🪷 Mahābhārata · Śānti-Parva · Chapter 285

The Book of Peace · the great dharma-śāstra · Parva 12 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 12.285.1
जनक उवाच वर्णो विशेषवर्णानां महर्षे केन जायते एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर
MBh 12.285.2
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः कथं ब्राह्मणतो जातो विशेषग्रहणं गतः
MBh 12.285.3
पराशर उवाच एवमेतन्महाराज येन जातः स एव सः तपसस्त्वपकर्षेण जातिग्रहणतां गतः
MBh 12.285.4
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति संभवः अतोऽन्यतरतो हीनादवरो नाम जायते
MBh 12.285.5
वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः
MBh 12.285.6
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः ऊरुजा धनिनो राजन्पादजाः परिचारकाः
MBh 12.285.7
चतुर्णामेव वर्णानामागमः पुरुषर्षभ अतोऽन्ये त्वतिरिक्ता ये ते वै संकरजाः स्मृताः
MBh 12.285.8
क्षत्रजातिरथाम्बष्ठा उग्रा वैदेहकास्तथा श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः
MBh 12.285.9
आयोगाः करणा व्रात्याश्चण्डालाश्च नराधिप एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम्
MBh 12.285.10
जनक उवाच ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् बहूनीह हि लोके वै गोत्राणि मुनिसत्तम
MBh 12.285.11
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे
MBh 12.285.12
पराशर उवाच राजन्नैतद्भवेद्ग्राह्यमपकृष्टेन जन्मना महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम्
MBh 12.285.13
उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः
MBh 12.285.14
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः वटस्ताण्ड्यः कृपश्चैव कक्षीवान्कमठादयः
MBh 12.285.15
यवक्रीतश्च नृपते द्रोणश्च वदतां वरः आयुर्मतङ्गो दत्तश्च द्रुपदो मत्स्य एव च
MBh 12.285.16
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात् प्रतिष्ठिता वेदविदो दमे तपसि चैव हि
MBh 12.285.17
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च
MBh 12.285.18
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव नामधेयानि तपसा तानि च ग्रहणं सताम्
MBh 12.285.19
जनक उवाच विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम तथा सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि
MBh 12.285.20
पराशर उवाच प्रतिग्रहो याजनं च तथैवाध्यापनं नृप विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना
MBh 12.285.21
कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि द्विजानां परिचर्या च शूद्रकर्म नराधिप
MBh 12.285.22
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे
MBh 12.285.23
आनृशंस्यमहिंसा चाप्रमादः संविभागिता श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च
MBh 12.285.24
स्वेषु दारेषु संतोषः शौचं नित्यानसूयता आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप
MBh 12.285.25
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः अत्र तेषामधीकारो धर्मेषु द्विपदां वर
MBh 12.285.26
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः उन्नमन्ति यथासन्तमाश्रित्येह स्वकर्मसु
MBh 12.285.27
न चापि शूद्रः पततीति निश्चयो; न चापि संस्कारमिहार्हतीति वा श्रुतिप्रवृत्तं न च धर्ममाप्नुते; न चास्य धर्मे प्रतिषेधनं कृतम्
MBh 12.285.28
वैदेहकं शूद्रमुदाहरन्ति; द्विजा महाराज श्रुतोपपन्नाः अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः प्रधानम्
MBh 12.285.29
सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः
MBh 12.285.30
यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते
MBh 12.285.31
जनक उवाच किं कर्म दूषयत्येनमथ जातिर्महामुने संदेहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि
MBh 12.285.32
पराशर उवाच असंशयं महाराज उभयं दोषकारकम् कर्म चैव हि जातिश्च विशेषं तु निशामय
MBh 12.285.33
जात्या च कर्मणा चैव दुष्टं कर्म निषेवते जात्या दुष्टश्च यः पापं न करोति स पूरुषः
MBh 12.285.34
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् कर्म तद्दूषयत्येनं तस्मात्कर्म नशोभनम्
MBh 12.285.35
जनक उवाच कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा
MBh 12.285.36
पराशर उवाच शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा
MBh 12.285.37
संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम्
MBh 12.285.38
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः प्रयान्ति स्थानमजरं सर्वकर्मविवर्जिताः
MBh 12.285.39
सर्वे वर्णा धर्मकार्याणि सम्य;क्कृत्वा राजन्सत्यवाक्यानि चोक्त्वा त्यक्त्वाधर्मं दारुणं जीवलोके; यान्ति स्वर्गं नात्र कार्यो विचारः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.285local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷