशद्वादशभिर्वापि चतुर्विंशात्परं ततः
MBh 12.294.11
तं चोदनाभिर्मतिमानात्मानं चोदयेदथ
तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः
MBh 12.294.12
तैश्चात्मा सततं ज्ञेय इत्येवमनुशुश्रुम
द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः
MBh 12.294.13
विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः
पूर्वरात्रे परे चैव धारयेत मनोऽऽत्मनि
MBh 12.294.14
स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः
MBh 12.294.15
स्थाणुवच्चाप्यकम्पः स्याद्गिरिवच्चापि निश्चलः
बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते
MBh 12.294.16
न शृणोति न चाघ्राति न रस्यति न पश्यति
न च स्पर्शं विजानाति न संकल्पयते मनः
MBh 12.294.17
न चाभिमन्यते किंचिन्न च बुध्यति काष्ठवत्
तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः
MBh 12.294.18
निवाते च यथा दीप्यन्दीपस्तद्वत्स दृश्यते
निरिङ्गश्चाचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात्
MBh 12.294.19
तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते
हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः
MBh 12.294.20
विधूम इव सप्तार्चिरादित्य इव रश्मिमान्
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथात्मनि
MBh 12.294.21
यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः
ब्राह्मणा ब्रह्मयोनिष्ठा ह्ययोनिममृतात्मकम्
MBh 12.294.22
तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम्
तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते
MBh 12.294.23
बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत्
महतस्तमसस्तात पारे तिष्ठन्नतामसः
MBh 12.294.24
स तमोनुद इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः
विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसंज्ञितः
MBh 12.294.25
योगमेतद्धि योगानां मन्ये योगस्य लक्षणम्
एवं पश्यं प्रपश्यन्ति आत्मानमजरं परम्
MBh 12.294.26
योगदर्शनमेतावदुक्तं ते तत्त्वतो मया
सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम्
MBh 12.294.27
अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः
तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम
MBh 12.294.28
अहंकारस्तु महतस्तृतीयमिति नः श्रुतम्
पञ्च भूतान्यहंकारादाहुः सांख्यानुदर्शिनः
MBh 12.294.29
एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश
पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च
MBh 12.294.30
एतावदेव तत्त्वानां सांख्यमाहुर्मनीषिणः
सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः
MBh 12.294.31
यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते
लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना
MBh 12.294.32
अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः
गुणा गुणेषु सततं सागरस्योर्मयो यथा
MBh 12.294.33
सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम
एकत्वं प्रलये चास्य बहुत्वं च यदासृजत्
एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः
MBh 12.294.34
अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम्
एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववान्
एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात्
MBh 12.294.35
बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम्
तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति
MBh 12.294.36
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम्
MBh 12.294.37
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते
अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते
MBh 12.294.38
अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते
क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः
MBh 12.294.39
अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः
MBh 12.294.40
अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम्
अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम्
MBh 12.294.41
सांख्यदर्शनमेतावत्परिसंख्यानदर्शनम्
सांख्यं प्रकुरुते चैव प्रकृतिं च प्रचक्षते
MBh 12.294.42
तत्त्वानि च चतुर्विंशत्परिसंख्याय तत्त्वतः
सांख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः
MBh 12.294.43
पञ्चविंशोऽप्रबुद्धात्मा बुध्यमान इति स्मृतः
यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः
MBh 12.294.44
सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः
एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत
MBh 12.294.45
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा
गुणतत्त्वान्यथैतानि निर्गुणोऽन्यस्तथा भवेत्
MBh 12.294.46
न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः
विद्यतेऽक्षरभावत्वादपरस्परमव्ययम्
MBh 12.294.47
पश्येरन्नेकमतयो न सम्यक्तेषु दर्शनम्
तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम
MBh 12.294.48
सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात्
व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः
MBh 12.294.49
सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः
य एनमभिजानन्ति न भयं तेषु विद्यते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 293
- Next chapter · Śānti-Parva Ch 295 →
Sources and Connected Readings
Continue from these 49 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.294local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷