🪷 Mahābhārata · Śānti-Parva · Chapter 286
The Book of Peace · the great dharma-śāstra · Parva 12 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 41 Shlokas
MBh 12.286.1
पराशर उवाच
पिता सखायो गुरवः स्त्रियश्च; न निर्गुणा नाम भवन्ति लोके
अनन्यभक्ताः प्रियवादिनश्च; हिताश्च वश्याश्च तथैव राजन्
MBh 12.286.2
पिता परं दैवतं मानवानां; मातुर्विशिष्टं पितरं वदन्ति
ज्ञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परमाप्नुवन्ति
MBh 12.286.3
रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजो घातमवाप्य दह्यते
प्रयाति लोकानमरैः सुदुर्लभा;न्निषेवते स्वर्गफलं यथासुखम्
MBh 12.286.4
श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश्च हीनम्
अनुद्यतं रोगिणं याचमानं; न वै हिंस्याद्बालवृद्धौ च राजन्
MBh 12.286.5
परिबर्हैः सुसंपन्नमुद्यतं तुल्यतां गतम्
अतिक्रमेत नृपतिः संग्रामे क्षत्रियात्मजम्
MBh 12.286.6
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः
निहीनात्कातराच्चैव नृपाणां गर्हितो वधः
MBh 12.286.7
पापात्पापसमाचारान्निहीनाच्च नराधिप
पाप एव वधः प्रोक्तो नरकायेति निश्चयः
MBh 12.286.8
न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम्
सावशेषायुषं चापि कश्चिदेवापकर्षति
MBh 12.286.9
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत्
हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा
MBh 12.286.10
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम्
निधनं शोभनं तात पुलिनेषु क्रियावताम्
MBh 12.286.11
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति
नाकारणात्तद्भवति कारणैरुपपादितम्
MBh 12.286.12
तथा शरीरं भवति देहाद्येनोपपादितम्
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम्
MBh 12.286.13
द्वितीयं कारणं तत्र नान्यत्किंचन विद्यते
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते
MBh 12.286.14
सिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम्
भूतानामिन्द्रियाणां च गुणानां च समागमम्
MBh 12.286.15
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम्
MBh 12.286.16
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम्
भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति
MBh 12.286.17
भावितं कर्मयोगेन जायते तत्र तत्र ह
इदं शरीरं वैदेह म्रियते यत्र तत्र ह
तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा
MBh 12.286.18
न जायते तु नृपते कंचित्कालमयं पुनः
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान्
MBh 12.286.19
स पुनर्जायते राजन्प्राप्येहायतनं नृप
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः
MBh 12.286.20
द्विविधानां च भूतानां जङ्गमाः परमा नृप
जङ्गमानामपि तथा द्विपदाः परमा मताः
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः
MBh 12.286.21
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः
प्राज्ञानामात्मसंबुद्धाः संबुद्धानाममानिनः
MBh 12.286.22
जातमन्वेति मरणं नृणामिति विनिश्चयः
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः
MBh 12.286.23
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत्
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत्
MBh 12.286.24
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम्
मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः
MBh 12.286.25
विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते
MBh 12.286.26
न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसंधिजैः
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि
MBh 12.286.27
ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम्
MBh 12.286.28
एकः शत्रुर्न द्वितीयोऽस्ति शत्रु;रज्ञानतुल्यः पुरुषस्य राजन्
येनावृतः कुरुते संप्रयुक्तो; घोराणि कर्माणि सुदारुणानि
MBh 12.286.29
प्रबोधनार्थं श्रुतिधर्मयुक्तं; वृद्धानुपास्यं च भवेत यस्य
प्रयत्नसाध्यो हि स राजपुत्र; प्रज्ञाशरेणोन्मथितः परैति
MBh 12.286.30
अधीत्य वेदांस्तपसा ब्रह्मचारी; यज्ञाञ्शक्त्या संनिसृज्येह पञ्च
वनं गच्छेत्पुरुषो धर्मकामः; श्रेयश्चित्वा स्थापयित्वा स्ववंशम्
MBh 12.286.31
उपभोगैरपि त्यक्तं नात्मानमवसादयेत्
चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम्
MBh 12.286.32
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः
MBh 12.286.33
कथं न विप्रणश्येम योनितोऽस्या इति प्रभो
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात्
MBh 12.286.34
यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते
MBh 12.286.35
यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति
दीपोपमानि भूतानि यावदर्चिर्न नश्यति
MBh 12.286.36
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत
समदुःखसुखो भूत्वा स परत्र महीयते
MBh 12.286.37
दानं त्यागः शोभना मूर्तिरद्भ्यो; भूयः प्लाव्यं तपसा वै शरीरम्
सरस्वतीनैमिषपुष्करेषु; ये चाप्यन्ये पुण्यदेशाः पृथिव्याम्
MBh 12.286.38
गृहेषु येषामसवः पतन्ति; तेषामथो निर्हरणं प्रशस्तम्
यानेन वै प्रापणं च श्मशाने; शौचेन नूनं विधिना चैव दाहः
MBh 12.286.39
इष्टिः पुष्टिर्यजनं याजनं च; दानं पुण्यानां कर्मणां च प्रयोगः
शक्त्या पित्र्यं यच्च किंचित्प्रशस्तं; सर्वाण्यात्मार्थे मानवो यः करोति
MBh 12.286.40
धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप
श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः
MBh 12.286.41
भीष्म उवाच
एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना
विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 285
- Next chapter · Śānti-Parva Ch 287 →
Sources and Connected Readings
Continue from these 41 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.286local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷