🪷 Mahābhārata · Śānti-Parva · Chapter 281

The Book of Peace · the great dharma-śāstra · Parva 12 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 12.281.1
पराशर उवाच कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना
MBh 12.281.2
गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम्
MBh 12.281.3
विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः
MBh 12.281.4
न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः
MBh 12.281.5
न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत्
MBh 12.281.6
अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम्
MBh 12.281.7
रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ
MBh 12.281.8
तैरेव फलपत्रैश्च स माठरमतोषयत् तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः
MBh 12.281.9
देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत्
MBh 12.281.10
स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च
MBh 12.281.11
वाचः शेषावहार्येण पालनेनात्मनोऽपि च यथावद्भृत्यवर्गस्य चिकीर्षेद्धर्ममादितः
MBh 12.281.12
प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः
MBh 12.281.13
विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत् ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः
MBh 12.281.14
गतः शुक्रत्वमुशना देवदेवप्रसादनात् देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः
MBh 12.281.15
असितो देवलश्चैव तथा नारदपर्वतौ कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथांशुमान्
MBh 12.281.16
वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः
MBh 12.281.17
एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः
MBh 12.281.18
अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम्
MBh 12.281.19
येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया
MBh 12.281.20
आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो
MBh 12.281.21
स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम्
MBh 12.281.22
अग्निरात्मा च माता च पिता जनयिता तथा गुरुश्च नरशार्दूल परिचर्या यथातथम्
MBh 12.281.23
मानं त्यक्त्वा यो नरो वृद्धसेवी; विद्वान्क्लीबः पश्यति प्रीतियोगात् दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो; लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.281local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷