🪷 Mahābhārata · Śānti-Parva · Chapter 284

The Book of Peace · the great dharma-śāstra · Parva 12 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 12.284.1
पराशर उवाच एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु
MBh 12.284.2
प्रायेण हि गृहस्थस्य ममत्वं नाम जायते सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः
MBh 12.284.3
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै
MBh 12.284.4
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः
MBh 12.284.5
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् मोहजाता रतिर्नाम समुपैति नराधिप
MBh 12.284.6
कृतार्थो भोगतो भूत्वा स वै रतिपरायणः लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति
MBh 12.284.7
ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति
MBh 12.284.8
स जानन्नपि चाकार्यमर्थार्थं सेवते नरः बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते
MBh 12.284.9
ततो मानेन संपन्नो रक्षन्नात्मपराजयम् करोति येन भोगी स्यामिति तस्माद्विनश्यति
MBh 12.284.10
तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम् अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम्
MBh 12.284.11
स्नेहायतननाशाच्च धननाशाच्च पार्थिव आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति
MBh 12.284.12
निर्वेदादात्मसंबोधः संबोधाच्छास्त्रदर्शनम् शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति
MBh 12.284.13
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति
MBh 12.284.14
तपः सर्वगतं तात हीनस्यापि विधीयते जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम्
MBh 12.284.15
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव
MBh 12.284.16
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः
MBh 12.284.17
यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः
MBh 12.284.18
ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा
MBh 12.284.19
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम्
MBh 12.284.20
कौशिकानि च वस्त्राणि शुभान्याभरणानि च वाहनासनयानानि सर्वं तत्तपसः फलम्
MBh 12.284.21
मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम्
MBh 12.284.22
शयनानि च मुख्यानि भोज्यानि विविधानि च अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम्
MBh 12.284.23
नाप्राप्यं तपसा किंचित्त्रैलोक्येऽस्मिन्परंतप उपभोगपरित्यागः फलान्यकृतकर्मणाम्
MBh 12.284.24
सुखितो दुःखितो वापि नरो लोभं परित्यजेत् अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम
MBh 12.284.25
असंतोषोऽसुखायैव लोभादिन्द्रियविभ्रमः ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता
MBh 12.284.26
नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत्
MBh 12.284.27
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते कृताकृतस्य तपसः फलं पश्यस्व यादृशम्
MBh 12.284.28
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः
MBh 12.284.29
अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम्
MBh 12.284.30
धर्मे तपसि दाने च विचिकित्सास्य जायते स कृत्वा पापकान्येव निरयं प्रतिपद्यते
MBh 12.284.31
सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः
MBh 12.284.32
इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता रसने दर्शने घ्राणे श्रवणे च विशां पते
MBh 12.284.33
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम्
MBh 12.284.34
ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते
MBh 12.284.35
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः
MBh 12.284.36
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम्
MBh 12.284.37
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् तेषां नान्यदृते लोके तपसः कर्म विद्यते
MBh 12.284.38
सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम् दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप
MBh 12.284.39
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.284local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷